नतु देहादयः परलोकिनो भविष्यन्तीत्याह—देहेत्यादि ।


देहबुद्धीन्द्रियादीनां प्रतिक्षणविनाशने ।

न युक्तं परलोकित्वं नान्यश्चाभ्युपगम्यते ॥ १८५८ ॥

तस्माद्भूतविशेषेभ्यो यथा शुक्तसुरादिकम् ।

तेभ्य एव तथा ज्ञानं जायते व्यज्यतेऽथवा ॥ १८५९ ॥

आदिशब्देन वेदनासंज्ञासंस्काराणां ग्रहणम् । नान्यश्चाभ्युपगम्यत इति ।
आत्मा । तल्लोकायतपक्षानुलोमनमेव ज्ञा(जा?)तम् । तथाहि तस्यैतत्सूत्रं—परलो
किनोऽभावात्परलोकाभाव
इति । तथाहि—पृथिव्यापस्तेजोवायुरिति चत्वारि
तत्त्वानि तेभ्यश्चैतन्यमिति । तत्र केचिद्वृत्तिकारा व्याचक्षते-उत्पद्यते तेभ्यश्चैतन्यम्,
अन्येऽभिव्यज्यत इत्याहुः, अतः पक्षद्वयमाह—जायते व्यज्यतेऽथवेति । शुक्त
माम्लत्वम् । सुरेति । मदजननशक्तिः । आदिशब्देन मूर्छादिजननसामर्थ्यपरिग्रहः
॥ १८५८ ॥ १८५९ ॥