अध्यायः 192

हरिणा मार्कण्डेयंप्रित स्वमाहात्म्यकथनपूर्वकमन्तर्धानम् ॥ 1 ॥ मार्कण्डेयेन युधिष्ठिरादीन्प्रति कृष्णस्य सर्वोत्तमत्वप्रतिपादनेन तंप्रति शरणागमनचोदना ॥ 2 ॥ कृष्णेन तेषां समाश्वासनम् ॥ 3 ॥

देव उवाच ।
कामं देवाऽपि मां विप्र न हि जानन्ति तत्त्वतः ।
त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विमृजाम्यहम् ॥
पितृभक्तोसि विप्रर्षे मां चैव शरणं गतः ।
ततो दृष्टोस्मि ते साक्षाद्ब्रह्यचर्यं च ते महत् ॥
आपो नारा इति प्रोक्तास्तासां नाम कृतं मया ।
तेन नारायणप्युक्तो मम तत्त्वयनं सदा ॥
अहंनारायणो नाम प्रभवः शाश्वतोऽव्ययः ।
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम् ॥
अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः ।
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥
अहं शिवश्च सोमश्च कश्यपोऽथ प्रजापतिः ।
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥
अग्निरास्यं क्षिति पादौ चन्द्रादित्यौ च लोचने । द्यौर्मूर्धा मे दिशः श्रोत्रे तथाऽऽपः स्वेदसंभवाः ।
सकलं च नभः कायो वायुर्मनसि मे स्थितः ॥
मया क्रतुशतैरिष्टं बहुभिस्त्वाप्तदक्षिणैः ।
यजन्ते वेदविदुषो मां देवसदने स्थितम् ॥
पृथिव्यां क्षत्रियेन्द्राश् पार्तिवाः स्वर्गकाङ्क्षिणः ।
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषया ॥
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् ।
शेषो भूत्वाऽहमेवैतां धारयामि वसुंधराम् ॥
वाराहं रूपमास्थाय मयेयं जगती पुरा ।
मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता ॥
अग्निश्च बडबावक्रे भूत्वाऽहं द्विजसत्तम ।
पिबाम्यापः सदा विद्वंस्ताश्चैव विसृजाम्यहम् ॥
ब्रह्म वक्रं भुजौ क्षत्रमूरू मे संस्थिता विशः ।
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च ॥
ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः ।
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ॥
यतयः शान्तिपरमा यतात्मानो मुमुक्षवः ।
कामक्रोधद्वेषमुक्ता निःसंज्ञा वीतकल्मषाः ॥
सत्वस्था निरहंकारा नित्यमध्यात्मकोविदाः ।
मामेव सततं विप्राश्चिन्तयन्त उपासते ॥
अहं संवर्तको वह्निरहं संवर्तको यमः ।
अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः ॥
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले ।
मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम ॥
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः ।
वसनं शयनं चैव विलयं चैव विद्धि मे ॥
मयैव सुविभक्तास्ते देवकार्यार्थसिद्धये । कामं क्रोधं च हर्षं च भयं मोहं तथैव च ।
ममैव विद्धि रोमाणि सर्वाण्येतानि सत्तम ॥
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम् ।
सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु ॥
मद्विधानेन विहिता मम देहविहारिणः ।
मयाऽभिभूतविज्ञाना विचेष्टन्ते न कामतः ॥
सम्यग्वेदमधीयाना यजन्ते विविधैर्मखैः ।
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ॥
---न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः ।
---भाभिभूतैः कृपणैरनार्यैरकृतात्मभिः ॥
तस्मान्महाफलंविद्धि पदं सुकृतकर्मणः ।
सुदुष्प्रापं विमूढानां मार्गं योगैर्निषेवितम् ॥
यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम ।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः ।
राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः ॥
तदाऽहंसंप्रसूयामि गृहेषु शुभकर्मणाम् ।
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् ॥
सृष्ट्वा देवमनुष्यांस्तु गन्धर्वोरगराक्षसान् ।
स्थावराणि च भूतानि संहराम्यात्ममायया ॥
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् ।
आविश्य मानषं देहं मर्यादाबन्धकारणात् ॥
श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम ।
श्यामो द्वापरमासाद्य कृष्णः कलियुगे तथा ॥
त्रयो भागा ह्यधर्मस् तस्मिन्काले भवनति च ।
`यदा भवति मे वर्णः कृष्णो वै द्विजसत्तम्' ॥
अन्तकाले च संप्राप्ते कालो भूत्वाऽतिदारुणः ।
त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् ॥
अहं त्रिवर्त्मा विश्वात्मा सर्वलोकसुखावहः । अजितः सर्वगोऽनन्तो हृषीकेश उरुक्रमः ।
कालचक्रं नयाम्येको ब्रह्मन्नहमरूपकम् ॥
शमनं सर्वभूतानां सर्वकालकृतोद्यमम् । एवं प्रणिहितः सम्यङ्मायया मुनिसत्तम ।
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥
सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः ॥
यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज ।
सुखोदयाय तत्सर्वं श्रेयसे च तवानघ ॥
यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम् ।
विहित सर्वथैवासौ ममात्मा भूतभावनः ॥
अर्धं मम शरीरस्य सर्वलोकपितामहः ।
अहं नारायणो नाम शङ्खचक्रगदाधरः ॥
यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् ।
तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः ॥
एवं सर्वमहं कालमिहासे मुनिसत्तम ।
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ॥
मया च दत्तो विप्राग्र्य वरस्ते ब्रह्मरूपिणा ।
असकृत्परितष्टेन विप्रर्षिगणपूजित ॥
सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् ।
विक्लबोसि मया ज्ञातस्ततस्ते दर्शितं जगत् ॥
अभ्यन्तरं शरीरस्य प्रविष्टोसि यदा मम ।
दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे ॥
ततोसि वक्राद्विप्रर्षे द्रुतं निःसारितो मया ।
आख्यातस्ते मया चात्मा दुर्ज्ञे योपि सुरासुरैः ॥
यावत्स भगवान्ब्रह्मा न बुध्येत महातपाः ।
तावत्त्वमिह विप्रर्षे विस्रब्धश्चर वै सुखम् ॥
ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे ।
एकीभूतः प्रवेक्ष्यामि शरीराणि द्विजोत्तम ॥
आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च ।
लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् ॥
मार्कण्डेय उवाच ।
इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः ।
प्रजाश्चेमाः प्रपश्यामि विचित्रा विविधाः कृताः ॥
एवं दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये ।
आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतांवरः ॥
यः स देवो मया दृष्टः पुरा पद्मायतेक्षणः ।
स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः ॥
अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम् ।
दीर्गमायुश्च कौन्तेय स्वच्छन्दमरणं मम ॥
स एष कृष्णो वार्ष्णेय पुराणपुरुषो विभुः ।
आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः ॥
एष धाता विधाता च संहर्ता चैव शाश्वतः ।
श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः ॥
दृष्ट्वेमं वृष्णिप्रवरं स्मृतिर्मामियमागता ।
आदिदेवमयं जिष्णुं पुरुषं पीतवाससम् ॥
सर्वेषामेव भूतानां पिता माता च माधवः ।
गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः ॥
वैशंपायन उवाच ।
एवमुक्तास्च ते पार्ता यमौ च पुरुषर्षभौ ।
द्रौपद्या सहिताः सर्वे नमश्चक्रुर्जनार्दनम् ॥
स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना । सान्त्वयामास मानार्हो मन्यमानो यथाविधि ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥

3-192-2 ते त्वया ॥ 3-192-31 रक्तो द्वापरमासाद्य इति. झ. पाठः ॥ 3-192-47 एकीभूतो हि स्रक्ष्यामि इति झ. पाठः ॥