211 सर्वदर्शी स्यात्, देशादिनियतकारणाधीनतया हि भावानां देशादिनियमः नान्यथा । अथ
कार्या असौ; कुतो जायेत–प्रमाणाभिमतज्ञानात्, अन्यतो वा ? यदि अन्यतः; प्रमाणाभिमत
ज्ञानोत्पत्तेः प्रागुत्तरकालञ्च तदुत्पत्तिप्रसक्तिः, न हि तदकार्यस्य तत्सत्ताकाले एव आत्मलाभो
युक्तः । प्रयोगः–यद् यदकार्यं न तद् आत्मलाभे तत्सत्तामपेक्षते यथा घटाऽकार्यः पटो नात्म
लाभे घटसत्ताम्, प्रमाणाऽकार्या च अज्ञाननिवृत्तिः अन्यत उत्पत्तिमत्त्वेन इति । अथ प्रमा
णादेव असौ उत्पद्यते; सिद्धं तर्हि प्रमाणफलत्वमस्याः, तथा च ज्ञानमेव अज्ञाननिवृत्तिः
इति दुर्घटम् ।


सुघटत्वेऽपि वा, किं ज्ञानमात्रमेव अज्ञाननिवृत्तिः, विशिष्टं वा ज्ञानम् ? प्रथमपक्षे अनध्य
वसायादेः दत्तो जलाञ्जलिः–ज्ञानमात्रधर्मतया अज्ञाननिवृत्तेः स्वपररूपव्यामोहविच्छेदलक्ष
णायाः तत्रापि सत्त्वप्रसङ्गात् । व्यामोहो हि अनध्यवसायादिस्वभावः, स कथं तद्विपक्षभूतया
अज्ञाननिवृत्त्या क्रोडीकृते ज्ञानमात्रे अवकाशं लभेत ? यत्र यत्सत्तामात्रनिवन्धनो यद्विपरीत
धर्मसद्भावः न तत्र तत्संभवः यथा आत्मसत्तामात्रनिबन्धनेन अमूर्त्तचेतनत्वादिधर्मेण क्रोडी
कृते आत्मनि न मूर्त-अचेतनत्वादिधर्मसंभवः, ज्ञानस1763त्तामात्रनिबन्धनेन अज्ञाननिवृत्तिधर्मेण
अनध्यवसायादिविरोधिना क्रोडीकृतञ्च ज्ञा1764नमिति । अथ विशिष्टज्ञानधर्मता अज्ञाननिवृत्तिः
इष्यते; ननु किमिदं ज्ञानस्य विशिष्टत्वं नाम–स्वपररूपयोः व्यामोहविच्छेदहेतुत्वम्, अबाधि
तत्वम्, संस्कारजन1765नयोग्यता, विशिष्टकारणकलापादा1766त्मलाभो वा ? प्रथमविकल्पे अस्मन्मत
सिद्धिः, स्याद्वादिभिः अनध्यवसायादिलक्षणव्यामोहविच्छेदहेतोः ज्ञानविशेषस्य अज्ञाननि
वृत्तिधर्माश्रयत्वाऽभ्युपगमात् । उत्तरविकल्पत्रयमपि अस्मन्मतमेव अवगाहते, स्वपररूपयोः
व्यामोहविच्छेदं कुर्वतो ज्ञानविशेषस्य अबाधितस्य संस्कारजननयोग्यस्य विशिष्टकारणकलापा
दाविर्भावमाबिभ्रतः अज्ञाननिवृत्तिधर्माधारत्वोपपत्तेः । ततः सूक्तम्–प्रमाणधर्मत्वाद् अज्ञाननि
वृत्तिलक्षणं फलं प्रमाणादभिन्नम्, हानोपादानादिकं तु भिन्नम् ।


ननु यथा स्वार्थग्रहणाभिमुख्यलक्षणोपयोगरूपं ज्ञानं स्वपरप्रमितिरूप-अज्ञाननिवृत्ति
रूपतया परिणमते तथा हानादिरूपतयापि, तत्कथमस्य भिन्नफलत्वमिति चेत् ? तद्व्यवहि
तत्वात्, समुत्पन्ने हि अज्ञाननिवृत्तिलक्षणे फले हानोपादाना1767दिलक्षणं फलमुत्पद्यते इति
अज्ञाननिवृत्तिलक्षणेन फलेन अस्य व्यवधानाद् भिन्नत्वम्, अज्ञाननिवृत्तेस्तु अपरेण स्वप्नेऽपि
अव्यवधानादभिन्नत्वम् । तन्न कारकत्वलक्षणाद् हेतोः प्रमाण-फलयोः सर्वथा भेदः सिद्ध्यति ।
नापि करणत्वात्; उक्ताऽशेषदोषाऽनुषङ्गात् ।


यदप्यभिहितम्1768विशेषणज्ञानं प्रमाणम् विशेष्यज्ञानं फलम् इत्यादि; तदप्यपेशलम्;

  1. –सत्तानिब– आ॰

  2. ज्ञानमात्रमिति आ॰, ब॰, ज॰

  3. –जनने योग्य– ब॰, ज॰

  4. –दात्मनो लाभो श्र॰

  5. –नादिकंल– ब॰, ज॰

  6. पृ॰ २०९ पं॰ ३ ।