उद्दिश्यमानं तावद्विवक्षितमित्युक्तम् । न चाग्नीषोमीयैन्द्राग्नयोराग्नेयत्वमस्ति । न ह्यत्राग्निसत्तामात्रमुपलक्षणम् । किं तर्हि । तद्धितोपात्तं देवतात्वम् । अग्निः पुनस्तद्विशेषणम् । यां चोद्दिश्य द्रव्यं त्यज्यते सा देवता । न च द्विदेवत्योऽग्निमुद्दिश्य त्यज्यते ।
आग्नेय इति यो निरपेक्षाग्निदेवत्यः सोऽभिधीयते । न च द्विदेवत्ये निरपेक्षोऽग्निर्देवता । तेनायं तद्धितो नाग्नीषोमादिगताग्निशब्दादुत्पद्यत इति न तदर्थस्य देवतात्वमाह । यत्र त्वसौ निरपेक्षो देवता स शक्य आग्नेय इति वक्तुम् । यत्तु प्राशित्रवदिति । तत्रोच्यते । देशविशेषलक्षणार्थाऽस्मिन्नाग्नेयगुणश्रुतिः । सामान्यवाक्येन सर्वत्र प्राशित्रावदाने प्राप्ते मस्तकविरोगविशेषविधानार्थमेतद्वचनमिति वैषम्यम् ।
तं चतुर्धा कृत्वा पुरोडाशं बर्हिषदं करोति इति ।
अत्रोच्यते ।
प्राशित्रेऽपि तथेति चेत् । न । गुणार्थत्वात् । मस्तकं विरुज्येति गुणपरत्वादशक्यः सामान्यविधिरुपसंहर्तुम् । इदं तु निर्गुणं पुनर्वचनं शक्नोति सामान्यं स्वविषये स्थापयितुम् । दूरस्थत्वादशक्योऽस्योपसंहार इति चेत् । न । यस्य691 येनार्थसंबन्ध इति न्यायात् । तेन—
अथवा विशेषेण प्राप्तत्वात्सामान्यमनूद्यते बर्हिषत्त्वकरणाविधानार्थम् । अथ तदपि प्राप्तं ततः क्रमार्थं श्रवणमिति वक्तव्यम् । अतश्चाऽऽग्नेयस्यैव चतुर्धाकरणमिति सिद्धम् । यदि तु तत्र केवलाग्निदेवत्यो नाभविष्यादिति—लक्षणार्था गुणश्रुतिरित्येतस्यैव व्याख्या । केवलदेवत्याभावे हि मनोतायाभिवाग्निशब्द उभौ लक्षयेत् । तदर्था वा गुणश्रुतिर्भवेत् । अस्ति त्वेकदेवत्यस्तस्मात्तस्यैव चतुर्धाकरणम् । यद्यपि चोपलक्षणं कार्ययोगि न भवति तथाऽपि तेनानुपलक्षितं न शक्यं ग्रहीतुमित्येकदेवत्यस्यैव ग्रहणमिति सिद्धम् ॥ २७ ॥
-
यस्य येनार्थसंबन्धो दूरस्थेनापि तस्य सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम् । इति श्लोकपूरणम् ।
↩