अध्यायः 060

भीष्मार्जुनयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
व्युष्टां निशां भारत भारताना- मनीकिनीनां प्रमुखे महात्मा ।
ययौ सपत्नान्प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः ॥
तं द्रोणदुर्योधनबाह्लिकाश्च तथैव दुर्मर्षणचित्रसेनौ ।
जयद्रथश्चातिबलो बलौघै- र्नृपास्तथान्ये प्रययुः समन्तात् ॥
स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्भिश्च राजन् ।
रराज राजा स तु राजमुख्यै- र्वृतः सदेवैरिव वज्रपाणिः ॥
तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः ।
सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः ॥
सा वाहिनी शान्तनवेन गुप्ता महारथैर्वारणवाजिभिश्च ।
बभौ सविद्युत्स्तनयित्नुकल्पा जलागमे द्यौरिव जातमेघा ॥
ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शान्तनवाभिगुप्ता ।
सेनामहोग्ना सहसा कुरूणां वेगो यथा भीम इवापगायाः ॥
तं व्यालनानाविधगूढसारं गजाश्वपादातरथौघपक्षम् ।
व्यूहं महामेघसमं महात्मा ददर्श दूरात्कपिराजकेतुः ॥
विनिर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन काले ।
` जये धृतः शत्रुवरूथिनीनां यथा सुरेन्द्रोऽसुरवाहिनीनाम् ॥
नारायणेनेन्द्र इवाभिगुप्तः शशीव सूर्येण समेयिवान्यथा ।
तथा महात्मा सह केशवेन वरीथिनीनां प्रमुखे रराज ' ॥
सोपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण सङ्ख्ये ।
कपिध्वजं प्रेक्ष्य रथं विषेदुः सहैव पुत्रैस्तव कौरवेयाः ॥
प्रकल्पितं गुप्तमुदायुधेन किरीटिना लोकमहारथेन ।
तं व्यूहराजं ददृशुस्त्वदीया- श्चतुश्चतुर्व्यालसहस्रकीर्णम् ॥
यथैव पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवसत्तमेन ।
यथा न भूतो भुवि मानुषेषु न दृष्टपूर्वो न च संश्रुतश्च ॥
ततो यथादेशमुपेत्य तस्थुः पाञ्चालमुख्याः सह चेदिमुख्यैः ।
ततः समादेशसमाहतानि भेरीसहस्राणि विनेदुराजौ ॥
शङ्खस्वनास्तूर्यरवाः प्रणेदुः सर्वेष्वनीकेषु ससिंहनादाः ।
ततः सबाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः ॥
क्षणेन भेरीपणवप्रणादा- नन्तर्दधुः शङ्खमहास्वनांश्च ।
तच्छङ्खशब्दावृतमन्तरिक्ष- मुद्धूतभौमद्रुतरेणुजालम् ॥
महानुभावाश्च ततः प्रकाश- नालोक्य वीराः सहसाऽभिपेतुः ।
रथी रथेनाभिहतः ससूतः पपात साश्वः सरथः सकेतुः ॥
गजो गजेनाभिहताः पपात पदातिना चाभिहतः पदातिः ।
आवर्तमानान्यभिवर्तमानै- र्घोरीकृतान्यद्भुतदर्शनानि ॥
प्रासैश्च खङ्गैश्च समाहतानि सदश्वबृन्दानि सदश्वबृन्दैः ।
सुवर्णतारागणभूषितानि सूर्यप्रभाभानि शरावराणि ॥
विदार्यमाणानि परश्वथैश्च प्रासैश्च स्वङ्गैश्च निपेतुरुर्व्याम् ।
गजैर्विषणापरगात्ररुग्णाः केचित्ससूता रथिनः प्रपेतुः ॥
गजर्षभाश्चापि जगर्षभेण निपातिता बाणहताः पृथिव्याम् ।
गजौघवेगोद्धतसादितानां श्रुत्वा विषेदुः सहसा मनुष्याः ॥
आर्तस्वनं सादिपदातियूनां विषाणगात्रावरताडितानाम् ।
संभ्रान्तनागाश्वरथे मुहूर्ते महाक्षये सादिपदातियूनाम् ॥
महारथैः संपरिवार्यमाणं संदृश्य दूरात्कपिराजकेतुम् ।
तं पञ्चतालोच्छ्रिततालकेतुः सदश्ववेगाद्भुतवीर्ययानः ॥
महास्त्रबाणाशनिदीप्तमन्तं किरीटिनं शान्तनवोऽभ्यधावत् ।
तथैव शक्रप्रतिमप्रभाव- मिन्द्रात्मजं द्रोणमुखा विसस्नुः ॥
कृपश्च शल्यश्च विविंशतिश्च दुर्योधनः सौमदत्तिश्च राजन् ।
ततो रथानां प्रमुखादुपेत्य सर्वास्त्रिवित्काञ्चनचित्रवर्मा ॥
जवेन शूरोऽभिससार सर्वां- स्तानर्जुनस्यात्मभवोऽभिमन्युः ।
तेषां महास्त्राणि महारथाना- मसह्यकर्मा विनिहत्य कार्ष्णिः ॥
बभौ महामन्त्रहुतार्चिमाली सदोगतः सन्भगवानिवाग्निः ।
ततः स तूर्णं रुधिरोदफेनां कृत्वा नदीमाशु रणे रिपूणाम् ॥
जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्वः ।
ततः प्रहस्याद्भुतविक्रमेण गाण्डीवमुक्तेन शिलाशितेन ॥
विपाठजालेन महास्त्रजालं विनाशयामास किरीटमाली ।
तमुत्तमं सर्वधनुर्धराणा- मसक्तकर्मा कपिराजकेतुः ॥
भीष्मं महात्माऽभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः ।
तथैव भीष्माहतमन्तरिक्षे महास्त्रजालं कपिराजकेतोः ॥
विशीर्यमाणं ददृशुस्त्वदीया दिवाकरेणेव तमोभिभूतम् ।
एवंविधं कार्मुकभीमनाद- मदीनवत्सत्पुरुषोत्तमाभ्याम् । ददर्श लोकः कुरुसृंजयाश्च
तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे षष्टितमोऽध्यायः ॥

6-60-1 व्युष्टां प्रभाताम् ॥ 6-60-7 व्यालो व्यूहविशेषस्तेन नानाविधं गूढसारं च ॥ 6-60-9 सोत्तरबन्धुरेषं उत्तरेणाच्छादनेन बन्धुरा रम्या ईषा तत्सहितम् ॥ 6-60-18 शरावराणि कवचानि ॥