[केयं] विशेषोक्तिरित्याह—
सैषा अनन्तरोक्ता तादृशी हेतुविशेषोक्तिर्नाम विज्ञायते । कुतः ? तेजस्वीत्यर्क 84a स्य विशेषणाद्धेतुरूपात् । तेजस्वित्वात् जगत्त्रयमाक्रामतीति । इमामवान्तरभेदविकल्पनादिशमतिदिशन्नाह- अयमित्यादि । अयमेवानन्तरोक्तः क्रमो न्यायः हेत्वपेक्षया हेतुविशेषोक्तिरित्येवंजातीयः अन्येषामपि भेदानां विशेषोक्तिविकल्पानां कल्पने प्रयोगेऽनुगन्तव्यः । ते चैवं कल्पनीयाः—181