ऋतुकरणेषु चोत्तरविधौ यत्पूर्वाभावमनुवदति स विकारपक्षेऽवकल्पते । चोदकप्रातस्य चोत्तरेण पूर्वस्य बाधितत्वात् । सामानविध्ये हि प्रत्यक्षनिमित्तसंनिधानात्प्राप्ते निमित्ते नैमित्तिकमवश्यं कर्तव्यमिति समुच्चयः स्यात् । तत्र प्रतिषेधः पृथग्विधेरुपगम्यमानो वाक्यं भिन्द्यात् । न ह्यत्र द्वितीयतृतीयादिवद्विशिष्टविधिरवकल्पते । विधिप्रतिषेधयोर्विप्रतिषेधात्, पर्युदासासंभवाच्च । सर्वश्चेह सवनीयपशुविषयः पूर्वपक्षवाद्युक्तो न्यायः सिद्धान्तत्वेनानुसंघातव्यः । संस्थानिमित्तत्वे हि सामानविध्येऽपि निमित्ताभावादभावदर्शनमुपपद्येतैव । सिद्धान्तेऽपि चादृष्टार्थत्वात्समुच्चयप्रसङ्गे सति क्रतुकरणसमाख्या प्रकृतिलिङ्गमिति योज्यम् । केचित्पुनराहुः । प्रचरणीहोमशेषप्रतिपत्तिवद्धोमस्य परिध्यञ्जनेन प्रतिपादिते सामानविध्येऽप्यभावः । सिध्यतीति । तत्र तु वाक्येन स्वतन्त्रे विधीयमाने कथमप्रस्तुतं प्रतिपत्तित्वमवगम्यत इति वक्तव्यम् । सत्यपि च होमेन प्रतिपादने यावता परिध्यञ्जनशब्दार्थो निर्वर्तते किंचिच्च श्रुत्योच्यते तावत्पुनः संभवत्येव । तस्माद्यथोक्तेन न्यायेन दर्शनमेवेदमभावसंकीर्तनम् ॥ ४६ ॥