212 गीतादिवत् सुखजनकत्वेऽपि वाच्यवाचकभावानुपयोगः । विशिष्टविभावादिसामग्रीविदुषामेव तथाविधरत्यादिभावनावतामेव स्वादोद्भूतेः । तदनेनातिप्रसङ्गोऽपि निरस्तः । ईदृशे च वाक्यार्थनिरूपणे परिकल्पिताभिधादिशक्तिवशेनैव समस्तवाक्यार्थावगतेः शक्त्यन्तरपरिकल्पनं प्रयासः । यथावोचाम1014
काव्यनिर्णये—
अतो न रसादीनां काव्येन सह व्यङ्ग्यव्यञ्जकभावः । किं तर्हि ? भाव्यभावकसंबन्धः । काव्यं हि भावकम् । भाव्यास्तु रसादयः । ते हि स्वतोऽभवन्त एव भावकेषु विशिष्टविभावादिमता काव्येन भाव्यन्ते । न चान्यत्र