186
इतश्च न प्रमाणत्वं मूलहेत्वन्तरेक्षणात् ।
व्यभिचारे हि नोत्पत्तिरर्थापत्त्यनुमानयोः ॥

श्रुतिविरोधभग्नप्रसरायां हि स्मृतौ पूर्वोक्तेन न्यायेन श्रुत्यनुमानप्रतिबन्धादाकाङ्क्षितमूलान्तरावश्यकल्पयितव्यत्वाच्च ।

क्वचिद्भ्रान्तिः क्वचिल्लोभः क्वचिद्युक्तिविकल्पनम् ।
प्रतिभाकारणत्वेन निराकर्तुं न शक्यते ॥
स्मृतेश्च श्रुतिभग्नायाः कारणान्तरसंभवः ।
न तु श्रुतेरतः सैव तद्विरोधे हि बाध्यते ॥
यथैव वेदमूलत्वमनेकान्तान्न लभ्यते ।
तथाऽन्यमूलताऽपीति तदाशङ्क्येदमुच्यते ॥
उपपन्नतरं चैतद्वेदवाक्यानुमानतः ।
दृष्टे हि सत्यदृष्टस्य कल्पना निष्प्रमाणिका ॥