746 मुख्ये गौणे च केनचित्प्रकारेण विद्यते । तत्र विनियोगः किं मुख्य एवार्थे भवत्युत गौणेऽपीति संदेहे नैव गौणो नाम कश्चिदस्तीति मन्वान आह—कः पुनर्मुख्यः को वा गौण इति । तत्सिद्धिसूत्रे तु सिद्धे गौणे तन्निमित्तभेदः स्वार्थापरित्यागवृत्तित्वं च व्याख्यातमित्ययमर्थाद्विचारः पूर्वं प्रत्येतव्यः । तत्र च ।
परगुणानां परत्राभावादवश्यं गुणेभ्य आयात इत्येवंलक्षणं गौणत्वमित्यतः सर्व एव शब्द उच्चरितेऽभिधीयमानत्वादनन्यगतिः शब्दशक्तिकल्पनां कुर्वन्नर्थान्तरेणाव्यवहितत्वात्प्रथममेव मुखमिव भवतीति मुख्यः । तत्र परपरिकल्पितानि तावद्गौणत्वकारणान्युपन्यस्यन्नाह—अथोच्येत । यस्मिन्निरुपपदादित्यादि ।
न हि यथा केवलादग्निशब्दाज्ज्वलनप्रत्ययो भवत्येवं माणवकप्रत्ययः । पदान्तराधीनत्वात् । यत्रापि पदान्तरं न श्रूयते तत्राप्यर्थप्रकरणादिलभ्यं तदेव व्याप्रियत इत्यव्यभिचारः । तदेव च सामान्यं नाम प्रवृत्तिहेतुर्गुण इति । नैतदेवम् । कुतः ।