212 विशेषण-विशेष्ययोर्विभिन्नज्ञानालम्बनत्वाऽभावात् । एकमेव हि ज्ञानं तदालम्बनम्, न हि
शुक्ल पट, दण्डी पुरुष इत्यादौ विशेषणविशेष्ययोर्ज्ञानभेदोऽनुभूयते; प्रतीतिविरोधात् ।
न च विषयभेदात् ज्ञानभेदः; पञ्चाङ्गुलादेर्विषयस्य अनेकस्यापि एकज्ञानाऽलम्बनत्वात्,
कथमन्यथा सदसद्वर्ग कस्यचिद् एकज्ञानालम्बनम् अनेकत्वात् पञ्चाङ्गुलवत् इत्यत्र अस्य
दृष्टान्तता ? कथं वा अवयविनः सिद्धिः, ऊर्ध्वा-ऽधो-मध्यभागानामपि एकज्ञानालम्बनत्वाऽभाव
प्रसङ्गत तद्व्यापित्वेन अस्य सिद्ध्यनुपपत्तेः ?


याऽपि विशेपणाक्षसन्निकर्पादिलक्षणा विभिन्ना सामग्री प्रतिपादिता1769; सापि अनुपपन्ना,
सन्निकर्षस्य प्रागेव प्रतिक्षिप्तत्वात् । स1770ति च कार्यभेदे कारणभेदः कल्पयितुं युक्तः, न चात्र
तद्भेदोऽस्ति इत्युक्तम् । तत सूक्तम्–प्रमाणफलयोः क्रमभावेऽपि तादात्म्यम् अभिन्न
विषयत्वञ्च प्रत्येयम्
इति ।


निर्मूल्य लक्षणमथान्यमतप्ररूढम्,

प्रत्यक्षलक्षणमिदं गदितं प्रमाया ।

ताराप्रभाप्रकटितं खलु वस्तुजातम्,

इन्दु प्रकाशयति तत्र किमस्ति चित्रम् ॥ १ ॥

इति प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे
प्रत्यक्षपरिच्छेद प्रथम ।
ग्रं–४५०० ।

  1. पृ॰ २०९ प॰ ६ ।

  2. सति का– आ॰, भा॰