554

पटोऽप्येवमेव । शिबिकावाहकवत् तुल्यशक्तीनामप्यर्थानामङ्गाङ्गिभाव इति
चेत्, न, शिबिकावाहकवत् प्रधानभूतस्यान्यस्य कस्यचित् सामान्यविशेषयोः प्रयो
जयितुरभावात् । उत्तरभावः प्रयोजयितेति चेत्, न, तदाऽभूतत्वात् उत्पन्नस्यापि
तदात्मकत्वात् शिबिकावाहकवदस्वतन्त्रत्वात् ।


इतरस्य प्रधानस्यार्थं साधयितुमङ्गं प्रवर्तमानमङ्गिनमपेक्षते, अङ्ग्यप्यङ्गमित्यङ्गाङ्गिभावः, स न स्यात्
परस्परानपेक्षत्वात्
तयोः, परस्परानपेक्षत्वमपरार्थत्वात्, अपरार्थत्वं प्रधानत्वात्, यथा विजिगीषोः ।
ततो विरोधादेकत्र प्रवृत्त्यभावाद् वस्तु भावाभावात्मकं न भवतीति ।


कथं तर्हि भवतीति चेत्, घटो घटभावेन स्वेनैव भवति स्वभवनप्राधा5738न्येन, न पटादिभावेन
३७०-२ उक्तसङ्कर-विशेषासत्त्वदोषभयात्, नाभावेन वा पटादेरा5739त्मनो वा, उक्तदोषादेव । पटोऽप्येवमेव,
स्वेनैव पटभावेन भवति न घटभावेनाभावेनैव वा ।


शिबिकावाहकेत्यादि यावच्चेदिति । स्यान्मतम् --प5740रस्परनिरपेक्षत्वादित्यादिहेत्वसिद्धिः, तुल्य
शक्तीनामप्यर्थानामङ्गाङ्गिभावदर्शनात्, यथा शिबिकावाहकानामिवेति । एतच्च , शिबिकावाहक
दित्यादि यावत् प्रयोजयितुरभावादिति । न हेत्वसिद्धिः, शिबिकावाहकानामिव प्रधानभूत ईश्वरो
यथा प्रयोजयिता संहत्यकारिणामङ्गाङ्गिभावहेतुरस्ति वहनक्रियायां न तथा कश्चित् सामान्यविशेषयो
र्घटादेः पिण्डशिवकादेश्च प्रधानभूतोऽन्यः कश्चित् प्रयोजयितास्ति । तस्माद् वैधर्म्यादयुक्तदृष्टान्तमिद
मुत्तरमिति ।


उत्तरभावः प्रयोजयितेति चेत्, पिण्डस्योत्तरो भावः शिवकादिः, स प्रयोजयिता प्रधानभूतः,
तस्यापि स्थास5741क-कोशक-कुशूलकादिरुत्तरो यावत् पश्चिमो घटः पुनरावृत्त्या इति एवं चेन्मन्यसे तदपि
न, तदाऽभूतत्वात्, उत्तरस्य भावस्य तस्मिन् कालेऽनुत्पन्नत्वादसतः प्रयोजकत्वाभावात् कुतः प्रधानत्वं
खपुष्पस्येव ? किञ्चान्यत्, अभ्युपेत्या5742पि तदुत्पत्तिमुत्पन्नस्यापि तदात्मकत्वात् मृत्पिण्डाद्यात्मकत्वादु
त्तरोत्तरभावस्य स्वबीजा5743दभिन्नत्वात् पूर्व एवोत्तरः, स कथमात्मानमेव प्रयोजयितुमर्हति ? भेदमभ्युप
३७१-१ गम्यापि शिबिकावाहकवदस्वतन्त्रत्वात् परवशवर्तित्वादप्रवर्तकत्वं पूर्वोत्तरयोर्दिक्तः कालतो वा भिन्न
योरपि भावाभावयोरप्रधानत्वादीश्वराप्रेरितशिबिकावाहकवत् । एवं तावत् प्रधानयोरप्रवृत्तिः सामान्य
विशेषयोः ।


अथ सन्मित्रवदित्यादि अन्यतरोपसर्जनप्रधानभावेन सामान्यविशेषयोरविशिष्टतेति
पूर्वपक्षयति । यथा संहत्यकारिणोः सन्मित्रयोः परस्परमतानुवर्तिनोरर्थवशादेकस्योपसर्जनता इतरस्य
प्राधान्यमिति चेत् एवं चेन्मन्यसे, तदपि न, वक्ष्यमाणेत्यादि यावदभावादिति । भवितुर्विशेषस्यैव
प्राधान्यम् सामान्यस्य भवनस्यैवोपसर्जनत्वमित्युभय5744नियमेनार्थवत्त्वं भावशब्दस्य नान्यथा
इति व5745क्ष्यतेऽस्य
नयस्य मतम् । तस्माद् नान्यतरोपसर्जन-प्रधानभावः ।


  1. ॰धान्येतत्र पटा॰ प्र॰ ॥

  2. ॰रात्मनोक्तदोषादेवय॰

  3. पृ॰ ५५३ पं॰ ८ ॥

  4. ॰सकोशक॰भा॰

  5. ॰त्यादि प्र॰ ॥

  6. ॰दिभिन्न॰य॰

  7. ॰यमेनार्थवत्त्वंय॰

  8. पृ॰ ५५५ पं॰ ७ ॥