अध्यायः 082

दुर्योधनम्प्रति शकुनिना द्यूताय प्रोत्साहनम् ॥ 1 ॥ धृतराष्ट्राज्ञया शिल्पिभिः सभानिर्माणम् ॥ 2 ॥ धृतराष्ट्रेण पाण्डवानयनाय विदुरप्रेषणम् ॥ 3 ॥

शकुनिरुवाच ॥

यां त्वमेतां श्रियं पाण्डुपुत्रे युधिष्ठिरे ।
तप्यसे तां हरिष्यामि द्यूतेन जयतां वर ॥
आहूयतां परं राजन्कुन्तीपुत्रो युधिष्ठिरः ।
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे ॥
अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये ।
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत ॥
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्फुरम् ॥
दुर्योधन उवाच ।
अयमुत्सहते राजच्छ्रियमाहर्तुमक्षवित् ।
द्यूतेन पाण्डुपुत्रेभ्यस्तदनुज्ञातुमर्हसि ॥
धृतराष्ट्र उवाच ।
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः ।
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥
दुर्योधन उवाच ॥
`कृष्णादभ्याधिकः सोऽपि क्षत्ता बोद्धा विशाम्पते ।
केवलं धर्ममेवाह न तद्विजयसाधकम् ॥
जयश्च धर्मतोपेतस्तथैव भरतर्षभ ।
तस्माद्विनयतो जेता तावुभौ च विरोधिनौ' ॥
व्यपनेष्यति ते बुद्धिं विदुरो मुक्तसंशयः ।
पाण्डवानां हिते युक्तो न तथा मम कौरव ॥
नारभेतान्यसामर्थ्यात्पुरुषः कार्यमात्मनः ।
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥
भयं परिहरन्मत्त आत्मानं परिपालयन् ।
वर्षासु क्लिन्नवटवत्तिष्ठन्नैवावसीदति ॥
न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते ।
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ॥
धृतराष्ट्र उवाच ॥
सर्वथा पुत्र बलिभिर्विग्रहो मे रोचते ।
वैरं विकारं सृजति तद्वै शस्त्रमनायसम् ॥
अनर्थमर्थं मन्यसे राजपुत्र सङ्ग्रन्थनं कलहस्यातियाति ।
तद्वै प्रवृत्तं तु यथाकथञ्चित् सृजेदसीन्निशितान्सायकांश्च ॥
दुर्योधन उवाच ॥
द्यूते पुराणैर्व्यवहारः प्रणीत- स्तत्रात्ययो नास्ति न सम्प्रहारः ।
तद्रोचतां शकुनेर्वाक्यमद्य सभां क्षिप्रं त्वमिहाज्ञापयस्व ॥
स्वर्गद्वारं दीव्यतां नो विशिष्टं तद्वर्तिनां चापि तथैव युक्तम् ।
भवेदेवं ह्यात्मना तुल्यमेव दुरोदरं पाण्डवैस्त्वं कुरुष्व ॥
धृतराष्ट्र उवाच ।
वाक्यं न मे रोचते यत्त्वयोक्तं यत्ते प्रियं तत्क्रियतां नरेन्द्र ।
पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं न हीदृशं भावि वचो हि धर्म्यम् ॥
दृष्टं ह्येतद्विदुरेणै सर्वं विपश्चिता बुद्धिविद्यानुगेन ।
तदेवैतदवशस्याभ्युपैति महद्भयं क्षत्रियजीवघाति ॥
वैशम्पायन उवाच ॥
एवमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरं च ।
शशासोच्चैः पुरुषान्पुत्रवाक्ये स्थितो राजा दैवसंमूढचेताः ॥
सहस्रस्तम्भां हेमवैदूर्यचित्रां शतद्वारां तोरणस्फाटिकाढ्याम् ।
सभामग्र्यां क्रोशमात्रायतां मे तद्विस्तारामाशु कुर्वन्तु युक्ताः ॥
श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षास्तां तदा चक्रुराशु ।
सर्वद्रव्याण्युपजह्रुः सभायां सहस्रशः शिल्पिनश्चैव युक्ताः ॥
कालेनाल्पेनाथ निष्ठां गतां तां सभां रम्यां बहुरत्नां विचित्राम् ।
चित्रैर्हैमैरासनैरभ्युपेता- माचख्युस्ते तस्य राज्ञः प्रतीताः ॥
ततो विद्वान्विदुरं मन्त्रिमुख्य- मुवाचेदं धृतराष्ट्रो नरेन्द्रः ।
युधिष्ठिरं राजपुत्रं च गत्वा मद्वाक्येन क्षिप्रमिहानयस्व ॥
सभेयं मे बहुरत्ना विचित्रा शय्यासनैरुपपन्ना महार्हैः ।
सा दृश्यतां भ्रातृभिः सार्धमेत्य मुहृद्द्यूतं वर्ततामत्र चेति ॥
वैशम्पायन उवाच ॥
मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः ।
मत्वा च दुस्तरं दैवमेतद्राजंश्चकार ह ॥
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः ।
नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् ॥
विदुर उवाच ॥
नाभिनन्दे नृपते प्रैषमेतं मैवं कृथाः कुलनाशाद्बिभेमि ।
पुत्रैर्भिन्नः कलहस्ते ध्रुवं स्या- देतच्छङ्के द्यूतकृते नरेन्द्र ॥
धृतराष्ट्र उवाच ।
नेह क्षत्तः कलहस्तप्स्यते मां न चेद्दैवं प्रतिलोमं भविष्यत् ।
छात्रा तु दिष्टस्य वशे किलेदं सर्वं जगच्चेष्टति न स्वतन्त्रम् ॥
तदद्य विदुर प्राप्य राजानं मम शासनात् ।
क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥

2-82-3 ग्लहान् पणान् ॥ 2-82-4 आस्फुरमक्षविन्यासपातनादिस्थानम् ॥ 2-82-8 विनयतः अनयात् ॥ 2-82-16 दुरोदरं द्यूतम् ॥