765

ओँ अर्हँ


॥ जयन्ति श्रीपार्श्वजिनेन्द्राः ॥


अथ दशमो नियमविध्यरः ।


नैवंविधो नियमो युज्यते स्ववचनविरोधादिदोषादनेकावस्थापत्तावनियतत्वाच्च ।
तद्यथा--इदं तत् तदेवोद्यते तदेव चापोद्यते त्वया । ततश्चासत् तत्, स्वयंविहित
निवर्तित्वात्, सर्वोक्तानृतत्वपक्षवत् । एकत्वादि प्रतिषिध्य व्यवस्थाप्य च परस्परतः
पुनश्चापोद्यते ।


दृष्टान्ते यदुक्तम् अग्नेरिन्धनपृथग्भूतं रूपमाख्येयम् इत्यादिना च प्रतिषिद्धं
सोऽपि च प्रतिषेधोऽप्रत्ययः, यथोक्तम्--'अग्नेरिन्धनपृथग्भूतं तत्त्वमशक्यं दर्शयितुम्, न


विध्यादिसकलभङ्गात्मकसम्यग्दर्शनाधिकारे वर्तमाने विकलनयस्वरूपज्ञानमूलत्वात् सम्य
ग्दर्शनस्य विध्युभयविकल्पचतुष्टयात्मकौ मार्गौ व्याख्याय नियमविकल्पचतुष्टयात्मके तृतीये मार्गे वर्त
माने तत्र नियमभङ्गं प्रथममुक्त्वा 7927भिजल्पशब्दार्थत्वमाभिमुख्येन दिक्प्रत्यासत्त्या न साक्षाद् वस्तुनः
सामान्यविशेषयोरेकत्वान्यत्वाद्यनेकदुरुपरवधारावस्थत्वादवक्तव्यता
इत्यनन्तरं निय7928मनयेऽभिधानात्
अत्राप्यपरितुष्यन् नियमविधिभङ्गारस्त्वाह --नैवंविधो नियमो युज्यते स्ववचनविरोधादिदोषा
दनेकावस्थापत्तावनियतत्वाच्च,
इदं हि त्वदीयं वचनं लोकाभाणक एव संवृत्तः । तद्यथा--इदं
४९५-१ तत्तदेवोद्यते तदेव चापोद्यते त्वया,
तदेव व7929स्यपवदसि चेत्यर्थः । ततः किम् ? ततश्चासत्
तद
शोभनं नास्ति वेत्यर्थः । कस्मात् ? स्वयंविहितनिवर्तित्वात्, आत्मना विहितमेव निवर्तयितुं
शीलमस्येति स्वयंविहितनिवर्ति त्वद्वचनम्, तद्भावात् स्वयंविहितनिवर्तित्वात् । किमिव ? सर्वोक्ता
नृतपक्षवत्,
यथा सर्वमुक्तमनृतम् इति व7930दता यदेवोदितं सर्वमुक्तमनृतम् इति विधिना तदेवानृत
त्वेन व्याप्तत्वात् प्रतिषिध्यमानमपोद्यते तथेदमपि त्वदीयं सर्वमवक्तव्यम् इति ।


एतस्य प्रतिपादनार्थमेकत्वादि प्रतिषिध्य व्यवस्थाप्य च परस्परतः पुनश्चापोद्यते ।
तद्यथा--प्रागेव तावत् सामान्य-विशेषयोरेकत्वे प्रतिषिद्धेऽन्यत्वमुपस्थितमर्थात्, तद्वलेन प्रतिषेधात् ।
तदन्यत्वं विधाय पुनः प्रतिषिद्धम् ।


कथं प्रतिषिद्धम् ? इति चेत्, उच्यते--तद्यथा --दृष्टान्ते यदुक्तम् 7931ग्नेरिन्धनपृथग्भूतं रूपमा

  1. पृ॰ ७६२ पं॰ ३, पृ॰ ४९८--२ ॥

  2. नियमनयो भिधानात्भा॰नियमनयोभिधात् य॰

  3. वस्यपवदमिवेत्यर्थःभा॰वश्यपवदमिवेत्यर्थः य॰

  4. वदतो प्र॰ ॥

  5. पृ॰ ७४७ पं॰ २ ॥