91-b
शणस्त्रिवृत्तथैरण्डो दशमूली शतावरी ॥ २३ ॥
रास्ना मागधिका शिग्रु क्वाथ्यं द्विपलिकं भवेत् ।
विदारी मधुकं मेदे द्वे काकोल्यौ सिता तथा ॥ २४ ॥
एभिः खर्जूरमृद्वीकाभीरुयुञ्जातगोक्षुरैः ।
चैतसस्य घृतस्याङ्गैः पक्तव्यं सर्पिरुत्तमम् ॥ २५ ॥
महाचैतससंज्ञं तु सर्वापस्मारनाशनम् ।
गरोन्मादप्रतिश्यायतृतीयकचतुर्थकान् ॥ २६ ॥
पापालक्ष्म्यौ जयेदेतत्सर्वग्रहनिवारणम् ।
कासश्वासहरं चैव शुक्रार्तवविशोधनम् ॥ २७ ॥
घृतमानः क्वाथविधिरिह चैतसवन्मतः ।
कल्कश्चैतसकल्कोक्तद्रव्यैः सार्धं च पादिकः ॥ २८ ॥
नित्यं युञ्जातकाप्राप्तौ तालमस्तकमिष्यते ।