एतावत्त्विहाधिकरणद्वयेऽपि वक्तव्यम् ।

स्मृतीनां श्रुतिमूलत्वे दृढे पूर्वं निरूपिते ।
विरोधे सत्यपि ज्ञातुं शक्यं मूलान्तरं कथम् ॥

शाखान्तरविप्रकीर्णानि हि पुरुषान्तरप्रत्यक्षाण्येव वेदवाक्यानि पुरुषधर्मानुष्ठानक्रमेणापठितानि वेदसमाम्नायविनाशभयात्स्वरूपेणानुपन्यस्यार्थोपनिबन्धनद्वारलभ्यानि विशिष्टध्वनिस्थानीयेन तेनैव परोक्षाण्यपि व्यज्यमानानि पिण्डीकृत्य स्मर्यन्ते । तत्र यथैवाऽऽप्तप्रत्ययादिदमिह पठ्यत इति कथितमुच्चारितमनुच्चारितं वा शिष्याः प्रतिपद्यन्ते तथैव सूत्रकारवचनान्यध्यापकवचनस्थानीयानि स्वानुरूपवेदवाक्यसमर्पणमात्रं कृत्वा निवृत्तव्यापाराणीति न ताल्वादिध्वनिप्रेरणवत्पौरुषेयत्वेन परिभवितव्यानि ।

वेदो हीदृश एवायं षुरुषैर्यः प्रकाश्यते ।
स पठद्भिः प्रकाश्येत स्मरद्भिर्वेति तुल्यभाक् ॥
अनुच्चारणकाले च संस्कारैरेव केवलैः ।
तत्कृतस्मरणैर्वाऽयं वेदोऽध्येतृषु तिष्ठति ॥
तेनार्थं कथयद्भिर्या स्मृतार्था कथ्यते श्रुतिः ।
पठिताभिः समानाऽसौ केन न्यायेन बाध्यते ॥
स्मृतिशास्त्रं च यद्येकं भवेत्कृत्स्नमवैदिकम् ।
तन्मुक्त्वैकं ततोऽन्यानि व्यवहाराङ्गतामियुः ॥
188
कठमैत्रायणीयादिपठितश्रुतिमूलिकाः ।
दृश्यन्ते स्मृतयः सर्वा भद्रोपनयनादिषु ॥
तदा तन्मध्यपात्येकं वाक्यं किंचिदपस्मृतिः ।
मूलान्तरोद्भवं वक्तुं जिह्वा नो न प्रवर्त्तते ॥
बाधिता च स्मृतिर्भूत्वा काचिन्न्यायविदा यदा ।
श्रूयते न चिरादेव शाखान्तरगता श्रुतिः ॥
तदा का ते मुखच्छाया स्यान्नैयायिकमानिनः ।
बाधाबाधानवस्थानं ध्रुवमेवं प्रसज्यते ॥

यच्चैतत्सर्ववेष्टनस्मरणं स्पर्शनश्रुतिविरुद्धत्वेनोदाह्रियते । एतज्जैमिनिनैव च्छान्दोग्यानुवादे शाट्यायनिब्राह्मणगतश्रुतिमूलत्वेनौदुम्बरीप्रकरणे च शाट्यायनिनां तामूर्ध्वदशेनोभयत्र वाससी दर्शयतीति ‘वैष्टुतं वै वासः श्रीर्वै वासः श्रीः सामे’ इति दर्शिते तत्प्रसङ्गेनौदुम्बरीवेष्टनवाससोऽपि प्रकाशश्रुतिमूलत्वमेवान्वाख्यातम् ।

ततश्च श्रुतिमूलत्वाद्बाध्योदाहरणं न तत् ।
विकल्प एव हि न्याय्यस्तुल्यकक्षप्रमाणतः ॥
विरुद्धत्वे च बाधः स्यान्न चेहास्ति विरुद्धता ।
न हि वेष्टनमात्रं नः स्पर्शश्रुत्या विरुध्यते ॥
यदि द्वित्राङ्गुलं मध्ये विमुच्योत्तरभागतः ।
वेष्ट्येतौदुम्बरी तत्र किं नाम न कृतं भवेत् ॥
सर्वा वेष्टयितव्येति न ह्येवं सूत्रकृद्वचः ।
न ह्यस्याः क्रियते कैश्चित्कर्णमूलेषु वेष्टनम् ॥
परिशब्दोऽपि यस्तत्र सर्वतो वेष्टनं वदेत् ।
तद्वर्जितसमन्तत्वे सोऽर्थवानेव जायते ॥
लोभमूलं च यत्तस्याः कल्प्यते सर्ववेष्टनम् ।
तल्लोभः सुतरां सिध्येन्मूलाग्रपरिधानयोः ॥
अन्तरीयोत्तरीये हि योषितामिव वाससी ।
स्मरेत्कौशेयजातीये नोद्नातैकं गुणैर्विना ॥
प्राक् च लोभादिह स्पर्शः कुशैरेवान्तरीयते ।
वेष्टितैषा कुशैः पूर्वं वाससा परिवेष्ट्यते ॥
कुशवेष्टनवाक्ये च न किंचिद्धेतुदर्शनम् ।
नियमेऽपि च तद्दृष्टं नैवोर्ध्वदशवाससः ॥
189
क्रीतराजकभोज्यान्नवाक्यं चाथर्ववैदिकम् ।
न च तस्याप्रमाणत्वे किंचिदप्यस्ति कारणम् ॥
यदि यज्ञोपयोगित्वं नेहास्त्याथर्वणश्रुतेः ।
अर्थान्तरप्रमाणत्वं केनास्याः प्रतिहन्यते ॥
शान्तिपुष्ट्याभिचारार्था ह्येकब्रह्मर्त्विगाश्रिताः ।
क्रियास्तया प्रमीयन्तेऽत्राप्येवाऽऽत्मीयगोचराः ॥
न चायमपि यज्ञाङ्गविधिः शान्त्यादिशास्त्रवत् ।
अतोऽस्यापि प्रमाणत्वं पुरुषार्थेन वार्यते ॥
न ह्येतद्यजमानस्य नर्त्विजामुपदिश्यते ।
सर्वेभ्यः पुरुषेभ्यो हि भोज्यान्नत्वमिदं श्रुतम् ॥
वाक्यान्तरैर्निषिद्धं यद्दीक्षितान्नस्य भोजनम् ।
तस्यैव श्रूयते पश्चादभ्यनुज्ञाविधिद्वयम् ॥
अग्नीषोमीयसंस्थायां क्रीते वा सति राजनि ।
सोऽयं कालविकल्पः स्यादाशौचच्छेदकालवत् ॥
ननु चाशौचकालोऽपि धर्मपीडाद्यपेक्षया ।
अतः समविकल्पत्वं नैव तस्यापि संमतम् ॥
यस्य ह्यल्पेन कालेन शुद्धिर्भोज्यान्नताऽपि वा ।
स कस्मात्तावता शुद्धो दीर्घकालत्वमाश्रयेत् ॥
एकरात्रे त्रिरात्रे वा शुद्धस्य ब्राह्मणस्य च ।
अशुद्धिरनुवर्तेत दशरात्रं कथं पुनः ॥
पापक्षयो हि शुद्धत्वं धर्मयोग्यत्वमेव वा ।
प्राग्दशाहात्कथं तस्य सदसद्भावकल्पना ॥
एवं प्राक् पशुसंस्थानाद्दीक्षितान्नविशुद्धता ।
अस्ति नास्तीति चेत्येवं सहते नावधारणम् ॥
स्यादेतद्येन यः कालः पुरस्तात्परिगृह्यते ।
तस्यासावेव होंमस्य प्रागूर्ध्वोदयकालवत् ॥
युक्तं समविकल्पत्वमुदितानुदितत्वयोः ।
न काचिदत्र पूर्वोक्ता सदसत्त्वविरोधिता ॥
न चानुदितहोमोक्तावुदितोक्तिरनर्थिका ।
क्लेशक्षयव्ययादीनां नातिरेकोऽत्र कश्चन ॥
190
इह त्वल्पेन कालेन शुद्धेर्या दीर्घकालता ।
न वर्धयेदघाहानि साऽनेनापि निवार्यते ॥
क्लेशप्रायं च तं पक्षं नाऽऽश्रयेतैव कश्चन ।
ततोऽनङ्गीकृते तस्मिन् स्यात्तद्वाक्यमनर्थकम् ॥
तेनर्ते विषयान्यत्वान्न विकल्पोऽवकल्पते ।
स चोक्तो धर्मपीडाख्यस्तत्र चाह्नामवर्धनम् ॥
दन्तजातानुजातान्यकृतचूडेषु च क्रमात् ।
चितिक्रिया व्यहैकाहास्तत्र चाह्नामवर्धनम् ॥

तथा गौतमेनाप्युक्तम्— राज्ञां च कार्याविघातार्थं ब्राह्मणानां च स्वाध्यायानिर्वृत्त्यर्थमिति ।

अथ वाऽन्तर्यदाऽऽशौचनिमित्तं किंचिदापतेत् ।
तत्र शेषेण या शुद्धिस्तच्छेषोऽयं भविष्यति ॥
न वर्धयेदघाहानि निमित्तादागतान्यपि ।
पूर्वस्यैव हि कालस्य प्रसङ्गेन तदङ्गता ॥
प्रवृत्तोऽनपवृक्तश्च दशरात्रादिकोऽवधिः ।
अन्तः पतितमाशौचं स व्याप्नोति स्वसंख्यया ॥
वितत्य दश संख्या हि तान्यहानि व्यवस्थिता ।
शक्नोत्येव परिच्छेत्तुमन्तराशौचमागतम् ॥
शुद्धयशुद्धी ह्यदृष्टत्वाद्विज्ञायेते यथाश्रुति ।
नन्वेवं भोजनस्यास्ति विषयावधिकारणम् ॥
तत्र दीर्घावधिर्व्यर्थः स्यादल्पावध्यनुज्ञया ।
तस्मादिहापि वैषम्यहेतुर्वाच्योऽवधिद्वये ॥
अत्राप्यसंभवे तस्य दीक्षिते वा ददत्यपि ।
तन्नियुक्तकदत्तान्नं भोज्यं सोमक्रये कृते ॥
आपद्धर्मा यथैवान्ये मुख्यासंभवहेतुकाः ।
तथैव प्राणपीडायां क्रीतराजकभोजनम् ॥
हन्तैवमप्रमाणत्वमुक्तमन्यप्रकारकम् ।
जग्धवानापदि ह्यार्तो विश्वामित्रः श्वजाघनीम् ॥

उच्यते—

एकं विनाऽप्यनुज्ञानात् क्रियते गत्यसंभवात् ।
क्रियतेऽनुज्ञया त्वन्यद्विशेषश्च तयोर्महान् ॥
191
सामान्येनाभ्यनुज्ञानाद्विशेषश्च विशिष्यते ।
विशेषोऽत्यन्तनिर्दोषः स्तोकदोषेतरक्रिया ॥
तथा च मनुनाऽप्युक्तमापद्धर्मगतं प्रति ।
तत्रत्यपापशेषाणामन्ते शौचं भविष्यति ॥
कर्मणा येन केनेह मृदुना दारुणेन वा ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ इति ।
धर्मश्च प्रथमं तावत्प्रायश्चित्तात्मको भवेत् ।
ततस्तेन विशुद्धस्य फलार्थोऽन्यो भविष्यति ॥

यत्तु क्रीतराजकभोज्यान्नत्ववचनं तद्गत्यन्तरासंभवे निर्दोषत्वज्ञापनार्थमेव ज्ञायते । तत्रापि तु ।

प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
स नाऽऽप्नोति फलं तस्य परत्रेति विचारितम् ॥

इति निन्दितत्वान्न संभवद्भोज्यान्तरेणापि लोकयात्रादिवशेन भोक्तव्यम् ।

यदि वा कालवैषम्यादसत्समविकल्पयोः ।
अर्थभेदव्यवस्थानादविरोधोऽवधार्यते ॥
दीक्षितान्नमभोज्यं स्यादक्रीते राजनि ध्रुवम् ।
क्रीते त्वभोजनं नाम मनः कर्म नियम्यते ॥
यथैवाश्राद्धभोजित्वं यथा वाऽमांसभक्षणम् ।
श्रेयसे विहितं धर्म्यं न सर्वत्र निषिध्यते ॥
श्राद्धमन्तर्दशाहं हि नियोगेन निषिध्यते ।
एकोद्दिष्टं सदेकेषां न तु पित्र्यं कदाचन ॥

तत्राश्राद्धभोजित्वनियमः स्वर्गायेति विज्ञायते । तथा षष्ठ्यष्टमीचतुर्दशीपञ्चदशीषु मांसभक्षणमैथुनादिक्रियाप्रतिषेधाद्गृहस्थस्यान्यत्र कामचारे प्राप्ते तदकरणनियमः श्रेयसे विहितः । यथाऽऽह ।

न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ इति

ननु च वाक्यद्वयदर्शनात्तत्र संयोगपृथक्त्वं युक्तमिह त्वेकमेव दीक्षितान्नभोजनप्रतिषेधवाक्यं कथं प्राक्क्रयात्प्रतिषेधति तदुत्तरकालं च प्रागग्नीषोमीयसमाप्तेर्निःश्रेयसेन नियच्छतीति ।

तदुच्यते—

192
स्याद्वाक्यद्वयमेवैतदवधिद्वयकल्पितम् ।
यः पूर्वः प्रतिषेधोऽत्र संस्थितः क्रीतराजके ॥
परोऽवधिः पुनस्तस्य नैकत्वादवकल्पते ।
द्वितीयान्नादनानुज्ञादर्शनात्तेन गम्यते ॥
अभोजनविधिर्नूनमस्त्यन्योऽप्यान्तरालिकः ।
न हि पूर्वमनुज्ञाते स्यादनुज्ञान्तरं पुनः ॥
वरणादभ्यनुज्ञाते निर्वापे किमनुज्ञया ॥

यथाऽध्वर्योर्वरणवेलायामेव सर्वं यजमानेन यज्ञोपयोगि स्वयमनुज्ञातमेवेति निर्वापमन्त्रे प्रसवशब्देन तदानींतनयजमानानुज्ञाप्रकाशनं न क्रियते तथेह क्रीतराजकावस्थानुज्ञातभोजनानुज्ञावचनमग्नीषोमीयसमाप्तौ पुनरुक्तमित्यवश्यं नियमेन प्रतिषेधान्तरेण वा वारितस्यानुज्ञानार्थमित्यवगम्यते ।

प्रतिषिद्धाभ्यनुज्ञा च विकल्पेनैव दूष्यते ।
पर्युदस्ताभ्यनुज्ञानं तस्मादिष्टं व्यवस्थया ॥

दीक्षितान्नविशिष्टाभोजननियमो हि श्रेयोर्थिभ्यो विधीयते ।

पाश्चात्यभोजनानुज्ञा नान्यथा ह्युपपद्यते ।
अदृष्टार्थप्रसङ्गित्वान्न विधिश्चायमिष्यते ॥
एवं विषयनानात्वादविरोधादबाधनम् ।

अष्टाचत्वारिंशद्वर्षं वेदब्रह्मचर्याचरणस्यापि स्मृतावेव पक्षान्तरविकल्पोपनिबन्धनादाश्रमान्तरविषयत्वसंभवाद्वा विरोधाभावः । तथा हि—

वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ।
सामर्थ्याश्रमयोग्यत्वमङ्गीकृत्यैतदुच्यते ॥

गौतमेनापि द्वादशवर्षाण्येकवेदब्रह्मचर्यं चरेदिति प्रथमकल्पमाशु गार्हस्थ्यप्रतिपत्त्यर्थमुक्त्वा द्वितीयकल्पे द्वादश प्रतिवेदं वा सर्वेष्वित्यष्टाचत्वारिंशत्परिग्रहः कृतः ।

तत्रैवं शक्यते वक्तुं येऽन्धपङ्ग्वादयो नराः ।
गृहस्थत्वं न शक्ष्यन्ति कर्तुं तेषामयं विधिः ॥
नैष्ठिकब्रह्मचर्यं वा परिव्राजकताऽपि वा ।
तैरवश्यं ग्रहीतव्या तेनाऽऽदावेतदुच्यते ॥
उपकुर्वाणकेनैव याप्यः कालो बहुस्ततः ।
संप्राप्य ज्ञानभूयस्त्वं पवित्रैः क्षीणकल्मषैः ॥
सर्वाश्रमातिरिक्तेन स्वाध्यायेनैव शोधितः ।
स्तोकैरप्याश्रमाचारैर्गतिमिष्टां गमिष्यति ॥

193 द्वैपायनादयश्चाऽऽहुः—

परिनिष्ठितकार्यस्तु स्वाध्यायेनैव हि द्विजः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो26 ब्राह्मण उच्यते ॥

यानि च प्रतिदिनप्रयुज्यमानऋक्सामयजुर्बाह्मणकल्पव्याख्यानादिब्रह्मयज्ञनिमित्तानि फलानि क्रत्वधिकृतपुरुषेभ्योऽन्यानर्थक्यप्रसङ्गाद्वयावृत्तानि जपध्यानमात्राधिकृतब्रह्मचारिपरिव्राजकविषयत्वेनावतिष्ठन्ते तान्यपि स्वाध्यायविज्ञानभूयस्त्वेन भूयिष्ठानि भविष्यन्तीति प्रतिवेदब्रह्मचर्योपदेशः । यो वा कश्चिन्मेधावितया शीघ्रमेव वेदचतुष्टयमप्यधीत्य यथोपपत्तिकालं तदर्थज्ञानाभियोगमपरित्यजन्ग्रहणान्तं वेत्येतत्पक्षाश्रयणेन गृहस्थो भवेत्तं प्रति द्वादशाष्टाचत्वारिंशद्वर्षपक्षावनेनैव स्मरणेन पूर्वपक्षीकृताविति नातीव श्रुतिविरुद्धत्वेनोदाहर्तव्यौ ।

तेन नैव श्रुतिस्मृत्योर्विरोधोऽतीव दृश्यते ।
श्रुत्योरेव ह्यसौ दृष्टः क्व चिद्वा नैव विद्यते ॥
तेनात्र यदि वा कर्मप्रयोगोऽयं निरूप्यते ।
यदि वा बाध्यमानत्वमुक्तं बाह्यं स्मृतीः प्रति ॥

एतद्धि जैमिनिनाऽत्यन्तं हितोपदेशिना जिज्ञासुभ्यः प्रतिपाद्यते ।

यावदेकं श्रुतौ कर्म स्मृतौ वाऽन्यत्प्रतीयते ।
तावत्तयोर्विरुद्धत्वे श्रौतानुष्ठानमिष्यते ॥

व्रीहियवादिष्वपि तावत्प्रत्यक्षश्रुतिविहितेषु यदि कश्चिद्यावज्जीवमप्येकमेव पक्षमाश्रित्य व्यवहरेन्न स कदाचिदप्युपालम्भास्पदं गच्छेत् ।

ततश्च तुल्यकक्षाऽपि यदि नाम स्मृतिर्भवेत् ।
तथाऽपि नैव दोषोऽस्ति श्रुत्यर्थमनुतिष्ठताम् ॥

यानि स्मृतिवचनान्यर्थमात्रमेव प्रतिपाद्य मूलभूताः श्रुंतीरनुदाहृत्य निवृत्तव्यापाराणि तेषु श्रुत्यनुमानव्याजसापेक्षप्रामाण्येषु सत्सु वेदवचनमनपेक्षत्वात्प्रमाणतरत्वेन सुतरां विश्रम्भणीयमिति श्रद्धाविशेषेण ग्राह्यतरार्थं विज्ञायते । सूत्रार्थोऽप्येवं योजयितत्र्यः । श्रौतस्मार्तविज्ञानविरोधे यदनपेक्षमपेक्षावर्जितं यस्य वाऽपेक्षणीयमन्यन्नास्तीत्येवं पाठद्वयेऽपि पूर्वसूत्रात्प्रमाणशब्दमनुषङ्गेण संबन्ध्य यदनपेक्षं तत्तावत्प्रमाणं स्यादिति तदानींतनव्यवहारमात्रप्रतिपत्त्यर्थमेवोच्यते ।

ततश्च न तावच्छाखान्तरीयविद्यमानश्रुतिमूलत्वाशङ्कायां सत्यामेवात्यन्तनिराकरणपक्षः परिग्रहीष्यते । न च प्रत्यक्षश्रुत्यर्थानुष्ठानहानिः । यदा तु क्वचिच्छाखान्तरे 194 स्मरणमूलं श्रुतिरपि प्रत्यक्षी भविष्यति तदोभयोस्तुल्यबलत्वाद्विकल्पो भविष्यत्येव । नन्वनेनैव न्यायेन स्वशाखाविहितविरुद्धं शाखान्तरगतमप्यग्राह्यं स्यात् । सत्यम् ।

वार्तामात्रेण तद्यावत्तावन्नैव ग्रहीष्यते ।
यदा तु श्रवणं प्राप्तं तदाऽस्मान्न विशिष्यते ॥
अतश्चैवं श्रुतिस्मृत्योर्विशेषोऽनेन दर्श्यते ।
नात्यन्तमेव बाध्यत्वं न चाप्यत्यन्ततुल्यता ॥
  1. हिंसारहितः ।