743 यद्यप्यग्निरदेवता न त्वसमवेतः । समवेतत्वं चोपलक्षणकारणं न देवतात्वम् । न चात्राग्निः कार्ययोगी । येनात्यन्तमाद्रियेत । किं तर्हि । उपलक्षणार्थः । न चोपलक्षणानि यथाश्रुतान्येवोपांशुयाजान्तरालकाललक्षणार्थपुरोडाशद्वयवत्कार्येष्वाश्रीयन्ते ।

तथा पात्नीवतेऽप्युक्ता तेन त्वष्टुरतन्त्रता ।
तथा डित्थस्य मातेति माता डित्थडवित्थयोः ॥

उपलक्षणकार्ययोर्मिथः संबन्धाभावात्साधारणत्वम् । भाष्यकारेण त्वेतदेवानुषज्योक्तं मिथस्तेषामसंबन्धादचोदना स्यादिति । भवति चैवंविधानां साधारणत्वं तथा च प्राशित्रे दृश्यत इति ॥ २६ ॥

यथैव हि ग्रहत्वेन चमसा नोपलक्षिताः ।
आग्नेयत्वं तथा न स्याद्द्विदेवत्योपलक्षणम् ॥

उद्दिश्यमानं तावद्विवक्षितमित्युक्तम् । न चाग्नीषोमीयैन्द्राग्नयोराग्नेयत्वमस्ति । न ह्यत्राग्निसत्तामात्रमुपलक्षणम् । किं तर्हि । तद्धितोपात्तं देवतात्वम् । अग्निः पुनस्तद्विशेषणम् । यां चोद्दिश्य द्रव्यं त्यज्यते सा देवता । न च द्विदेवत्योऽग्निमुद्दिश्य त्यज्यते ।

न हि व्यासङ्गिविज्ञानमेकेन व्यपदिश्यते ।
नाग्नीषोमीय आग्नेय एेन्द्राग्नो वा तदुच्यते ॥