शिष्टाकोपाधिकरणम्

शिष्टाकोपे—एवं तावत्पुरुषार्थस्मृतीनामविरोधे विरोधे च प्रमाणत्वाप्रमाणत्वे निरूपिते संप्रति तु क्रत्वर्थानां यज्ञोपवीतोदकाचमनदक्षिणहस्ताचरणस्मृतीनां बहुश्रुत्यर्थमध्यपातिनीनां विरोधाविरोधमात्रमेव विचार्यते । तन्निर्णये तु कृते पूर्वाधिकरणाभ्यां प्रमाणत्वाप्रमाणत्वसिद्धिः ।

कथं पुनर्विरुद्धत्वं कथं वा न विरुद्धता ।
श्रुत्यर्थविगुणत्वेन तदभावेन चेष्यते ॥

यदि यज्ञोपवीतादीनि क्रतुमनुप्रवेश्यमानानि चोदकप्रयोगवचनाभ्यां न परिगृह्यन्ते निराक्रियन्ते वा ततो विरोधः । यदि पुनरानुगुण्यात्प्रकरणादिपठितवत्स्मृत्यनुमितवाक्यसंयोगेन क्रतुमनुप्रविशन्ति न च पूर्वगृहीतं किंचिद्बाधन्ते ततो न विरुद्धानीति । अन्यत्तु दर्शनं सत्यपि विरोधे प्रमाणप्रमेयबलाबलविसंवादात्संदेहः । तथा हि ।

श्रुतिस्मृत्योर्विरुद्धत्वे ज्ञातमेव बलाबलम् ।
धर्मधर्मिविरोधे च धर्मिणो बलवत्तराः ॥

वक्ष्यति हि “अङ्गगुणविरोधे च तादर्थ्यादिति” । न चेह स्मार्तः कस्यचिदपि श्रौतस्य पदार्थस्य बाध आशङ्क्यते क्रमकालपरिमाणानि तु समस्तपदार्थधर्मत्वेन निश्चितानि । तत्र यदि प्रमाणबलाबलं बलीयस्ततो बलवच्छ्रुतिप्रमेयत्वाद्दुर्बलस्वभावैरपि क्रमादिभिराचमनादीनां बाधः प्रमेयबलाबलबलीयस्त्वे तु पदार्थधर्मेभ्यः क्रमादिभ्यः पदार्थत्वेनाऽऽचमनादयो बलीयांस इति सत्यपि स्मृत्याख्यप्रमाणे दुर्बलत्वे बलवदाश्रया197 नपि स्वरूपेण दुर्बलान्क्रमादीनेव बाधिष्यन्ते ।

किं युक्तमविरुद्धत्वं क्रत्वर्थाङ्गस्मृतेरपि ।
न तदर्थक्रियायां हि श्रुतं किंचन हीयते ॥

यथैव विज्ञातबलाबलैरपि श्रुत्यादिभिः समाख्यापर्यन्तैर्यावन्तः शेषाः प्रमीयन्ते ते सर्वे शेषिकथंभावेन प्रार्थिता इत्थंभावेन सहानारभ्यवादाधीतैर्गृह्यन्ते ।

स्मृत्या तथैव संतुष्ट्या शिष्टाचारेण चार्पिताः ।
गृह्यन्ते भावनाभाव्यैरपूर्वैः साधनांशवत् ॥

कथंभावापेक्षितापूर्वोपकारस्याज्ञातपरिमाणाङ्गसाध्यत्वाद् यावत्किंचिद्येन केनचिदपि प्रमाणेन प्राप्नोति तत्सर्वमङ्गं भवति । तस्मादाचमनादीन्यपि यज्ञप्रयोगाङ्गानीत्युपन्यस्तेऽभिधीयते ॥ ५ ॥