766
ह्यन्यदन्यसाधारणम्, सामान्यविशेषैकत्वान्यत्वानवस्थिततत्त्वघटपटसंवृतिवत् अनिरूप्य उपसंहारेऽपि यदुक्तं विशेषस्य भावपृथग्भूतं रूपमाख्येयम्... ... ...।
स्त्वसन्नापद्येतेत्यादि । तदेतत् पुनस्त्वयैवापोदितं ननु ज्वाला देशे इत्यन्यत्वं स्फुटी
भूतमपि तद्वा कुतोऽनिन्धनम् ? ज्वालारूपमिन्धनसहितमेव इति ब्रुवता ।
एतदपि त्वयैवापोदितमन्यत्वप्रतिषेधवचनम् । ननु भवद्विशेषसमुदायकृतमेकत्वं रूपरसादि
घटैकत्वविशेषवत्, अतोऽन्यत्वप्रतिषेधोऽतिस्फुट एव स्ववचनविरोधः ।
ख्येयम् इत्यादिना च प्रतिषिद्धं सोऽपि च प्रतिषेधोऽप्रत्ययः । तं प्रतिषेधग्रन्थं दर्शयति अप्रत्यय
त्वेन --यथोक्तम्--अ7932ग्नेरिन्धनपृथग्भूतमित्यादि यावदसन्नापद्येतेत्यादि । आदिग्रहणात् सयुक्तिकं
सर्वं ग्रन्थं सन्दिशति । तदेतत् पुन7933स्त्वया स्वयमेवापोदितं निराकृतम् । कथम् ? इति चेत्, उच्यते—
न7934नु ज्वाला देशे, यत् तदिन्धनपृथग्भूतं रूपमग्नेः पृच्छ्यते तज्ज्वाला आकाशदेशे गृहाणेति निरूपणेना
न्यत्वं स्फुटीभूतमपि पुनः तद्वा कु7935तोऽनिन्धनम् इत्यनिन्धनप्रत्याख्यानेन ज्वालारूपमिन्धनसहित
मेव इति ब्रुवता । तथा चेदमुक्तं भवति--अदीप्यमानं प्राग7936निन्धनमकाष्ठं च सद्दारूदकादि पश्चाद्
दीप्तिस्वभावमिन्धनं काष्ठं भवतीति । त7937च्च यत्सम्पर्कादिध्यते दीप्यते च दारूदकादि तत्४९५-२
तस्याग्ने रूपमिति । एतच्च अन्यत्वप्रतिषेधार्थं वचनमन्यत्वमेव समर्थयति अतोऽप्रत्ययम् । यद्यन्यत्वं
समर्थितमेव परिगृह्येत स्यात् सप्रत्ययम्, न तु परिगृहीतम् । तस्मादन्यत्वप्रतिषेधोऽप्रत्ययः, तत्समर्थनात् ।
ए7938वं दृष्टान्तवर्णनऽन्य7939त्वप्रतिषेघोऽप्रत्ययः ।
किञ्चान्यत्, उपसंहारेऽपीत्यादि । भाव-विशेषयोरेकत्वं प्रतिषिध्यान्यत्वं व्यवस्थाप्य त7940त्प्रति
षेधिदार्ष्टान्तिकोपसंहारे यदुक्तं 7941विशेषस्य भावपृथग्भूतं रूपमाख्येयम् इत्यादि तमेव ग्रन्थं तदुक्तं
दर्शयति, एतदपि त्वयैवापोदितमन्यत्वप्रतिषेधवचनम् ।
कथम् ? इति तद्दर्शयति --ननु भवद्विशेषेत्यादि । ननु विशेषा एव भवन्ति, न सामान्यं नाम
किञ्चिदस्ति । ते च विशेषा एव भवन्तः समुदिता एकम् इत्युच्यन्ते । नैकं किञ्चिदनेकात्मकं वस्तु,
किं तर्हि ? एकैक एवैको विशेषोऽन्यो7942ऽन्यो भवतीति परमार्थः प्रणिधानवद्भिरभ्रान्तैरवगम्यते,
भ्रान्तास्तु विशेषा एव भ7943वन्तः समुदिता एकश एकम् इत्युपासते । किमिव ? रूपरसादिघटैकत्व
विशेषवत्, यथा रूप-रस-गन्ध-स्पर्श-सङ्ख्या 7944संस्थानादयो धर्मा विविक्ता भिन्नेन्द्रियग्राह्याः समुदिता
एको घटः इत्युच्यन्ते तथा भ्रान्त्या समुदायैकत्वेऽसत्यपि विशेषा एव रूपं रसो न भवति रसोऽपि