807

कुतः क्रिया, क्षणिकत्वात् ? उक्तं हि--


क्षणिकाः सर्वसंस्कारा अस्थितानां कुतः क्रिया ।

भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ।

तिष्ठतु तावत् क्रियाभ्युपगमादि । क्षणिकशब्दार्थतत्त्वान्वीक्षणादेव क्षणभङ्गवादस्य
भङ्गः शक्यते कर्तुम् । न हि क्षणिकशब्दार्थः क्षणेन स्वेन तद्वता चार्थेन स्वामिना विना
घटते इति तस्य क्षणस्य स्वामी तत्समवस्थायी द्रव्यार्थोऽर्थो भवितुमर्हति ।


न, पर्यायविषय एव तत्स्वामित्वोपपत्तेः । द्विविधो हि क्षणः उत्पत्तिक्षणो
विनाशक्षणश्च तदनन्तरम् । अनन्तरवचनमन्तरालावस्थानव्युदासार्थम् । योऽयमुत्पत्ति-


इतर आह --कुतः क्रिया, क्षणिकत्वात् ? अन्तेऽपि च क्रियात्वं नाभ्युपगम्यते मया क्षणि
कत्वादभावत्वात् प्रागुक्तविधिना, किमङ्ग पुनरारम्भकरणाद्यवस्थासु अ8306वस्थितवस्त्वनभ्युपगमात् ?
५१९-२ उक्तं हीत्यादि ज्ञापकम् । क्षणिकाः सर्वसंस्कारा इत्यादिश्लोकः प्रत्याप्राग्व्या ?ख्यातार्थ इति
न पुनर्व्याख्यायते ।


अत्रोच्यते --तिष्ठतु तावदित्यादि । यदन्यद्रव्यार्थनयद8307र्शनस्योक्तक्षयोत्पादादिक्रियाभ्युपगमादि
वस्तुव्यवस्थासिद्धिकारणं वा क्षणभङ्गाभावप्रतिपादनसमर्थं तत् तावदास्ताम्, किं तर्हि ? क्षणिक
शब्दार्थतत्त्वान्वीक्षणादेव क्षणभङ्गवादस्य भङ्गः शक्यते कर्तुम्, कस्मात् ? क्षणिकशब्दस्य स्व-स्वामि
लक्षणास्त्यस्तिमत्सम्बन्धवा8308चिठन्प्रत्ययान्तस्य स्थितार्थाभावेऽभिधेयाभावप्रसङ्गात् । तद्दर्शयति --न8309 हि
क्षणिकशब्दे
त्यादि, क्षणोऽस्यास्तीति क्षणिको यथा दण्डोऽस्यास्तीति दण्डिकः, यथा चैत्रेण दण्ड
सम्बन्धिना स्वामिना दण्डेन स्वेन च विना दण्डिकः इति शब्दो नार्थवान् भवत्येवं क्षणिकशब्दोऽपि
क्षणेन स्वेन तद्वता चार्थेन स्वामिना विना नार्थवान् । भा भूत् सोऽनर्थक इति तस्य क्षणस्य स्वस्य
दण्डस्येव चैत्रष्ठन्प्रत्ययान्तः स्वामी तेन सह समवस्थातुं शीलं यस्य स द्रव्यार्थलक्षणोऽर्थो जैनेन्द्र
व्युत्पादितोत्पाद-विनाशपर्यायार्थसहचारिस्थितद्रव्यार्थवद् भवितुमर्हति, इतरथा क्षणोऽस्यास्तीति
क्षणिकः
इति न शब्दोब्दार्थो घटते सोऽव8310स्थातृद्रव्याभिधा8311यित्वे तु घटते ।


अत्राह --न, पर्यायविषय एव तत्स्वामित्वोपपत्तेः, पर्यायान्तरस्य स्वपर्यायान्तरं स्वामीत्य8312स्त्य
स्तिमत्सम्बन्ध उपपद्यते, तदर्थवाची च तत्प्रत्ययः । तद् व्याचष्टे --द्विविधो हि क्षण इत्यादि, द्वैवि
ध्यम् उत्पत्तिक्षणो विनाशक्षणश्च तदनन्तरमिति । तस्य स्फुटीकरणम् --अनन्तरवचनमन्तरा

  1. अस्थित॰भा॰

  2. ॰दर्शनंस्योक्त॰भा॰

  3. वाचि+उत्प्रत्य॰ प्र॰ । अत इनिठनौ --पा॰ ५ । २ । ११५ ॥

  4. तुलना--यश्चायं मत्वर्थीयः क्षणिका इति स कथम् ? यदि निरुक्तन्यायेन क्षयः क्षण इति क्षणोऽस्यास्तीति क्षणिक इति तन्न युक्तं कालभेदात् । यदा क्षयो न तदा क्षयीति भिन्नकालयोर्न मत्वर्थीयो दृष्टः । अथ पुनर्भाव एवानन्तरेण विनाशेन विशिष्यमाणः क्षणिक इत्युच्यते तथापि तेनैव तदेव तद्वन्न भवतीति न युक्तो मत्वर्थीयः । न्यायवा॰ ३ । २ । १४ ॥

  5. वस्थास्तुद्र॰ प्र॰ ॥

  6. ॰धायित्वे घटतेय॰

  7. ॰त्यस्यास्तिमत्स॰ प्र॰ ॥