767
ननूभयतोऽपि प्रतिषेधाददोषः । किंविषया तर्ह्यवक्तव्यता ? न तावद् भावस्य
विशेषस्योभयस्य वा । एकत्वान्यत्वोभयत्वानुभयत्वानि प्रविभागेनाप्रविभागेन वा स्युः ।
अप्रविभागतस्तावदेकत्वं नास्ति प्रतिषिद्धत्वात्, प्रविभागतोऽपि नास्ति निषिद्धत्वादेव ।
सिद्धे चैकत्वे तद्बलेनान्यत्वं व्यावर्त्येत । तथैव प्रविभागतोऽप्रविभागतो वान्यत्वं नास्ति
यद्बलेनानुभयत्वं व्यावर्त्येतैकत्वं वा । तथानुभयत्वमपि नास्ति यद्बलेनैकत्वान्यत्वोभय
त्वानि व्यावर्त्येरन्, यस्य वाच्यतां गृहीत्वाऽवाच्यं वा व्यावर्त्येत ।
रूपं न भवति इत्यादीतरेतराभूतेविर्विशेषगु7945णः अन्योऽन्यो न भवतीति समुदायकृतादेकत्वाद्
भ्रान्तिहेतुकात् पृथगेक7946त्वविलक्षणं विविक्तं विशेषविषयं प्रतिपादयितुं 7947विशेषस्य भावपृथग्भूतं
रूपमाख्येयम् इत्यादिना पृथगेकत्वमन्य7948त्वं विशेषाणां स्वरूपेणावधारयितव्यमिति वचनादेवान्यत्वं
समर्थितम्, अ7949तोऽन्यत्वप्रतिषेधोऽतिस्फुट एव स्ववचनविरोधो दार्ष्टान्तिकोपसंहारेऽपीति ।
४९६-१ ब्रूयास्त्वम् --ननूभयतोऽपि प्रतिषेधाददोषः । एकत्वं प्रतिषिध्य पुनरन्यत्वमपि प्रतिषिद्धमेव,
तथोभयत्वमनुभयत्वं च प्रतिषिध्यावक्तव्यतैव समर्थितेति । अत्रेदमसि त्वं प्रष्टव्यः --किंविषया
तर्ह्यवक्तव्यता ? यद्युभयप्रतिषेध एव क7950तमत् तद्वस्तु यदवक्तव्यम् ? किं तद् भावो विशेष उभयं
वा ? इति निर्धार्यम्, वस्तुत्वे सति विकल्पत्रयानतिवृत्तेः । तत्र न तावद् भावस्य, न विशेषस्य,
न उभयस्य वा, नकारानुवर्तनात् । भावस्य एकत्वान्यत्वोभयत्वानुभयत्वानि प्रविभागेनाप्रविभागेन
वा स्युः । अप्रविभागेनैकत्वं यथा --पु7951रुष एवेदं सर्वम् शुक्लयजु॰ सं॰ ३१ । २ इत्यादि । प्रविभागेन सति
द्वितीये तेन सहासम्पर्कादेकं स्यात्, यथा—
इत्येकशब्दस्यासहायार्थत्वात् ।
अप्रविभागतस्तावदेकत्वं भावस्य विशेषस्य उभयस्य वा नास्ति, द्वितीयरहितस्य रूपाख्याना
शक्यत्वेन त्वयैव प्रतिषिद्धत्वात् । प्रविभागतोऽपि नास्ति सहा7953सहभवनस्य द्विष्ठत्वात् इत्या
दिना निषिद्धत्वादेव । तथा विशेषस्योभयस्य चैकत्वं नास्तीत्युक्तम् । सिद्धे चैकत्वे तद्बलेनान्यत्वं
व्यावर्त्येत, स7954म्भाव्येतैकत्वं परिगृह्य तद्द्वारेण तदुपायेनान्यत्वस्य व्यावर्तनम्, तत्तु नास्त्यैकत्वम्,
तदभावादन्यत्वप्रतिषेधाभावः ।