अयं च षड्भेदो द्रव्यास्तिक उपवर्णितः । ए4917षु च प4918र्यवशब्दो भाववचनः,
पर्यायशब्दः समन्ताद्गतिवचनः । विशेषेण तु यथादर्शनमेव विध्यादिषु प्रत्येकं
व्याख्यातस्वरूपभेदमनुगन्तव्यं सर्वगतिसामान्यमत्यजद्भिः । द्रव्यशब्दार्थस्तत्र
तत्र व्याख्यात एव ।
अयं चेत्यतीतान् पञ्चैतं च षष्ठं सम्पिण्ड्य एकस्य त्रिशतभेदस्य सङ्क्षेपेण षड् भेदाः, तत्र 1विधिः
2विधिविधिः ३विधिविधिनियमं ४विधिनियमः ५विधिनियमं षष्ठश्चायं ६विधिनियमविधिरिति षड्भेदो
द्रव्यास्तिक उपवर्णितः, षडप्येते भेदा द्रव्यास्तिकस्यैवेत्यर्थः ।
एषु च षट्सु नयेषु पर्यवशब्दो भाववचनः समन्ताद् भवनात् पर्यवः सर्वात्मना भवनात् ।
पर्यायशब्दः समन्ताद्गतिवचनः, समन्ताद् गमनात् पर्यायः, द्रव्यस्य वर्णाद्यात्मना परितो गमनात् ।
अयं च विग्रहार्थः षण्णामपि सामान्येन द्र4919ष्टव्यः, विशेषेण तु यथादर्शनमेव विध्यादिषु प्रत्येकं व्याख्यात
३१५-२ स्वरूपभेदमनुगन्तव्यं सर्वगतिसामान्यमत्यजद्भिः, सर्वस्य सर्वात्मकत्वात् एकस्य सर्वात्मकत्वात् एकैकस्य
सर्वात्मकत्वात् सर्वस्य चैकैकात्मकत्वात् सर्वगतिमेव यथादर्शनमाह । द्रव्यशब्दार्थस्तत्र तत्र व्याख्यात एव
यथादर्शनं द्रव्यप्राधान्यात्, प4920र्यायोपसर्जनादिहान्ते पर्यायशब्दो व्याख्यातः ।