768

कथम् ? एकशब्दो ह्यन्यनिरपेक्षसंख्यार्थोऽप्रविभागैकशब्दार्थत्वात् । स च न घटते
एकत्वान्यत्वोभयत्वानुभयत्वविकल्पानामन्योन्यापेक्षत्वात् । अथासहायवचन एकशब्दस्त
थापि सहगतेर्द्व्याद्यर्थेनाव्यतिरेकादेकत्वं नास्ति । अन्यार्थे तु साक्षादन्यत्वमेव विशेष
विषयम् । तथा चानन्यत्वमपि प्रतिपक्षाक्षेपादवक्तव्यनिर्विषयता वान्यथा । एवमन्यत्वो-


स्यान्मतम्--अन्यत्वं सिद्धम्, तद्बलेनैकत्वोभयत्वादि प्रतिषिध्यत इति । तच्च नान्यत्वं सिद्धम्,
तथैव प्रविभागतोऽप्रविभागतो वान्यत्वं नास्ति घट-पटयोरिव जीव-शरीरयोरिव वा
सम्भाव्यमानम्, त्वयैव तस्यापि निषिद्धत्वात्, यद्बलेनान्यत्वद्वारेणानुभयत्वं व्या7955वर्त्येतैकत्वं वा ।४९६-२


तथानुभयत्वमपि नास्ति एकत्वान्यत्वयोर्लक्षणभेदनियमादित्युक्तम् यद्बलेन एकत्वान्यत्वो
भयत्वानि व्यावर्तेर्त्येरन्, य7956स्य वाच्यतां गृहीत्वे
ति इदं वाच्यमेकत्वमन्यत्वमुभयत्वं वा दृष्ट
मिदं तु तद्वन्न भवतीत्यवाच्यं तथेदं वाच्यमनुभयं तद्वत् तानि न वाच्यानीत्यति वाच्यबलाद
वाच्यं वा7957 व्यावर्त्येत इतरव्यवस्थापूर्वत्वादितरव्यावर्तनस्यान्वय-व्यतिरेकाभ्यामर्थाधिगमाच्च ।


कथमिति तत् कथं भाव्यते ? इति पृच्छति । उच्यते --एकशब्दो ह्यन्यनिरपेक्षसङ्ख्या7958र्थो
ऽप्रविभागैकशब्दार्थत्वात्, हि
शब्दो यस्मादर्थः, यस्मादेकशब्दः सङ्ख्यावाचित्वेऽन्यनिरपेक्षां सङ्ख्यां
7959ङ्ख्येयप्राधान्येनाह--सङ्ख्यान्तरव्यावर्तनार्थार्थम् एकोऽयं न द्वि-त्र्यादयोऽर्थाः इति लोके तस्मात्
एकः इत्युक्ते नान्योऽस्ति इत्युक्तं भवति, स चार्थो न घटते,7960 स निरपेक्षः, यस्माद् एकत्वान्य
त्वोभयत्वानुभयत्वविकल्पानामन्योन्यापेक्षत्वात्
प्रागुक्तविधिना ।


अथासहायवचन एकशब्दः । अथ मा भूदेष दोषोऽन्यनिरपेक्षसङ्ख्यार्थत्वकृत इत्यसहायवाची
विकल्प्येतैकशब्दस्तस्मादस्त्येकत्वम्, तदस्तित्वादन्यत्वाद्य7961प्यस्तीत्यवक्तव्यविषयसद्भावसिद्धिरिति । अत्र
ब्रूमः --त7962थापीत्यादि, सहैति इति सहायः, सहाऽयनं सहगतिर्द्वयोर्बहूनां वा भवतीति सहगते
र्द्व्याद्य7963र्थेनाव्यतिरेकादेकत्वं नास्ती
ति तदवस्थमवक्तव्याविषयत्वम्, किन्तु अन्यत्वमेव च सिध्ये
दिति पुनरन्यत्वमेव । ए7964वमेकशब्दोऽर्थापत्त्यान्यत्ववाचीत्युक्तम् ।


अथअन्य एकः, सोऽपि ततोऽन्य एकः, इत्येकशब्दोऽन्यार्थवाची ततोऽन्यार्थे तु साक्षाद
न्यत्वमेव विशेषविषयम्, ततोऽन्यत्वनिषेधोऽतिस्फुट एव स्ववचनविरोध
इत्युक्तम्7965
किञ्चान्यत्, तथा चानन्यत्वमपि । यथा चैकशब्दोऽस्मदुक्तन्यायेनान्यत्वे वर्तते तेन प्रकारेण
तथानन्यत्वमपि सिध्यति, अनन्यत्वेन विनान्यत्वस्याभावात् । तत आह --प्रतिपक्षाक्षेपादिति

  1. व्यावृत्त्ये॰भा॰व्यावृत्ते॰ य॰

  2. तस्यभा॰

  3. वा च्या वर्त्येतरव्यवस्थापूर्वस्थादितर॰य॰

  4. ॰थोंप्रविभाग एक॰य॰॰र्थाप्रविभाग एक॰ भा॰

  5. संख्येमप्रा॰भा॰संख्येनप्रा॰ य॰

  6. ने प्र॰ ॥

  7. ॰द्दपी॰ प्र॰ ॥

  8. तथातीत्यादिय॰

  9. ॰द्यर्थेन व्यतिरे॰य॰॰द्यतिरे॰ भा॰

  10. एकमेवशब्दो॰ प्र॰ ॥

  11. पृ॰ ७६६ पं॰ ६ ॥