तस्यैव प्रकारान्तरं विषयं च दर्शयन्नाह—
तदोजः उच्चावचो व्याकुलः अनियतः प्रकारो गतिः प्रयोगो यस्य तदुच्चावचप्रकारं सत् भवत् दृश्यं विज्ञेयमाख्यायिकादिंषु गद्यप्रबन्धेषु । आदिंशब्देन कथादिपरिग्रहः । कथमुच्चावचप्रकारान्तरं भवतीत्याह—गुरूणां संयोगपराणां दीर्घाणां च लघूनामक्षरा30a णां च बाहुल्येनोपचयेन अल्पत्वेनासञ्चयेन मिश्रणं समत्वेन चेत्येवं बाहुल्याल्पत्वमिंश्रणैः कारणैरुच्चावचप्रकारम् । नियमाभावात् क्वचिद् गुरूणां बाहुल्यं लघूनामल्पत्वं, क्वचिल्लघूनां बाहुल्यं गुरूणामल्पत्वं, क्वचिदुभयेषां समत्वमितीयन्तः प्रकारा भवेयुरिति ॥