553

ओँ अर्हँ


सद्गुरुभ्यो नमः


अथाष्टम उभयनियमारः ।


भावाभावभावनायां यदि भावो विधिरभावो विशेषः, स च पराभाव इष्टो
न स्वरूपस्यैव विशेषः, ततस्तदभावे स्वत्वं परत्वं चाव्यवस्थितं परत्वाभावविशेष
तुल्यत्वात् । ततश्च द्वयोरपीतरेतरात्मापत्तेः स्वपरविशेषत्वाभावे भावाभावयो
र्भेदेनोपनिपातो न स्यात् स्वतोऽप्यसत्त्वं परतश्च सत्त्वं स्यात् ।


इदमिह सम्प्रधार्यम्--किमेतौ भावाभावौ द्वावपि प्रधानौ, भावः प्रधानं
विशेष उपसर्जनम्, विशेषः प्रधानं भाव उपसर्जनम्, उभयमुपसर्जनम् ? यदि
द्वावपि प्रधानौ ततस्तयोरङ्गाङ्गिभावो न स्यात् परस्परानपेक्षत्वादपरार्थत्वात् प्रधान
त्वाद् विजिगीषुवत् । घटो घटभावेन स्वेनैव भवति न पटादिभावेन नाभावेन वा,


विधि-नियमभङ्गसमस्तवृत्तिसत्यत्वप्रतिपादनाधिकारे पूर्वनयदृष्टावपरितुष्टेरुत्तरनयसमारम्भः, तद्यथा
भा5733वाभावभावनाया
मित्यादि । यदि भावाभावात्मकं वस्त्विति भावो विधिरभावो विशेषः, स च
पराभाव इष्टो न स्वरूपस्यैव
भावस्य विशेषो नियम इति, ततस्तदभावे स्वगतविशेषाभावे परस्यापि
स्वगतविशेषाभावे स्वत्वं परत्वं चाव्यवस्थितम्, परत्वाभावविशेषतुल्यत्वात् । स्वं स्वं न भवति
पराभावविशेषत्वात् परवत्, पराभावविशेषत्वं वस्तुत्वात् स्ववत् स्वभावविशेषशून्यत्वात् । परमपि परं न
भवति स्वभावविशेषशून्यत्वात् स्ववत्, पराभावविशेषत्वात् पूर्ववत् पक्षे धर्मसिद्धिः । ततश्च द्वयोरपि
स्वपरयोरितरेतरात्मापत्तेः स्वस्य स्व5734त्वं परस्य च परत्वम् इत्येष विशेषो नास्ति । सति च स्वपरविशेष
त्वाभावे भावाभावयोः
सामान्यविशेषयोर्भेदेनोपनिपातो न स्या5735त् । न स्यात् इति स5736म्भावनया,
मा मुखनिष्ठुरं वोचमिति । एवमैक्यापत्तिरनयोः । नैक्यापत्तिरेव, किं तर्हि ? सङ्करोऽपीत्यत आह
स्वतोऽप्यसत्त्वं
भावितार्थमेव, अपिशब्दात् परतोऽसत्त्वं त्वदभ्युपगतमेव, परतश्च सत्त्वं स्यात्,
अनिष्टं चैतत् ।


किञ्चान्यत्, इदमिह सम्प्रधार्यम्--किमेतौ भावाभावौ द्वावपि प्रधानौ विजिगीषू इवान्यो
न्यनिरपेक्षौ, भावः प्रधानं विशेष उपसर्जनम्, विशेषः प्रधानं भाव उपसर्जनम्, उभयमुप
सर्जनम् ?
इति । चतुर्षु विकल्पेषु त्रीन् विकल्पान् व्युदस्य भावोपसर्जनं विशेषप्रधानं नयस्यास्य मतं
5737मर्थयिष्यामः । तत्र तावद् यदि द्वावपीत्यादि उभयप्राधान्येऽनिष्टापादनं यावद् विजिगीषुवदिति ।

  1. दृश्यतां पृ॰ ५३६ पं॰ १ ॥

  2. सत्वं प्र॰ ॥

  3. स्यात्र प्र॰ ॥

  4. सभा॰ प्र॰ ॥

  5. द्रष्टव्यं पृ॰ ५५५ पं॰ ७ ॥