739

अथ पृथिव्यादेरन्वयित्वं प्रवृत्तेर्भवति ततश्चोपसर्जनत्वं सामान्यस्य नास्ति । उभय
स्मिंस्त्वसति स यद्यभाव एव भेदः, 7657तेनैव भेदेन न भूयेत अभावत्वात् खपुष्पवत् ।
न ह्यभावो भावो भवति । अथ भाव एव ततो भावाव्यतिरेकाद् भूतत्वादुभयथापि न
पुनर्भूयेत, भूतघटादिवदाकाशादिवत् । न हि भूत एव भवति, तथाऽसत्त्वापत्तेः । यदि
भूतमेव भवेत् ततस्तदसत् स्यात्, उत्पद्यमानत्वात्, अजातघटादिवत् ।


भेदेषु भवनान्वय औपचारिकः इति चेत्, नन्वन्वयद्रव्यं स्वात्मन्येव
तिष्ठति, ततश्च तदवस्थामात्रं घटादिभेदा इति घटादिभेदा एवौपचारिका इत्युक्तं
भवति । यथा अङ्गुलिर्वक्रा भवति इत्युक्ते वक्रता अङ्गुलेः भेदावस्थामात्रमित्यौ-


सत्प्रधानोपकारिता ? इति । अथेत्यादि । अथ मा भूत् पृथिव्यादिसामान्योपसर्जनत्वे द्वयोरपि
सामान्य-विशेषयोरभावदोष इति पृथिव्यादेरन्वयित्वं प्रवृत्तेर्भवति सत्त्वात्, ततश्चोपसर्जनत्वं
४७७-२ सामान्यस्य नास्ति
स्वतत्त्वव्या7658पित्वात् भावत्वात् प्रवर्तमानत्वाद् भेदवत्, इत्थमप्युपसर्जनत्वनिवृत्तिः ।


उभयस्मिंस्त्विति सामान्ये पृथिव्यां भेदे च घटे द्वयेऽपि असति भावेऽन्वये भवितरि च विशेषे
स यद्यभाव एव 7659भेदो येन भूयते भेदेन स भेद इतीष्यते तेनैव भेदेन न भूयेत अभावत्वात्,
अभावत्वमभवनक्रियात्मकत्वात्, खपुष्पवत् । न ह्यभावो भावो भवतीति दृष्टान्तार्थप्रदर्शनात् ।
अथ भाव एव, मा भूदेष दोष इति अन्वयस्वभाव एवासौ भेदो भाव एवेष्यते ततो भावाव्यति
रेकाद्
भावात्मकत्वादन्वयात्मकत्वाद् भूतत्वादुभयथापि प्र7660धानोपसर्जनत्वाभ्यां पृथिवी-घटत्वाभ्यां
न पुनर्भूयेत, भूतत्वात्, भूतघटादिवत् आकाशादिवद् वैयर्थ्यात् । तद्दर्शयति --न हि भूत एव
भवती
ति । कस्मात् ? तथाऽसत्त्वापत्तेः । यदि भूतमेव भवेत् उत्पन्नमेवोत्पद्यते ततस्तदसत्
स्यात्, उत्पद्यमानत्वात्, अजातघटादिव
दित्यसत्त्वापत्तिः, अनिष्टा च सेति न भावो भवति
ना7661भावो भवत्युभयं पृथिवी घटश्चेति ।


भेदेष्वित्यादि । स्यान्मतम्--भेदेषु घटादिष्वेव पृथक् सत्सु परमार्थतः योऽसौ भवति भवति
इति भवनान्वयःऔपचारिक इति । अत्रोच्यते --न7662न्वन्वयेत्यादि । ननु त्वयैव स्वद्रव्ये पृथिव्यादि
तिष्ठति स्वा7663त्मन्येव ततश्च तस्य पृथिव्यादि7664द्रव्यान्वयस्यावस्थामात्रं घटादिभेदा इति घटादिभेदा
४७८-१ एवौपचारिकाः, पृथिव्यादिसामान्यमेव तत्त्वम्
इत्युक्तं भ7665वति । किमिव ? इत्यत आह --यथाङ्गुलि

  1. येन भूयते भेदेन तेनैव न भूयेत इत्यपि मूलमत्र स्यात् ॥

  2. ॰व्यापितत्वात्॰ प्र॰ ॥

  3. भेदोप्यनुभूयतेय॰भेदोत्यनुभूयते भा॰

  4. प्राधानो प्र॰ ॥

  5. नाभावोभा॰न भावो॰ य॰ । अत्रेदमवधेयम्--लेखकप्रमादात् ॰ति न भावो भवति न भावो भव॰ इति द्विर्भावोऽप्यत्र संभवति, तथाङ्गीकारे तु अनिष्टा च सेति न भावो भवत्युभयं पृथिवी घटश्चेति इति पाठोऽप्यत्र सम्भवेत् ॥

  6. नन्वत्वयेत्यादिय॰नच्वयेत्यादि भा॰ । अत्रेदमवधेयम् अत्र यदि ननु त्वयेत्यादि इति प्रतीकः शुद्ध इत्यभ्युपगम्यते तदा ननु त्वयैव तदवस्थामात्रं घटादिभेदा इति घटादिभेदा एवौपचारिका इत्युक्तं भवति इति मूलमत्र सम्भाव्यते ॥

  7. स्वात्मनोवभा॰स्वात्मन्येन य॰स्वात्मनैव ?

  8. ॰द्रव्यस्यावयवस्थामात्रंय॰ । अत्र द्रव्यस्यावस्थामात्रं इति पाठोऽपि सम्भवेत् ॥

  9. भवतीतिय॰