तदुदाहरति—

अवते भवते बाहुर्महीमर्णवशक्वरीम् ।
महाराजन्नजिज्ञासौ नास्तीत्यासां गिरां रसः ॥ १४९ ॥

263 अवतिरतङानः तङा प्रयुक्तः । बाहुभिरित्यपेक्षा भवत इति षष्ठीस्थाने चतुर्थी प्रयुत्ता । अर्णवशक्वरी मेखला रत्नयोगादिना यस्या इत्यर्णवश्क्वरी नदृतः146 इति कपा भवितव्यम् । महाराजन्नित्यत्रापि सख्यहोराज्ञां टच्147 117b इति टचा भाव्यम् । तदिदं सर्वं शास्त्रशिष्टप्रयोगप्रतिकूलमिति शब्दहीनम् । नन्वनुप्रासादिः शब्दरसोऽत्र विद्यते काव्यगुणः । तन्नेदमेकान्तहेयमिति चेदाह— इत्येवं दुष्टानां शब्दानां न च रसोऽनुप्रासादिरपि जिज्ञासितावेव स्थितो ग्राह्यः । अश्रद्धाश्रयतया तस्या व्युपहतत्वात् । शुद्धायां हि भूमौ न्यस्तः पुष्पप्रकरः शोभते । यः पुनरपूतायां भुवि निक्षिप्यते कुसुमनिकरः स निष्फल एव । तथा शुद्धायां शब्दपद्धतौ रसः अनुप्रासादिः शोभते नान्यथा । यत्र पुनरयं रसो दर्शितः, तद् रसप्रयोगेऽपि शब्दहीनत्वात् हेयमिति ख्यापयितुम् । महाराजन् न जिज्ञासा नास्तीत्यासां गिरां रसः इत्यपि पाठः । तत्रासां गिरां रसो नास्तीति ईदृशी जिज्ञासा न विद्यते, हेयत्वादीदृशस्य रसस्येति व्याख्येयम् । शेषं समानमिति ॥

  1. चान्द्रसूत्रम्—तुल नदृतश्च—पाणिनिः ५. ४. १५३

  2. तदेव तुल राजाहःसखिभ्यष्टच्—पाणिनिः ५. ४. ९१