रथंतराधिकरणम्

ज्योतिष्टोमे प्रथमं बृहद्रथंतरे वैकल्पिके पृष्ठसाधनत्वेन चोदिते ततः पुनः श्रूयते ‘यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान्गृह्णीयात्’ ‘यदि बृहत्सामा शुक्राग्रान्’ इति । तत्र सगुणं कर्म श्रूयमाणं संदिह्यते किं कर्मान्तरं ज्योतिष्टोमादुत तस्यैव ग्रहाग्रताविशेषविधानं प्रति रथंतरावच्छिन्नस्य निमित्तार्थं 571 श्रवणमिति । तत एतत्सिद्ध्यर्थमिदं विचारयितव्यं किमयं कृत्स्नक्रतुसंयोगो रथंतरस्य अथ सत्तामात्रसंयोग इति । तत्सिद्ध्यर्थमप्येतच्चिन्तनीयम्, किं क्रतुविशिष्टं रथंतरमुत रथंतरविशिष्टः क्रतुरिहाऽऽश्रीयते । ननु च यदिशब्दोपबन्धादिह निमित्तं प्रतीयते तस्य चोद्दिश्यमानत्वाद्विशेषणविशेष्यभावो नावकल्पेत । भवेन्निमित्तार्थत्वमेतस्य यदि यादृगयं प्रत्येष्यते तादृशस्य कुतश्चित्प्राप्तिर्विज्ञायेत । अप्राप्तिपक्षे तु बलाद्विधानमापद्यते । निमित्तत्वमपि च यादृशस्येह श्रूयते यदि तादृशो ज्योतिष्टोमस्ततस्तस्यैव गुणार्थत्वेन श्रवणमिति संगंस्यते । यदि तु तादृङ् न भवति ततस्तादृशत्वमापाद्य निमित्तीकर्तव्यः । यत्संबन्धाच्च प्राङ्निमित्तत्वमेव नोपजायते भवति तन्निमितस्यापि विशेषणं यथाऽऽर्त्यधिकरणे407 वक्ष्यते ‘मृष्यामहे हविषा विशेषणमिति’ । तस्मान्न विशिष्टानुवाददोष इति । किं तावत्प्राप्तं प्रकरणाद्रथंतरसामत्वस्य बृहत्सामत्वस्य च वचनान्तरेण प्राप्तेर्यदिशब्देन च प्राप्त्यपेक्षत्वनिमित्तत्वप्रतीतेर्ग्रहाग्रताविशेषस्य च प्रयोगवचनेन ग्रहणाद्बलीयसा च विरोधिना गुणान्तरेणानवरोधात्, ‘तत्संनिधेर्गुणार्थेन पुनः श्रुतिः’408 इत्यकर्मान्तरत्वम् । एवं सिद्धान्तं प्राप्तं तुशब्देन व्यावर्त्य सौत्रः पूर्वपक्षः परिगृह्यते कर्मान्तरमिति । कुतः ।

समासः सति सामर्थ्ये तच्चापीष्टं विशेषणे ।
विशेषणं व्यवच्छेत्तृ ज्योतिष्टोमे च नास्ति तत् ॥

409‘गुणश्चापूर्वसंयोगे’ इति पूर्वकर्मासंबद्धो गुणो भेदक इत्युक्तम् । इह च बहुव्री572 ह्यर्थसद्भावस्य यदिशब्दोपबन्धेन निमित्तत्वं गम्यते न रथंतरसत्ताया उपसर्जनत्वात् । न च क्रतुविशिष्टं रथंतरमिह प्रतीयते ।

येन तदेव निमित्तं कल्प्येत । न च तत् क्रतुनाऽवच्छेत्तुं शक्यते, अन्यत्रापि विद्यमानत्वात् । एवं हि तदवच्छिद्यते यदि रथंतरमस्यैव सामेति, न त्वेवं संभवति । तस्मादवश्यमेवं कर्तव्यं यदि रथंतरमेवास्य सामेति । न चैवमात्मकत्वं ज्योतिष्टोमस्यान्यस्य बाऽवगतं, यन्निमित्तं भवेत् । अतो निमित्तप्रतीतिं परित्यज्य तदन्यथानुपपत्त्यैव केवलरथंतरसामककर्मान्तरविधिरध्यवसीयते । शक्यं हि तदपूर्वं कर्तुम् । न च रथंतरसत्तामात्रं विशेषणमव्यापकत्वात् । न विशेषणादृते सामर्थ्यम् । न च सामर्थ्येन विना समासोऽवकल्पते । दृश्यते 410वाऽसावत्रेति पूर्वस्यात्राप्रत्यभिज्ञानम् । अथ कस्मात्स एव केवलरथंतरसामकः पक्षे न क्रियते, न शक्यमेवं कर्तुम् । साक्षाद्विहितस्तोत्रसंबन्धिसामान्तरविरोधात् । इदं हि क्रतुसंबन्धेन श्रुतम् 411‘आनर्थक्यात्तदङ्गेषु’ इत्यनेन न्यायेन स्तोत्रेष्ववतरति, गायत्र्यादीनि तु स्तोत्रेषु साक्षाद्विधीयन्ते तस्माद्बलवन्ति । क्रत्वन्तरे तु प्रत्यक्षशिष्टं रथंतरं तेभ्यश्चोदकप्राप्तेभ्यो बलवत्तरं भवतीत्यदोषः । एवं चान्यपदार्थविधानात्तत्प्रधानो बहुव्रीहिरनुग्रहीष्यते । अन्यथा ह्युपसर्जनपरत्वं लोहितोष्णीषादिवाक्यवदगत्या परिगृह्येत । यदि च ग्रहाग्रताविधानेन सहैतदेकं वाक्यं ततस्तच्चापि रथंतरविधानं चानेकत्वादपूर्वभावनाविधिनैव निस्तीर्यते । सोमः स्यादिति चाऽऽनन्तर्यात्तत्कर्तव्यतैव विज्ञायते, रथंतरसामत्वकर्तव्यता तु व्यवहितकल्पनयैव स्यात् । सोमशब्देन च प्रकृतिलिङ्गेन ज्योतिष्टोमप्रकृतिरेवायं भविष्यति । तस्मात्कर्मविधिः । इदमेव भाष्यकारो दर्शयति—यदि रथंतरसामेत्यस्य कोऽर्थ इत्यादिना । ग्रहाग्रताविशेषश्चास्यैव क्रतोर्वाक्येनावान्तरप्रकरणेन वा भविष्यति ।

573 यद्यपि महावाक्येष्ववान्तरवाक्यान्यप्रमाणं तथाऽप्यर्थासंभवादविवक्षिते महावाक्येऽवान्तरवाक्याश्रयणाद्विधिशक्तेरबाधः । 412परित्यागाद्वरमध्याहृत्य पूरणमिति मत्वा, अथ वा यदि रोचेतेति दर्शयति । तत्कर्तव्यताक्षिप्तायाश्च रुचेः प्रमाणवानेवाध्याहार इति न स्वमनीषिकामात्रमभिहितम् । अध्याहारादपि स्वपदवृत्तिरेव व्यवहितकल्पनया लघीयसी धर्ममात्रबाधादिति मत्वा यदि शालिं भुञ्जीतेत्युदाहृत्य पक्षान्तरं कल्पयति । परस्तु दृष्टान्तस्यैवासिद्धेः कथं पुनरिति पृच्छति । व्यत्ययेन संबन्धः, 574 कामप्रवेदने हि लिङ् इच्छां प्रत्यायतीति सिद्धान्तविवरणम् । तत्रैष वाक्यार्थो भवति । यद्यैन्द्रवायवान् ग्रहान् ग्रहीतुमिच्छेद्रथंतरसामानं क्रतुं कुर्यादिति । ततश्च यदिशब्दरहितं सोमः स्यादिति पदद्वयं विधायकं, ग्रहान् गृह्णीयादित्येतत्तु यद्यप्यविधायकं तथाऽपीच्छार्थत्वाद्यो हि यदिच्छति स तत्करोतीत्येवं विधिफलं लप्स्यते । अथ वा इच्छामात्रयुक्तमुपात्तं ग्रहाग्रत्वं स्यादित्येषैव लिङ् विधास्यति ।

विनैव व्यवहितकल्पनयाऽप्ययं पक्षो भवन् बलवत्तर इति मन्वानोऽथवा हेतुहेतुमतोर्लिङित्युपन्यस्यति । तत्र सोमः स्यादिति हेतौ लिङ्गृह्णीयादिति विधावेव । तेनैतदुक्तं भवति रथंतरसामसोमहेतुकानैन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति । न चाक्रियमाणेऽसौ हेतुत्वं प्रतिपद्यत इत्यर्थाद्विहितो भविष्यतीति । अथ वा 413हेतुमति गृह्णीयादिति लिङ्, सोमः स्यादिति विधावनुक्तमपि च सोमस्य हेतुत्वं हेतुमदाक्षेपात्संनिधेश्च भविष्यति । तत्राप्येषोऽर्थो ग्रहाग्रताविशेषकारणभूतः सोमयागः कर्तव्य इति ।

यदिशब्दपरित्यागो रूढ्यध्याहारकल्पना ।
व्यवधानेन संबन्धो हेतुहेतुमतोश्च लिङ् ॥

इति पक्षविकल्पसंग्रहश्लोकः । सर्वं चैतदवैष्ट्यधिकरणसिद्धान्त एवोपयोक्ष्यत इत्यत्र 575 प्रपञ्चितम् । 414किं च ।

निष्पन्नेन निमित्तेन निष्पाद्यं प्रतिभूयते ।
न रथंतरसत्ता च निष्पन्ना क्रतुसत्त्ववत् ।

प्रातः सवने हि ग्रहग्रता भवति माध्यंदिने रथंतरम्, न चानिष्पन्नस्य निमित्तता युक्ता । कारणपर्यायत्वान्निंमित्तशब्दस्य, मम तु नैव किंचिन्निमित्तम् । अथ वा क्रतुः । स चाऽऽदित एव विद्यते । 415जगत्सामा च न ज्योतिष्टोम इति 416‘जगत्साम्नि सामाभावात्', इति वक्ष्यते । अतश्च 417‘तत्सामान्यादितरेषु तथात्वम्’ इति कर्मान्तरत्वमिति ॥ १ ॥

पूर्वोक्तैरेव हेतुभिर्ज्योतिष्टोमस्य गुणविधिरयं न कर्मान्तरम् । एकस्यैव हि तेन लिङ्गेन रथंतरसामत्वेन बृहत्सामत्वेन च ग्रहाग्रताविधिप्रयोजनार्थमुच्चारणं क्रियते । गुणवाक्यत्वाच्चाकर्मान्तरप्रत्यये सत्येकत्वं विज्ञायते । अथ वा 576 रथंतरादिविधानाज्ज्योतिष्टोमस्य गुणवाक्यैरेवमात्मकत्वं चोदितमिति नार्थान्तरत्वं प्रतीयते । ततश्च कर्मैकत्वम् । यत्तु विशेषणाभावात्सामान्तरसापेक्षविशेषणत्वाद्वा रथंतरसामेति समासो नावकल्पत इति । तत्र ब्रूमः ।

इष्यते पाक्षिकं वस्तु सत्तयैव विशेषणम् ।
विग्रहे यद्विशेष्यत्वं तस्य चेह निमित्तता ॥

यदि हि रथंतरं नित्यं ज्योतिष्टोमेऽन्यसहितं वा स्यात्ततो न व्यवच्छिन्द्यादपि, यतस्त्वरथंतरोऽपि ज्योतिष्टोमप्रयोगोऽस्त्येव ततस्तद्व्यवच्छेदमुखेनास्ति विशेषणफलम् । यदि चैवकारं विना विशेषणबुद्धिर्न भवति तत एवमसौ दर्शयितव्यो यदि रथंतरं सामास्यास्त्येवेति । बहुव्रीहेश्च मत्वर्थवर्तित्वान्मतुपश्चास्तित्वयोगविषयत्वान्नैवकारस्याश्रुतसत्तासंबन्धकल्पना । यद्वा यदि रथंतरं सामैवास्य भवतीति । तत्र कोऽर्थ एवशब्दस्य । तद्धि रथंतरं यद्यपि सर्वदा साम तथाऽपि यदा क्रतौ न भवति तदा तं प्रति सामकार्यासत्त्वादसामैवेति । सत्तापक्षे रथंतरं सामेति वक्ष्यते । अवश्यं च क्रत्वपेक्षमेवैतत्सामत्वं वक्तव्यम् । रथंतरस्वरूपे सामत्वस्य नित्यं पौनरुक्त्यात् । न च रथंतरस्य सापेक्षत्वं ज्योतिष्टोमे, येन समासो न स्यात् । द्वंद्वनिर्दिष्टेषु ह्येकस्तोत्रविषयेषु चैतद्भवति । केवलेषु तु भिन्नस्तोत्रविषयसाधनेषु प्रत्येकनिरपेक्षमेव साधनत्वमिति सामर्थ्यं न विहन्यते । यद्वा पौनरुक्त्यादेव सामशब्दस्तत्साध्यस्तोत्रलक्षणार्थः सन् रथंतरपर्युपस्थापितं पृष्ठं लक्षयति । अथवा बृहद्रथंतरयोरवान्तरप्रकरणादवान्तरकार्ययोगाच्च विरोधिनोः स्पर्धमानयोर्यथाऽवस्थितानुवादसारूप्यात्सामान्तराण्यनपेक्ष्य परस्परावच्छेदेनैव विशेषणत्वसिद्धिः । तेनोपपन्नं रथंतरविशिष्टस्य क्रतोर्निमित्तत्वम् । अथवाऽस्तु रथंतरं क्रतुविशिष्टं निमित्तमिति । ननु च तदेव न प्रतीयते । उच्यते । सत्यं न प्रतीयते किं तु यदा समस्तक्रतुसंयोगाभावाद्रथंतरविशिष्टः क्रुतुर्न गृहीतस्तदा विगृह्यमाणे समासे यो विपरीतो विशेषणविशेष्यभावः प्रतीयते रथंतरमस्य सामेति स ग्रहीष्यते ।

577 षष्ठ्यन्तत्वाच्च क्रतुर्विशेषणमेव समासाभिव्यङ्ग्यविशेष्यत्वभावात्तथा विवक्षिष्यते । यद्यपि च क्रत्वन्तरेष्वपि वस्तुस्वरूपेण रथंतरमस्ति तथाऽप्यत्र तावद्विद्यते तावन्मात्रेण च विशेषणत्वोपपत्तिः । स्ववाक्ये चासाधारणत्वं विशेषणकारणं न वस्तुलक्षणं मा भून्नीलमुत्पलं देवदत्तस्य गौरित्येवमादीनां विशेषणत्वोच्छेदः । तथा हि ।

न लोके देवदत्तस्य गोसंबन्धोऽस्ति केवलम् ।
उत्पलस्य च नीलत्वं तस्यैवोच्येत येन तत् ।

यदि च वस्तुत एवासाधारणत्वं भवेन्नैव शब्देन विशेषणमुपादीयेत । न ह्यत्र विशेषणफलमस्ति अग्निरुष्ण इति । तस्मादवश्यं वाक्यगतमेवासाधारणत्वमाश्रयितव्यम् । अस्ति चात्रापि तत्, ज्योतिष्टोमगतस्यैव रथंतरस्य निमित्तत्वेनेष्टत्वात् । प्रथमतरप्रतीतं च रथंतरं निमित्तत्वेनोत्सृज्य न निमित्तान्तरकल्पनायां प्रमाणं विद्यते । तस्मादुभयथाप्यदोषान्निमित्तमिति न यदिशब्दपरित्यागादीनामाश्रयणं युक्तम् । न च कामप्रवेदनहेतुमत्प्रतीतिस्तावद्भवति यावन्निमित्तत्वमेव न प्रतीतम् । तत्संभवे च नाप्रतीतग्रहणं युक्तमू । भूतभविष्यद्वर्तमानानां चानियमेन लोके वेदे च निमित्तत्वं दृष्टमिति रथंतरभविष्यत्वमचोद्यम् । 418अपि च यदेकान्तेनावधारितं तन्निष्पन्नमेव । ज्योतिष्टोमप्रक्रमे चावधारितमेकान्तेन रथंतरं प्रयोज्येत इति सर्ववैकल्पिकानां क्रतुप्रक्रमएवावधारणादवश्यमृत्विग्यजमानैरेवमिदं कर्तव्यमित्यवधार्य प्रवर्तितव्यम् । तद्वशेन प्रयोगकौशलाभ्यासादिसिद्धेः । न च निमित्तं नैमित्तिकस्य रूपसंनिधानेनोपकरोति । कथं तर्हि । ज्ञायमानत्वेन । तस्मादप्रयुक्तमपि संकल्पितत्वाद्रथंतरं निमित्तम् । यदा त्वेकदेशस्थेनापि तेन विशेषितः क्रतुर्निमित्तं तदाऽसौ वर्तत एवेत्यविरोधः । न च लिङः कालविशेषसंबन्धेनोत्पत्तिर्येनान्यतरविषयमेव निमित्तं ब्रूयात् । सर्वथा हि शक्यं 578 दर्शयितुं यदि रथंतरसामा सोमो भूतो भवति भविष्यति चेति । तत्रेहार्थवशेनैवं विज्ञायते यदि रथंतरं भविष्यतीति ।

यत्तु जगत्साम सामान्यतो दृष्टमुक्तं, तदयुक्तम् । तस्यैवंजातीयकेष्वप्रमाणत्वात् । अथ वा प्रकरणे द्वित्वबहुत्वयुक्तप्रतिपद्विधानादिव419 जगत्सामत्वासंभवात्तदिति वैषम्यम्, अपि च तत्रापि नैवापूर्वकर्मोत्पत्तिः, किं तर्हि, अप्रकृतस्य विषुवतो420 निमित्तत्वेन ग्रहणम् । तस्मान्निमित्तार्थानि सर्वाणि श्रवणानीति ॥ २ ॥

इति रथंतराधिकरणम् ॥ १ ॥
  1. ( अ॰ ६ पा॰ ४ अ॰ ६ ) इत्यत्र भाष्यकारेणेति शेषः ।

  2. ( अ॰ २ पा॰ २ अ॰ ५ सू॰ १५ ) ।
  3. ( अ॰ २ पा॰ २ अ॰ ९ सू॰ २३ ) ।
  4. असाविति - समास इत्यर्थः ।

  5. ( अ॰ ३ पा॰ १ अ॰ ९ सू॰ १८ ) ।
  6. परित्यागादिति यदिशब्देति पूर्वं शेषः ।

  7. ‘हेतुहेतुमतोर्लिङ्’ ( ३-३-१५६ ) इति पाणिनीयसूत्रानुरोधादित्यर्थः ।

  8. बृहद्रथंतरसामसंयोगस्य ग्रहाग्रत्वलक्षणाङ्गरूपशेषानुष्ठानवेलायामभूतत्वात्—अनिष्पन्नत्वात् इत्येवम् ‘संयोगस्याशेषभूतत्वात्’ इति सूत्रावयवव्याख्यानार्थम् ‘अपि च’ इति भाष्यं व्याख्यास्यति—किंचेत्यादिना ।

  9. अथ वा जगत्सामसंयोगस्य ज्योतिष्टोमं प्रत्यनङ्गभूतत्वात्तत्साहचर्येण बृहद्रथंतरसंयोगयोरप्यनङ्गत्वात्कर्मान्तरप्रयोजकतेत्येवमर्थान्तरपरतया सूत्रव्याख्यानार्थम् ‘अपि च निःसंदिग्धम्’ इति भाष्यं व्याचष्टे—जगत्सामा चेत्यादिना ।

  10. ( अ॰ १० पा॰ ५ अ॰ १५ सू॰ ५८ ) ।
  11. ( अ॰ १ पा॰ २ अ॰ २ सू॰ २३ इत्येतत्सूत्रावयवः ) ।
  12. यदि तु निष्पन्नेन्नैव मिमित्तेन भाव्यमित्याग्रहस्ततः संकल्पितत्वेन, अननुष्ठितस्यापि भोजनस्य संमार्जनादाविव निमित्तत्वोपपत्तोरित्युपपादयति—अपि चेत्यादिना ।

  13. प्रतिपद्विधानादिवेति—'युवं हि स्थः स्वर्पती इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात्’ ‘एते असृग्रमिन्दव इति बहुभ्यो यजमानेभ्यः’ इति वाक्याभ्यां द्विबहुयजमानकत्वे निमित्ते स्तोत्रीयाद्यर्ग्रूपप्रतिपत्कार्योद्देशेन विहितयोर्मन्त्रयोर्नियतैकयजमानके ज्योतिष्टोमे निवेशासंभवाद्यथा कुलायाहीनादावुत्कर्षस्तद्वदिहेति दृष्ठान्तार्थः ।

  14. विषुवत इति । एकषष्टयधिकशतत्रयसुत्यात्मके गवाभयने, अशीतिशतं पूर्वं पक्षः अशीतिशतमुत्तरं पक्षः, मध्यतनं विषुवत्संज्ञकमहः । तस्मिंश्च विषुवति पृष्ठस्तोत्रे, ‘विभ्राट् बृहत्पिबतु’, इति जगतीच्छन्दस्कायांमृचि महादिवाकीर्त्यं सामोत्पन्नम् । अतस्तस्यैव जगत्सामत्वेन शुक्राग्रत्वमिति ।