अध्यायः 064

कर्कोटकवचनान्नलेनायोध्यायां बाहुक इति स्वनामनिर्देशपूर्वकमृतुपर्णनृपसमीपोपसर्पणम् ॥ 1 ॥ ऋतुपर्णेन तस्य सारथ्ये नियोजनम् ॥ 2 ॥

बृहदश्व उवाच ।
तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः ।
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥
स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन् ।
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च ।
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ॥
यानि शिल्पानि लोकेऽस्मिन्यच्चैवान्यत्सुदुष्करम् ।
सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥
`इत्युक्तः स नलेनाथ ऋतुपर्णो नराधिपः ।
उवाच सुप्रीतमनास्तं प्रेक्ष्य च महीपते' ॥
वसबाहुक भद्रं ते सर्वमेतत्करिष्यसि ।
शीघ्रयाने सदा बुद्धिर्ध्रियते मे विशेषतः ॥
स त्वमातिष्ठ योगं तं येन शीध्रां हया मम ।
भवेयुरश्वाध्यक्षोसि वेतनं ते शतंशतम् ॥
त्वामुपस्थास्यतश्चैव नित्यं वार्ष्णेयजीवलौ ।
एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ॥
बृहदश्व उवाच ।
एवमुक्तो नलस्तेन न्यवसत्तत्रपूजितः ।
ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ॥
स वै तत्रावसद्राजा वैदर्भीमनुचिन्तयन् ।
सायंसायं सदा चेमं श्लोकमेकं जगाद ह ॥
क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी ।
स्मरन्ती तस्य मन्दस्य कं वाऽऽसाद्योपतिष्ठति ॥
एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् । कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक ।
आयुष्मन्कस्य वा नारी यामेवमनुशोचसि ॥
तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् ।
आसीद्बहुमता नारी तस्या दृढतरश्च सः ॥
स वै केनचिदर्थेन तया मन्दो व्ययुज्यत ।
विप्रयुक्तः स मन्दात्मा भ्रमत्यसुखपीडितः ॥
दह्यमानः स शोकेन दिवारात्रमतन्द्रितः ।
निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ॥
स विभ्रमन्महीं सर्वां क्वचिदासाद्य किंचन ।
वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ॥
सा तु तं पुरुषं नारी कृच्छेऽप्यनुगता वने ।
त्यक्ता तेनाल्पभाग्येन दुष्करं यदि जीवति ॥
एका बालाऽनभिज्ञा च मार्गमाणाऽतथोचिता ।
क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ॥
श्वापदाचरिते नित्यं वने महति दारुणे ।
त्यक्ता तेनाल्पभाग्येन मन्दप्रज्ञेन मारिष ॥
इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् । अज्ञातवासं न्यवसद्राज्ञस्तस्य नवेशने ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥

3-64-9 मारिष आर्य ॥