अप्रतीतमिति । शास्त्रमात्रप्रसिद्धं शास्त्रव्यवहारिमिः संकेतितमित्यर्थः । प्रतीताप्रतीतसमभिव्याहाररूपं हि वाक्यमशास्त्रज्ञविषयं प्रयुक्तमभिमतार्थप्रतीतिं न जनयितुमीष्टे । तत्राप्रतीतानामेवापराधोऽतः परिस्खलनखेददायितया भवति दुष्टत्वम् । अत एवाप्रयुक्ताद्बहिर्भावः । किं भाषितेनेति । रूपस्कन्धवाचोयुक्तिः सौगतसमयप्रसिद्धा । तेषां रूपं वेदना संज्ञा संस्कारो विज्ञानमिति पञ्चस्कन्धाः । तत्रापि रूपस्कन्धपदार्थ एकादशपदार्थकः । पञ्चेन्द्रियाणि पञ्च विषया विज्ञप्तिरेकादशीति प्रक्रिया । अन्तरमिति विनार्थे गहादौ पठ्यते । ‘तत्र भवः’ इति छे स्वार्थिके च कनि नञ्समासे पृषोदरादित्वान्नलोपाभाव इति भाष्यटीका । प्रेम्णो व्यापका गुणा न सन्ति मे न च व्यापकमन्तरेण व्याप्यं भवतीति व्यापकानुपलब्धिप्रयुक्तत्वात्प्रेमाभावस्य तथोपालम्भे वाच्यता नास्तीति भावः । शास्त्र एवेत्यवधारणेन यव्द्यावर्त्यते तदाह—अन्यत्रेति । लोक इत्यर्थः ।