455

ओँ अर्हम्

अथ सप्तम उभयोभयारः ।


यद्यसत् कार्यं नोत्पद्येत असन्निहितभवितृकत्वात् खपुष्पवत् । खपुष्पमपि
वोत्पद्येत असन्निहितभवितृकत्वात् कार्यवत् ।


खपुष्पसत्त्वस्याश्रयो नास्तीति चेत्, न, इतरत्रापि तुल्यत्वात् । घटस्य
मृदोऽतत्त्वाद् घटादिसत्त्वस्याप्याश्रयो नास्त्येव उत्पत्स्यमानस्य असतः सत्तासमवा
यित्वात् ।


इदानीं पर्यायनयप्रथमशिराप्रदिदर्शयिषया अनन्तरनिर्दिष्टवैशेषिकोभ4921यविधिनिराचिकीर्षया चोत्तरः
समनन्तरानुलोमत्वात् पूर्वविरु4922द्धत्वान्निवृत्तनिरनुशयत्वाच्च नयानामसत्कार्यवादमेव दूषयितुमाह --यद्यसदि
त्यादि । आस्तां तावदस्मन्मतम्, पूर्वनयमतेनैवैतत् त्वद्दर्शनमनुपपन्नमिति ब्रूमः, द्रव्यार्थिकनयानां सन्नि
हि तभवितृकभवनाभ्युपगमाद् नासत् कार्यमुत्पत्तुमर्हति, 4923सन्निहितभवितृकत्वात्, खपुष्पवत् । खपुष्प
मपि 4924वोत्पद्येतासन्निहितभवितृकत्वात् कार्यवत् ।
षट्पदार्थसंसर्गवादस्य सत्तासमवायबलेन प्रवृत्तत्वात्
सत्तासमवायोन्मूलनात् तन्त्रस्यैवोन्मूलनमित्यभिप्रायेणायं सत्तासमवायविचारप्रस्ताव इति ।


खपुष्पसत्त्वस्याश्रयो नास्तीति चेत् । स्यान्मतम्--कारणद्रव्येष्वाश्रयभूतेषु सत्स्वेव सत्तासम
वायात् कार्यं प्रागसत् पश्चादुत्पद्यते, खपुष्पं तु निराश्रयत्वाद् नोत्पत्स्यते कार्यवैधर्म्यादिति । एतच्च न,
इतरत्रापि तुल्यत्वात्,
कार्यमपि हि निराश्रयमसत्त्वादेव खपुष्पवत्, अतो न कश्चित् कार्यखपुष्पयोर्वि-३१६-१
शेषः । किं कारणम् ? घटस्य कार्यस्य मृदोऽतत्त्वात्, मृद्द्रव्यस्य पिण्डादिरूपैर्भवितृणो न तत्त्वं त्वन्मते
पिण्डादि कार्यमसत्त्वात् । तस्माद् घटादिसत्त्वस्याप्याश्रयो नास्त्येव खपुष्पादिसत्त्वस्येव । त्वन्मतेनैवो
त्पत्स्यमानस्य पिण्डघटादेः कार्यस्य निःसत्तासमवायस्या4925सतः सत्तासमवायित्वात् सत्तासमवायित्वा
भ्युपगमात् उत्पन्नं ह्याश्रयमाश्रयन्त्याश्रयिणः सत्तादयः इति सिद्धान्तात् तस्यां ह्यवस्थायां

  1. ॰भयमविधि॰ प्र॰ ॥

  2. ॰रुद्धान्निवृत्त॰भा॰॰रुद्धान्निवृत्ति॰ य॰ । दृश्यतां पृ॰ २२१ पं॰ ८ ॥

  3. दृश्यतां पृ॰ ३१७-- २ पं॰ २ ॥

  4. चोत्पद्यतासन्नि॰ प्र॰ । दृश्यतां पृ॰ ३२३-- १ । अत्र वोत्पद्यतामसन्निहितभवितृकत्वात् इत्यपि पाठः स्यात्, तुलना पृ॰ ३५१-- २ ॥

  5. ॰स्यासतः सतः सत्ता॰भा॰