॥ क्षणभङ्गाध्यायः ॥

॥ प्रथमः पादः—पक्षधर्माधिकारः ॥

1b

॥ नमो बुद्धाय ॥

आदित्यबन्धोः किरणैरिवान्यैरातन्यमाने क्षणभाजि लोके ।
सुप्ता इवानिष्टविलापिनो1ऽतस्तलप्रहारादिव चेतयध्वम्2 ॥ १ ॥
यत् सत् तत् क्षणिकं यथा जलधरः सन्तस्तु3 भावा इमे
सत्ता शक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा न4 सा ।
नाप्येकैव5 विधान्यदापि परकृन्नैव क्रिया वा भवेद्
द्वेधापि क्षणभङ्गसंगतिरतः6 साध्ये च विश्रास्यति ॥ २ ॥

अत्र प्रथमपादोपदर्शितः स्वभावहेतुः । अयं न तावदसिद्धः । तथा हि यदि नाम
प्रतिदर्शनं 7सत्त्वलक्षणभेदः, तथापि इहाथंक्रियासामर्थ्यमेव सत्त्वमभिप्रेतं हेतुतयोपात्तम् ।
तत्र नासंभवि सर्वथा शक्यमभिधातुमभिमतं वा केषाञ्चित् । तल्लक्षणासहिष्णवो हि
यदि परमव्याप्तमस्मद्दूषणमभिदध्युः, तत्र य एवैते भावाः प्रमाणसमधिगतार्थक्रियाविशेष
व्यापाराः, त एव पक्षीकृता इति स्वरूपेणाश्रयद्वारेण वा नासिद्धिशङ्का । ये पुनरर्थ
क्रियासामर्थ्यसंभवेऽपि तत्त्वतोऽनवधारिततद्भावाः, तेषामिदानीं पक्षाद् बहिर्भावेऽपि
पश्चान्निरूपयतो8 यद्यर्थक्रियोपलम्भो भविष्यति, 9भविष्यत्येवानुमानान्तरम् । तदभावे
तु साध्याप्रतिपत्तिरिष्टैव लिङ्गान्तरवत्10

2

नन्वेवमव्यापिनी क्षणिकतासिद्धिरिति चेत्—न, यत्किञ्चित् कदाचित् क्वचिदर्थ
क्रियायामुपयोगि, तस्य सर्वस्य तद्भावसाधनायेष्टत्वाच्च11 क्वचिदुपयोगिन्येव, विशेष
चिन्तायाः प्रक्रमार्हत्वात् । तस्मान्नानिष्टरूपपरिहारेण । न च हेतुनिरूपणाशक्तौ । नापि
सर्वत्र साध्यधर्मवति धर्मिणि सकृदनुमानप्रवृत्तिविरहकृतं प्रादेशिकत्वं साध्यसिद्धेरीश्वरा
द्यनुमानवत् । एतेन निश्चितार्थक्रियाशक्तयो भावभेदाः 12धर्मिणोऽर्थक्रियासामर्थ्यसामान्यं
हेतुरिति दर्शितम् । अथवा इमे प्रत्यक्षादिगोचराः सर्व एव भावा धर्मिणोऽर्थक्रियासामर्थ्यं
हेतुः13, तत्र प्रमाणाविषयस्य क्वचिदपि विधिसाधनानुमाने धर्मीकर्तुमशक्यत्वात्, प्रमाण
विषये च सर्वत्रानुमानप्रवृत्तेः, का अपरा व्याप्तिः साध्यसिद्धेः ? प्रमाणगोचरतया धर्मिणो
नाश्रयासिद्धिः साधनस्य । नापि स्वरूपासिद्धिः, यतो येषु तावदविवादेन बहिरर्थक्रियो
पलम्भः, तेषु चिन्तैव नास्ति । येष्वपि न साक्षात् तदवधारणम्, तत्रापि प्रमाणजनना
देवार्थक्रियासामर्थ्यव्यवस्थापनमनवद्यम् । अध्यक्षे साक्षादनुमाने च कार्ये पारम्पर्येणेति ।

अत्र केचिदाचक्षते—यत्कार्यकारिणः कारणस्य सामर्थ्यव्यवस्थापनं तस्यैव कथं
सत्त्वसिद्धिः ? तदसिद्धौ मूलस्यापि नार्थसामर्थ्यम् । अथ यथाङ्कुरापेक्षया बीजस्य14
सामर्थ्यम्, तथा अङ्कुरस्यापि पत्रकाण्डाद्यपेक्षयास्तु । बुद्धेरपि बुद्ध्यन्तरस्मृत्यभिलाप
प्रवृत्त्याद्यपेक्षया15 स्वपरोपकाराद्यपेक्षया वेति ।

स्यादेतत् । केवलं कार्यपरम्परानुसरणपर्यवसानाभावे 2a यदेकमपि किञ्चिद
र्थक्रियाकारि कलयित्वा क्षणभङ्गसाधनम्, तन्न स्यात् । यदेव च16 कार्यं पर्यवसानेऽनर्थ
क्रियाकारि तेनैव पूर्वेषां तद्भावप्रसङ्गे नैकमप्यर्थक्रियाशक्तं सिद्ध्यतीति नासिद्धि
परिहारः ।

यत् पुनरेतद्भिन्नव्यावृत्तिकतया 17सत्तासिद्धावपि न कार्यत्वक्षतिरित्युच्यते, तदपि
न सम्यक् । व्यावृत्तिभेदेऽपि हि सत्त्वसिद्धौ कृतकत्वस्यापि कथं 18सिद्धिः ? अभूत्वा भवनं
हि कृतकत्वम्, भवनं च भवतामर्थक्रियाकारित्वमेव । ततोऽर्थकारित्वसंदेहे भवतोत्येव न
शक्यम् । अपेक्षितपरव्यापारत्वं 19स्वभावनिष्पत्तौ कृतकत्वमित्यपि नासतो धर्मः । सत्ता
चार्थक्रियैव । एवं 20प्रत्ययभेदे भेदित्वादयोऽपि सद्धर्मा न सत्तानिश्चयेऽभिधातुं शक्यन्त
इति ।

3

अत्रोच्यते । न तावदङ्कुरादयः परितो निरस्तविभ्रमाशङ्केऽभ्यासविशेषा
सादितपटिम्नि21 प्रत्यक्षचेतसि परिस्फुरन्तो न22 सन्तः शक्यन्तेऽभिधातुमदर्शनेऽपि
फलस्य23 । अन्यथा अर्थक्रियायामपि न कश्चिदाश्वास इति सदितरव्यवहारविरहान्निरीहं
जगज्जायेत ।

अथ सत्त्वलक्षणं 24तावद् भवतामर्थक्रियासामर्थ्यमेवेति चेत् ? तत् किमिदानीं
समयसिद्धेन लक्षणेन प्रत्यक्षबाधोऽभिधेयः25 ? तद् यदि भवतोऽपि लक्षणदोष एवानेन
क्रमेण वक्तुमिष्टोऽभिधीयताम् । अस्माकं तु न26 तल्लक्षणप्रसाधनाय परिकरबन्धः27,
किं तु तल्लक्षणेन28 क्षणभङ्गसाधनाय । अतस्तल्लक्षणानवधारणं क्षणभङ्गसिद्धिप्रतिबन्ध
मादधीत कार्ये । कार्यान्तरदर्शने तु तत्रापि तदनुमानप्रसवः क्रमेण केन वार्यते ? इदानीं
त्वर्थक्रियासमर्थस्यैव पक्षीकरणात् पक्षबहिर्भूते साध्यसाधनयोरसिद्धावपि न कश्चिद् दोष
इत्युक्तप्रायम्29

तस्मात् सामयिकलक्षणक्षतावपि किं पुनरनिश्चयमात्रे पटुतरप्रत्यक्षबलावलम्बित
वस्तुभावे30 अङ्कुरादिवस्तुनि वस्तुधर्मस्य कार्यत्वस्य विरोध31 इति । तदपेक्षया बीजा
दिकमर्थक्रियासामर्थ्यसमर्थनसहमेव32, कथमसिद्धिः ?

नन्वर्थक्रियासामर्थ्यमितरद्वा33 वस्तुलक्षणमस्पृशतेन्द्रियज्ञानेन कथं वस्तुत्वमुप
स्थापितमित्युच्यते34 ? तदपि यत् किञ्चित्, अनुभवे प्रमाणान्तरचिन्ताया निरवकाश
त्वात् । दृश्यते हि शास्त्रीयलक्षणानुल्लेखेप्यभ्यासभावितप्रत्यक्षोदयमात्राद्35 वस्तुत्वमवसाय
प्रवृत्तिरविसंवादभागिनीति किमत्र क्रियताम्36 ? एवं तु स्यात् । यदि परमार्थतोऽर्थक्रिया
सामर्थ्यमेव वस्तुत्वं तदा इदमतो जायत इति जन्माधिरणं वस्तूल्लिखता 37अध्यक्षेणार्थ
क्रियासामर्थ्यमेवोल्लिखितम् । अथान्यदेव वस्तुलक्षणं तदा तदेवोल्लिखितम् । यथा
38त्रिगुणमयत्वमितरद्वाऽनुल्लिखिता तदबहिर्भूतं नीलं नीलग्राहिणा 39गृहीतमेवातत्सिद्धम्
अध्यक्षेण वस्तुत्वमङ्कुरा2b देः40 कार्यतासंवादेऽपि41 कार्यान्तरादर्शनेऽपि कारणस्य
4
बीजादेरर्थसामर्थ्यमवस्थापयतीति । कार्यवत् तर्हि बीजादिकमपि प्रत्यक्षोदयादेवास्तु
वस्तुसत्42, किमर्थसामर्थ्यगवेषणेनेति चेत्—न वै वस्तुव्यवहारे प्रत्यक्षपाटवं परिभूयार्थ
शक्तिमनुसरामः, तस्या अपि प्रत्यक्षाधीनत्वात् । किं तु क्षणभङ्गमङ्गीकारयितुम् ।
प्रत्यक्षकृतो हि वस्तुव्यवहार उक्तक्रमेण तदतल्लक्षणसाधारणो न क्षणिकत्वसाधनाय43
नियमेन प्रभवति । अर्थक्रियासामर्थ्यं तु वस्तुलक्षणमभवदपि यत्र स्वयं वर्तते, तत्रावश्यं
तदनुपनीय न 44स्वरूपसत्तामाविशति । ततः 45साधनत्वेनास्य प्रस्तावोऽत्र न वस्तुलक्षण
त्वेनेति स्थितम् ॥

एवं ज्ञानेऽपि स्वरूपसंवेदनं सत्त्वाव्यभिचारीति सर्वं पूर्ववत् । तदनेनापि विषयस्य
46सामर्थ्यसिद्धिरव्याहतेति वेदितव्यम् । परेण हि47 परवेदने48 भ्रान्तिशङ्कावकाशः ।
स्वरूपवेदने पुनः सर्वथा तदभाव एव । अथ स्ववेदने विप्रतिपद्येत, तदैकार्थसमवायिनापि
ज्ञानेन वेदनस्वीकारेऽङ्कुरादिवदेव49 परेणापि स्वरूपोपधानान्न कश्चिद् दोषः । अन्यथा
दृष्टार्थव्यवहारहानिः सर्वथा प्रसज्येत ।

ननु विषयज्ञानयोर्हेतुफलभाव एव कथमवगन्तव्यः, उपलम्भात् पूर्वं विषयस्या
नुपलम्भात् ? व्यतिरेकबलादिति ब्रूमः । सति च बाह्येऽर्थे स्थिरेतरत्वनिर्णयारम्भः ।
तस्मादर्थक्रियाकारिकदम्बकपक्षीकरणवत् प्रमाणगोचरचक्रपक्षीकरणेऽपि नाश्रयस्वरूप
द्वारा द्विविधाप्यसिद्धिरस्थिरसाधनस्य ॥

अथार्थशक्तेः सर्वथा सूक्ष्मविचारासहत्वाद् अर्थशक्तं सर्वमिति क्व पक्षीकरणम्,
किं वा साधनमिति चेत्—ननु बीजादेरङ्कुरादिषु दृष्टा शक्तिः, नहि दृष्टे अनुपपन्नं नाम ।
सर्वस्य हि विचारनाम्नः प्रमाणस्यानुभव एव सीमा । किं चैवमनिच्छन् प्रामाणिकः कथं
धूमादपि दहनमनुमास्यति ? जलज्वलनयोर्वातातपशीतार्तः सदृशीं प्रवृत्तिमालम्बेत,
अप्रवृत्तिं वा । भवानेव कथं वा मिथ्याशक्तिमारोपयता परेण साधन उपन्यस्ते तदभावं
विद्वानेवैतत्पराजयाशंसी दूषणोपन्यासोत्तरितोऽस्ति ? तत्राप्यसिद्ध्यादिकमेव वक्तुमाद्रि
यसे, न तु जात्युत्तरम्50 ? तदेतदायातम्, नात्मनापि प्रत्यय इति । तस्माद् ब्रूयाः किञ्चित्
केनचित् प्रतारितः । दुरपह्नवा तु शक्तिरर्थेषु । साभासा चेत्—संवृत्त्या, न परमार्थेन ।
अस्तु यथा तथा संवृत्त्या परमार्थेन वा, किमत्र निर्बन्धेन ?

5

51अथ52भावसांवृतशक्तिसमन्वयिनी क्षणिकतापि सांवृती स्यान्न53 पारमार्थिकीति
मतिः, 54तत्राप्युच्यते । इह तत्त्वाभ्यासोऽभ्युदयनिःश्रे3a यसफलहेतुरिति
नित्यानित्यादिविचारमारभन्ते सन्तः, तदनिश्चयेऽभ्यासानुपपत्तेः । 55स चाभ्यासो
नित्येश्वरादिदत्तसाहायकस्तन्निरपेक्षो वा तत्फलहेतुः स्यादितीदृशि56 प्रकरणे प्रमाण
परीक्षादक्षाणां क्षणभङ्गावतारः । अत्र यदि57 परमपुरुषार्थसाधनमनिष्टपरिहारेण
58शक्तिस्थितिनान्तरीयकतया संवृतिरेवेयम्, क्षणिकतापि संवृतिरेवास्तु, परमपुरुषार्थो
पयोगेनैव क्षणिकतायामादरात् । किमस्माकं परमार्थचिन्तया, यत्र 59न प्रमाणप्रमेय
विभागः साध्यसाधनव्यवहारो वा कश्चित् ? अथ परमार्थेऽप्येवं संभवति, तदा तदा
कृष्टः शक्तिसम्भवः, तदन्वयी60 वा क्षणभङ्गो न पारमार्थिकत्वमापतति । प्रमाणप्रमेय
विभागाद्यभावे तु सर्वथा चैतन्यव्यावृत्तौ 61स्वचिन्मात्रव्यवस्थितौ वा पक्षधर्मत्वाद्य
भावनिश्चयकालवत् क्षणभङ्गसिद्धिरभवन्त्यपि न पीडयति62 । तत्र क्षणिकतासिद्धिर
तात्त्विकीति यस्त्रासयति, स स्वर्गापवर्गफलप्राप्तिरपारमार्थिकीति किं न त्रस्यति ?

तस्माद्63 यावत् साध्यसाधनभावव्यवहारः, तावत्64 परीक्षाक्षममित्येव पारमा
र्थिकत्वम्, मूलदूषणं65 प्रति सूक्ष्मविचारान्तरस्यासत्कल्पत्वादिति । अलमतिविस्तरेण ॥

एतेन यदस्थानाभिनिवेशिना न्यायभूषणकारेण66 भाष्यकारीयं कार्यकारण
भावदूषणप्रबन्धमुत्थाप्य वर्णितम्, तत् सर्वं निरुपयोगमिति प्रतिपादितम् । तथाहि
यद्येतावतः 67श्रमस्यासिद्धतोद्भावनायामेवोपयोगः, किमनेन कर्तव्यम् ? असिद्धिश्च
परिहृता, पुरुषार्थसमीहया 68वस्तुतत्त्वनिरूपणप्रवृत्तस्य शक्तिसिद्धिनान्तरीयक
व्यापारत्वात् । तत एव तथा क्रमाक्रमाभ्यां 69कार्योत्पत्तिर्व्याप्तेत्येतदप्यसिद्धमिति
यदुक्तं तदपि निरवकाशम् । यदप्यनेन तत्तदाशङ्क्योत्तराभिमानात् पर्यन्ते सांवृतत्वार्थ
क्रियापातात्—

अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् ।
70
6 71इत्युक्तिवैयर्थ्यमुद्भाव्य लिखितम् । यथा संवृत्यार्थक्रियासमर्थं, तथा तत् परमार्थसदिति
चेत्—सामान्यावयविसंयोगादेः किं न तथा सत्त्वमिष्टम् ? तस्य संवृत्त्याप्यसामर्थ्यमिति
चेत्—72न, अन्वयव्यतिरेकप्रतिभासस्योभयथा तुल्यत्वात् । तथाहि यत्र यत्र चक्षुः प्रवर्तते
तत्र तत्र तैमिरिककेशादिवन्न 73स्तम्भादिप्रतिभासो भवतीति स्तम्भादेः सामर्थ्यगतिः ।
तथा74 महिषादिषु गवाद्यन्वयबुद्धिर्न भवति । परमाणुमात्रेषु संयोगादिरहितेषु
चावयविसंयोगबुद्धिर्न भवतीति सामान्यादेरपि सामर्थ्यगतिरिति । तदप्यसारम् ।
नहि संवृतिरित्येव परिग्रहस्त्यागो वा, बालसंवृतेरपि75 ग्रहणप्रसङ्गात् । पण्डितसंवृतेरपि
परमपुरुषा3b र्थसाधनप्रवणायास्त्यागप्रसङ्गात्76 । अविचारितरम्या हि प्रतीतिः
संवृतिः । अस्ति च बालकस्य दर्पणतलावलीनसत्यवदनग्रहो विचारविधुरः पुरुषार्थ
साधनग्रहो वा पण्डितानां त्वद्विचारेण विधुरितो न च त्याज्यः, तत्परित्यागे क्षणभङ्ग
परीक्षानपेक्षाया इष्टत्वात् ।

अथ 77बौद्धस्यायं विचारो मम त्वत्रानिष्टिरेव78 । ततो बौद्धस्यैव79 सिद्धान्त
विरोधः, साधनस्य च वाद्यसिद्धता दोष इति चेत्—स तावदयं विचारः प्रमाणम्
अप्रमाणं वा ? प्रमाणत्वे तवैवायं80 न ममेति विभागानुपपत्तिः । प्रत्युत प्रमाणाद्
बहिर्भावस्वीकारे नाधिकारः प्रतिवादेऽपि तवेत्यायातम् । अथाप्रमाणम्, तदा यदि
नामागमप्रदेशप्रतिपादितोऽर्थः कश्चिन्न समर्थः81 प्रकृतस्य तु न क्षतिः । तदेतदायातम्—

यदि किञ्चित् क्वचिच्छास्त्रे न युक्तं प्रतिषिध्यते ।
ब्रुवाणो युक्तमप्यन्यदिति राजकुलस्थितिः ॥
82

इति । सौत्रान्तिकसमयस्थितस्य हि क्षणभङ्गं प्रसाधयतः स्थित्यन्तरविरोधो न
बाधकः । अन्यथा

आकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम्,
83

इत्यनेन किं नवाभिधानम् ? नैयायिकस्य चोपमानं प्रमाणमिच्छतो वैशेषिका
पेक्षया कथं न सिद्धान्तविरोधः ? भिन्नप्रस्थानत्वं तु समानम् । शक्तिसंश्रयश्च न
7
सौत्रान्तिकनीतिमतिक्रम्य84 । यदि तु तत्रापि न स्यात् शक्तिस्थितिः, तदा85 स्वप्रतिभास
मात्रमाचष्टे न86 बौद्धसिद्धान्तस्थित इति स्यात् । तस्मान्नयान्तरविरोधेऽपि न सिद्धान्त
विरोधयोगः । नापि वाद्यसिद्धिः । न च वस्तुबलप्रवृत्तानुमाने शास्त्रानुरोधः कश्चित् ।
तद्विचारप्रामाण्ये तु सांवृतत्वेऽप्यर्थशक्तेरवश्याभ्युपगन्तव्यतया तदुपनीतक्षणभङ्गसिद्धि
बाधितनित्याभिमतसामान्यसमवायादिकल्पनमधरसंवृतित्वाद् बालसंवृतिवन्नोपादेयम्
अर्थक्रियाशक्तौ । अशक्तौ 87स्वविषयज्ञानजननेऽप्ययोग्यस्य सत्त्वाभ्युपगमः संवृतिरस्तु
किं त्वधरतोऽप्यधरेति निश्चयः । अतएवाधराधरसंवृत्यपेक्षयोत्तरोत्तरासु परमार्थत्वेन88 89व्यवस्थाप्यमानावश्याभ्युपगन्तव्या, निरुत्तरार्थक्रियैव संवृतिः परमार्थ इति तया सत्
परमार्थसदुच्यते90 । तथाहि बालस्य दर्पणतले वदनग्रहमपेक्ष्यासदेव वदनमत्र
ख्यातीति91 परमार्थ इति उच्यते । तदपेक्षया च दर्पणप्रतिहतिव्यावृत्त्या नेत्रांशवः
स्वमुखमेव गृह्णातीति परमार्थः । एवमुत्तरोत्तरपरिकल्पेषु92 बलवत्सु पूर्वपूर्वः संवृतिरुत्तरो
त्तरः परमार्थो यावदर्थक्रियास्थितिः । तदतिक्रमे हि ग्राह्यग्राहकभङ्गादायातं प्रतिभास
मात्रव्यवस्थानमिति क्व संवृतेर्वार्ता ? तस्मात् संवृतीनाम4a न्तिमार्थक्रियाशक्तिरेव
परमार्थशब्दवाच्येति न संवृतिमात्रत्वेन सामान्यादिसंवृतिस्तत्कलाम्93 अधिरोहति ।
तद्विचारप्रामाण्यं तु 94गजनिमीलिकयावधीर्य तत्त्वत एव शक्तिः परमार्थस्तत्र तत्रो
च्यते, सामान्यादयश्च संवृतिसन्त इति । एवमवयविसंयोगादयोऽपि संवृतिसन्तस्तद्व
दुभयथा वेदितव्याः—शक्तेः परमार्थतया नित्यताभ्युपगमत्वात् क्षणस्थितिधर्मतायाः ।
अणव एव हि95 विशिष्टोत्पन्ना द्रव्यद्वयं वा संयोगशून्यं तत्तद्बुद्धिसाधनमिति किमवय
व्यादिना ? तत् कथं सामान्यादिपरिग्रहः संवृतिमात्रत्वेनार्थक्रिया समीक्रियते96
यदि च तावतैव साम्यं किमुपपत्तिघोषणेन ? मा भूदधरसंवृतित्वमिति नियमो
पन्यासः97 । तच्च शक्तिसमन्वयिनः तदाधारस्य वा क्षणभङ्गसङ्गमेन दुर्निवारम् । यथोक्तं
प्राक्-शक्तिसमन्वयाभावे98 तदाधारस्यापि संवृतिसत्त्वे कुतस्तद्धर्मस्य 99सामान्यादेरधर
संवृतित्वपरिहारः ? तस्मात् संवृतिमात्रत्वमेव साम्यम् । तत्र चोक्तो दोषः । या
चेयमुपपत्तिर्बुद्धिव्यतिरेको नाम100 साप्यपोहे चिन्तयिष्यते ।101

8

यच्चेदमूचे—किं च यद्यनिरूपिततत्त्वा प्रतीतिः संवृतिः, तत एव कार्यकारणव्यव
स्थितिरिष्टा, तथा सत्यक्षणिकानामेव कार्यकारणभावः सर्वव्यवहारिप्रसिद्धोऽन्वर्थो
ज्ञेयः103, किं तत्र सूक्ष्मविचारेणेति—तदप्ययुक्तम् । तथाहि यस्तावत् तत्त्वत एव
क्षणभङ्गुरभावग्रामसाधनाय साधनमाह सौत्रान्तिकः, स्वचिन्मात्रास्थितौ साधन
दूषणावधानाभावात् तस्य तात्त्विकमेव सामर्थ्यं त्रिविधं104 प्रत्यक्षानुपलम्भोपलभ्यम् । कथं
तस्यायमुपालम्भः ? परविषयप्रमाणोपस्थापितमन्यं वा105 परिहृत्य कथमासितुमसौ
समर्थः ? तावता च तात्त्विकी क्षणभङ्गसिद्धिरक्षणिकानामेव कार्यकारणभावं सांवृतमुप
पादयति इति किमस्याङ्गीकरणप्रयासेन ? न च विचारः परिस्फुरन्नेव परिहर्तुं शक्यः106,
107छायाद्रव्यतादिनिषेधेश्वरसिद्ध्यादिष्वप्यनादरप्रसङ्गात्108 । तदनिष्टवादिनः प्रतीत
स्यापि109 विचारस्य सूक्ष्मत्वादिति कृतमिदानीं शास्त्रपरम्परापरिश्रमेण । ततश्च किं तत्र
सूक्ष्मविचारेणेति विमुच्य विचारश्चारुरसौ न भवति, येनाक्षणिकक्षेप110 इति वक्तुमुचितम् ।
तच्च न प्रतिज्ञामात्रेण सिध्यति । अस्माभिस्तु नित्यमत्येतुं111 साधनमुपन्यस्तम् । न च तत्र
दोषः ।

अथ प्रस्तुतसूक्ष्मविचारादरे सूक्ष्मविचारान्तरस्याप्यवकाशप्रसङ्गो112 दोष एव ।
यदाह—सूक्ष्मेक्षिकया हि कार्यकारणभावाद् भेद113 एव स्यात्, त्वदुक्तात् न्यायादिति ।
इदमपि श्रद्धाजडस्यैव114 शोभते । यावद्धि भावानामर्थक्रियाशक्तिपरित्यागं न सहामहे
तावदव्याहतः क्षणभङ्गाङ्गीकारो नित्यनिग्रहश्च । यदा तु शक्तिविवेचन115वि4b
चारान्तरे च116 बलवति चेतः क्रमिष्यते117 तदा क्षणिकताविमोक्षमपीत्यक्षमः118, समान
त्वाद्दण्डस्य । न चैवं शक्तेरुपगमो नित्यतामनित्यतां च प्रत्युज्जीवयितुं119 शक्नोति, असाधा
रणत्वात् । तथाहि न खलु शक्तिरिति प्रमाणशून्यमेव किञ्चित् क्वचित् कदाचिद् अस्ती
त्यविमोक्षः । किं तर्हि ? एतद्वीजादिकमङ्कुरादिसमर्थमित्यनेनाकारेण प्रत्यक्षप्रतिवेद्यत
यैव । तच्च प्रत्यक्षं यथान्वयव्यतिरेके प्रमाणमिष्टं तथा कार्याणां 120क्रमीतरत्वेपीत्येवं प्रकारेण
न्यायेन शक्तिः क्षणिकतायां121 विश्राम्यन्ती न नित्यसाधारणीति122 कथमुभयोरपि
9
प्रत्युज्जीवनम् ? तदेवं बलवति 123हेतुफलताभ्रंशशंसिनी विचारे शक्तिसिद्धा क्षणिकतै
वास्ति । सा124 संवृतिः । नित्यता 125त्वधरसंवृतिरेवेति सामान्यवद् भाव्यम्126 । तद्विचार
बलने तु न किञ्चिदाशंकास्थानमिति सिद्धैव शक्तिः ।

तत्कथमुच्यते—तथाप्यसिद्धत्वान्न सत्त्वेन क्षणिकत्वसिद्धिः127 । नाप्यर्थक्रियायाः
क्रमाक्रमाभ्यां व्याप्तिसिद्धिरिति, 128सांवृतशक्तिपक्षेऽपि निर्वाहस्य दर्शितत्वात् ?

ननु यथा संवृतौ परमपुरुषार्थं प्रार्थयमानस्योपायान्वेषणप्रवृत्तस्य नार्थशक्तिमना
श्रित्य स्थातुं शक्तिः, तथा मया तत्फललाभिना129 भाव्यमित्युपायान्वेषणान्नित्यताग्रहोऽप्य
वश्यमायात इति नित्योऽपि सत्संवृतिसन्न भवतु कथमधरसंवृतिविषयः ? नित्यात्मा तु
चिन्तान्तरमर्हति । न च130 तन्मात्रेणोपगमार्हः, यतः संवृतिविशेषविषयः स्यात् । एवं
शक्तिग्रहोऽन्वेषणे प्रयोजकोऽस्तु । शक्त्या किं कर्तव्यमित्यभिदधीत नाम । न तु शक्ति
व्यतिक्रमोऽनेन वचसा दलितः131, शक्तिग्रहस्योपायान्वेषण132 हेतुत्वस्वीकारात् । नत्वेवमात्मनि
शक्यम् । शक्तिग्रहोऽपि संवृत्त्येव प्रयोजक इति चेत्—अस्तु संवृत्तया तत्त्वेन वा । शक्ति
सिद्धौ च133 पुनरात्मग्रहस्यापि134 प्रयोजकत्वसिद्धेर्नावश्यमात्मसिद्धेराक्षेप इति । निर्णया
पेक्षणे क्षणिकत्वसिद्धिस्तद्बाधनीत्युक्तप्रायम्135 । हेतुफलग्रहणे व्यवस्थितप्रतिसन्धातृसिद्धि
वादस्तु प्रस्तोष्यतेऽनेकान्तचिन्तायाम् ।

यदपीदमुक्तम्, सूक्ष्मेक्षिकयापि त्वन्मत एव कार्यकारणभावग्रहणं नष्टं भवति,
अन्येनान्यस्याप्रतिबद्धस्य ग्रहणानभ्युपगमात् । प्रतिबन्धश्च द्विष्ठः136 प्रत्यक्षेणाद्वयग्राहिणा137
न गृह्यत इत्यनुमानस्य तत्राप्रवृत्तेः138 । अस्मन्मते तु कार्यकारणभावस्यापि न ग्रहणानु
पपत्तिः, प्रत्यक्षस्यैकक्षणविषयत्वनियमानभ्युपगमात् । तथा च व्याप्तिग्रहणसमर्थनप्रस्तावे
ऽस्मदादिप्रत्यक्षमप्यतोतानागतादिविषयं कदाचिददृष्टादिहेतुवशात् प्रवर्तत139 इति समर्थि
तम् । न140 ह्यन्यथा कारणतावादप्रतीतिः141 संभवतीति142 । तदपि सकलं
10
विफलम्143 । तथाहि परेण परस्य वेदनं तावदुभयोरपि क्षणिकेतरवादिनोरिष्टम् । तत्र
144 यदि प्रत्यक्षेणा5a द्वयग्रहणं145 नाम, न्यायविरुद्धमेतत् । द्वयग्रहणमेव न्याय्यम् । तथा
च सति 146कार्यकारणभावग्रहणस्य न व्याघातः । क्षणभङ्गवाद्यपि तथोपगच्छन् 147कियतीं
क्षतिमासादयेत् । न ह्यदृष्टमनिष्टमेवास्य ।

पूर्वमप्येष सिद्धान्तं स्वेच्छयैव गृहीतवान् ।
कथञ्चिदन्यं स पुनर्ग्रहीतुं लभते न किम् ॥
148

अथ कथञ्चिदद्वयग्रहणमेव न्याय्यम्, तदा तद्विपरीतं कार्यकारणभावग्रहणप्रवण
मपि149 त्वदिष्टिमात्रं कुत्रोपयोगि ?

अथ क्षणभङ्गवादे कार्यकारणभावग्रहणमपि न प्राप्नोतीत्याकूतम्150, तर्ह्यस्ति
कार्यकारणभाव इति विरोध उद्भाव्यताम्, नासिद्धिः । तत्र च वक्ष्यामः । यदपीदमुक्तम्—
अनादिवासनात एवेयं प्रतीतिरिति चेत्—न, अत्रापि प्रमाणाभावादिति, तत्रापि काय
चित्तव्यतिरिक्तात्मद्रव्यसमवाये151 वस्त्वन्तरधर्माधर्मलक्षणगुणप्रसाधकमयं152 प्रमाण
मुपन्यसितुं शक्तो नापरश्चेतःशक्तिविशेषः कर्मेत्यस्य प्रसाधकमिति महती श्रद्धा ।
चित्तशक्तिरेव हि वासनेत्यभिधीयते । तस्मादसंसृष्टक्षणमात्रवेदनवादिनो हि व्यवहार
स्यानादिरभ्यासः । ततो वासना । ततो मिथ्या प्रतीतिरिति । एतत्153 सर्वमन्धपरम्परा
वदप्रमाणकमित्यपि धन्धान्धविलसितमिति मन्तव्यम्154 । असंसृष्टक्षणमात्रवेदनवादी हि
प्रस्तुतः क्षणभङ्गवादी155 सौत्रान्तिक इत्यर्थः । तस्य156 कार्यकारणभावप्रतीतिः मिथ्या
प्रतीतिरिति महती भ्रान्तिः । कार्यकारणभावापलापी तु योगाचारः स्वसंविन्मात्रवेदन
वादीति वदितुमुचितम्157 । न च तस्य दूषणेन क्षणभङ्गवादिनः किञ्चित् । हेतुफलापला
पिनोऽपि 158यदि तदपलापाय न्यायसंभवः तदा तदपि न दूरमिति किमत्र 159निर्बन्धेन ? इति ।
स्थितमेतत् यदि कार्यक्रियाशक्तिस्तात्त्विकी, तदितरा वा, उभयथापि नासिद्धिदूषणा
वतार इति ॥

॥ पक्षधर्मताधिकारो नाम प्रथमः पादः ॥
  1. ०विलोपि र आ.

  2. वेपन्तां र

  3. सन्तश्च र

  4. च र

  5. नोत्येकैव र

  6. ०सङ्गिति० र

  7. सत्वेन लक्षण० आ

  8. ०पतो आ र

  9. ०ष्यत्थे अनु० अ

  10. ०वतः र

  11. साधनादिष्ट० र

  12. धर्मिणि र

  13. सामर्थ्यहेतुः अ

  14. बीजस्येति नास्ति अ

  15. ०त्यभिलास० र

  16. वा र आ

  17. सत्ता असि० र

  18. सत्त्वसिद्धिः आ र

  19. अभाव० र

  20. ०भेदभेदि० र

  21. ०सादि पटि० अ

  22. नोऽसन्तः र

  23. हलस्य अ

  24. तावदिति नास्ति र

  25. ०धोविधेयः र

  26. नेति नास्ति अ

  27. साधनोपपरि० र

  28. ०क्षणे अ

  29. प्रायः अ

  30. ०तावस्तु० र आ

  31. ०नं वरोध आ

  32. ०सामर्थनसहमेव आ

  33. ०मतरद् र

  34. ०मवस्थायितं आ

  35. ०भरित० आ

  36. क्रियाता अ

  37. ०ध्येषणार्थ० र आ

  38. ०णीमयत्व आ र

  39. ०मेव तत्सि० अ, मेवा र

  40. नस्तत्तमङ्कुरादेः र

  41. कार्यतामस्वामि ०अ

  42. प्रस्तुप्तं० अ, वास्तुकिमर्थो र

  43. साधनीय र

  44. स्वरूपतामा० र

  45. साधनके र

  46. विषयसाम० आ

  47. हीति नास्ति र

  48. परतो वेदने र

  49. ज्ञानेनास्वीकारेऽङ्कुरादिवदेव र,
    स्वीकाराङ्कुरादिव अ

  50. जात्युत्तरः अ, ०त्तरं र

  51. अथेति नास्ति अ

  52. भाव इति नास्ति र

  53. स्यादिति नास्ति र

  54. अत्राप्यु० र

  55. सदा० र

  56. ०दृशी अ

  57. तव यदि र

  58. शक्तिमिति० र

  59. नेति नास्ति र

  60. सम्भवतस्त० अ

  61. स्वेति नास्ति र

  62. ०सिद्धिश्च...पीडयन्ति र

  63. तत्रा अ

  64. परीक्षाक्षममिति नास्ति अ

  65. ०भाषिणं आ र

  66. भाष्यकार्य० आ

  67. भ्रमस्या० अ

  68. वस्तुत्व० र

  69. कार्योपपत्ति० र

  70. प्र० वा० १. ३.
  71. इति व्यक्ति० र

  72. ०मिति चेतर अन्वय० र

  73. ०वत्तस्त० र

  74. तथा हि र

  75. गोवालं स०
    वृते र

  76. प्रमाणाया० र

  77. ०स्यैवायं र

  78. ०रिव र

  79. ०स्याय० र

  80. तवाय० र

  81. मायम० र

  82. प्र० वा० ४. ६३
  83. अभिधर्मकोशे २. ५
  84. क्रमस्य र

  85. ०स्तया अ

  86. ०माविष्टेन अ

  87. स्वेति नास्ति अ

  88. ०र्थ केन र

  89. ०प्यमानावस्व० र, ०प्यसामर्थवश्या० अ

  90. उच्यते इति नास्ति र

  91. इतीति नास्ति अ

  92. निर्विकल्पेषु अ

  93. भुत्कन्धा० र

  94. ०निमीलितेन र

  95. अणव हि र

  96. समाहृयते अ

  97. इ...पन्यासः अ, ०तिन्यापन्यासा र

  98. ०क्ति समर्थार्थायिन ? र

  99. समर्थभावे र

  100. ०रधरं स० र

  101. साप्य...ष्यते इति नास्ति र; ०सापि क्षीणा, नहि बुद्धिमात्र
    व्यतिरेकेण व्यतिरेकवस्तुसिद्धिक्रमः । किं तर्हि वस्त्वन्तराकारपरिहारेण यत्राकारविशेषो
    बुद्धेः स्फुटतर...वस्तु...तस्य यदा नार्थस्य बाह्यवस्तुग्रहः तद्व्यतिरेकव्यतिरेकि वस्तुकथनम् ।
    न चैवमाधाररूपव्यतिरेकेण रूपनिर्भासः । सामान्यादेर्विकल्पमात्रस्य तु कल्पिते सामान्ये क्वापि
    सामान्यं सामान्यमिति—इति प्रान्ते केनचिद् योजितम्—अ ॥

    101
  102. This note had no marker in the text.
  103. This note had no marker in the text.
  104. ०द्धोऽम्यनुज्ञेयः र

  105. ०त्रिविध० र

  106. ०मन्वर्था? अ

  107. शक्यते र

  108. तानि र

  109. द्विष्वना० र

  110. अपीति नास्ति र

  111. नाक्षणिकत्वक्षे र

  112. नित्यमित्येतुः अ

  113. प्रसङ्ग र

  114. भावोच्छेद र

  115. ०स्यैवशोभ० र

  116. विवेचिनि आ

  117. चकारो नास्ति अ

  118. भ्रमिष्यते अ

  119. धिमोक्षमय? र

  120. प्रत्य...वयितुं अ

  121. भ्रमी अ

  122. शक्तिक्षणिकताया० र

  123. ०रनी कथं अ

  124. ०फलभावभ्र० र

  125. ०वान्तिमास० र

  126. ०ताधर० र

  127. वाच्य० र

  128. सिद्धिरिति नास्ति र

  129. सांव्र्ति० र

  130. लाभिनां र

  131. चकारस्त्यक्तः र

  132. दर्शितः र

  133. ०षणे हेतु० र

  134. शक्ति
    सिद्ध्यैव र

  135. प्रयोजकत्वा० र

  136. ०प्रायः अ

  137. द्विष्ट० र

  138. ०प्रत्यक्षे द्वय० र

  139. प्रवृत्तिः र

  140. प्रवर्तित० र

  141. अ? ह्यन्यथा र

  142. कारणभावादि र

  143. इतीति नास्ति र

  144. फल्गु र

  145. चकारो नास्ति र

  146. ०णादुषण० अ

  147. ०ताव० अ

  148. कियता० र

  149. प्र० वा० ४. ७४
  150. प्रवण इति
    नास्ति र

  151. ग्रहणमेव प्राप्नोतीत्वाद्भुतं अ

  152. समवायि० र

  153. प्रसा...नय० अ

  154. ०रित्येव
    तत् र

  155. मन्वये अ

  156. हि प्रस्तुतः क्षणभङ्गवादीति नास्ति र

  157. तस्य च कार्यस्य प्रभावः र

  158. उचितः अ

  159. यद्येत० अ

  160. निर्बन्धो नास्थित० र