अधिकरणान्तरं वेति ।

सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् ।
पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वा ॥

अपरितोषस्तावत्प्रथमेनैव श्रुतिविरुद्धत्वहेतुना बलवता सिद्धे बाधे नान्वाचयहेतुरतीव प्रयोजनवान् । अधिकरणान्तरे पुनः पूर्वोक्तहेतुनिरपेक्षः पर्याप्त एवैकः स्मृतिबाधनायेति स्वतन्त्रत्वेन प्रदर्शनम् । विरोधेन च न व्याप्तायाः स्मृतेरप्रमाणतद्वयाप्तौ नापवादान्तरोद्भवः । वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णाति इत्यग्नीषोमप्रणयनार्थं विसर्जनहोमकालसंबन्धियजमानाच्छादनं वासोऽध्यवयुर्हरति मुक्तकमेवैतदावरणानुमितं स्मरणम् । एवं युपहस्तिनो दानमाचरन्तीति यूपपरिव्याणशाटकं यूपहास्तिशब्देन निर्दिश्याध्वर्युहर्तव्यतयाऽऽचारानुमितयैव स्मृत्या प्रतिपादयन्ति ।

187
तत्रापि वेदमूलत्वकल्पना नोपपद्यते ।
कर्तृसामान्यतः प्राप्ता लोभसंभवपूर्वकात् ॥

ऋत्विजो हि प्रयोगमध्यपतितं यजमानं प्रक्रान्तकर्मावश्यसमापनीयत्वनिबद्धसमाप्त्युत्तरकालभावि स्वाच्छन्द्यं च विदित्वा कार्यवत्तावेलायामेव खलगतप्राधान्य25विभागव्यावृत्तभृतकवत्स्वयमुत्पाद्योत्पाद्य तानि तान्यादेयकानि श्रद्धाजनकार्थवादपुरःसरं याचन्ते । प्रत्यक्षश्रुतिविहितदेयान्तरनिदर्शनव्यामोहितश्च यजमानः श्रद्दधानतया तथैव प्रतिपद्य तेभ्यः प्रयच्छतीति तैरेषा स्मृतिः प्रवर्तिता स्यादित्याशङ्कायां वेदमूलत्वं नानुमीयते । पूर्ववच्च लोभपूर्वकत्वकल्पनमेवोपपन्नमिति निर्णयात्संदेहनिवृत्तिः । इदं च भाष्यकारेण प्रदर्शयता तुल्यकारणत्वात्पूर्वत्रापि प्रदर्शितमेवेति योजयितव्यम् ।

  1. खलगतधान्यविभागव्यापृतभृतकवादिति पाठो भवितुं युक्त इति भाति ।