अतिपत्तिरिति स्वधर्मातिक्रमोऽभिधीयते । जीवनपरिमितश्च दर्शपूर्णमासयोः कालः । न च तदतिक्रमः कथंचिदपि संभवति । प्रक्रमेण हि कर्मकालं संस्पृशदनतिक्रान्तमित्यभिधीयते । न च कश्चिदपि पूर्णमासयाजी सन्नप्रक्रममाण एव जीवनमतिलङ्घयति । न ह्यसौ दर्शपूर्णमासयाजी स्यात् । अथ स्वकालापरिसमापनमतिपातनमुच्येत तथा मृतस्य तद्भवतीत्यनर्थकमेव प्रायश्चित्तविधानम् । मत्पक्षे हि प्रतिमासं दर्शपूर्णमासप्रक्रमसमाप्त्योर्जीवने निमित्ते विधानात्संभवत्यतिक्रमस्तदुत्तरकालश्च प्रायश्चित्तविषयत्वेन । ननु पूर्वपक्षेऽपि प्रतिमासमभ्यासाभ्युपगमात्तदतिक्रमनिमित्तप्रायश्चित्तविधानं भविष्यति । न शक्यमेवं वदितुम् । यत्र हि निमित्ते यच्चोदितं तेन तत्र भवितव्यं न 628 यथेष्टम् । इह च पौर्णमास्यमावास्यातिपत्तिर्निमित्तत्वेन श्रुता, न चाभ्यासस्तच्छब्दवाच्यः । यथा न ग्रहाभ्यासः कश्चिज्ज्योतिष्टोमशब्दवाच्यः । तेन जीवितपरिमिताभ्याससंयुक्तयोरेव पौर्णमास्यमावास्याशब्दवाच्यत्वमिष्टमिति नावयवानामतिपातनं निमित्तं स्यात् । ननु च पौर्णमास्यमावास्याशब्देनात्र कालोऽभिधीयते, स चावयवविषय एवेत्यवयवातिक्रमो निमित्तं स्यात् । नैतदेवम् । अतिपातनं नामातिपद्यमानस्य भवति । न च कालस्यातिपन्नत्वं धर्मोऽनतिपत्तेरविधानात् । यस्य हि यावान्विषयोऽनतिक्रमणीयत्वेन चोदितस्तस्य तदतिलङ्घनमतिपत्तिरित्युच्यते । न च कालस्य कर्मानतिक्रमणीयत्वेन चोदितं, किं तर्हि, कर्मणः कालः । तस्य हि सोऽङ्गं न तस्य कर्म । तदेव च तत्सद्भावासद्भावयोः सगुणं निर्गुणं च भवति न कालः । तदेव चानुष्ठानात्मकत्वादतिक्रमानतिक्रमौ प्रतिपद्यते न कालः । तस्य स्वभावसिद्धत्वात् । तस्माद्यः पौर्णमासीं स्वं कालमभिपद्यमानामतिपातयेदित्यवधारणात्कर्मण एव निमित्तत्वम् । न चावयवस्तच्छब्दवाच्य इत्युक्तम् ॥ ३ ॥