अध्यायः 138

भीष्मेण युधिष्ठिरंप्रति आपदि शत्रुणापि संधिकरणविषये दृष्टान्ततया मार्जारमूषिकचरितकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ ।
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ॥
तदिच्छामि परां बुद्धिं श्रोतुं ते भरतर्षभ ।
यथा राजा न मुह्येत शत्रुभिः परिपीडितः ॥
------याज्ञं सर्वशास्त्रविशारदम् ।
पृच्छ------- तन्मे व्याख्यातुमर्हसि ॥
शत्रुभिबहु------था मुच्येत पार्थिवः ।
एतदिच्छाम्य------र्वमेव यथाविधि ॥
विषमस्थं हि राजा----त्रवः परिपन्थिनः ।
बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः ॥
सर्वतः प्रार्थ्यमानेन दर्बलेन महाबलैः ।
एकेनैवासहायेन शक्यं स्थातुं भवेत्कथम् ॥
कथं मित्रमरिं चापि विन्देत भरतर्षभ ।
चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे ॥
अजातलक्षणे राजन्नमित्रे मित्रतां गते ।
कथं नु पुरुषः कुर्यात्कृत्वा किं वा सुखी भवेत् ॥
विग्रहं केन वा कुर्यात्संधिं वा केन योजयेत् ।
कथं वा शत्रुमध्यस्थो वर्तेत बलवानपि ॥
एतद्धै सर्वकृत्यानां परं कृत्यं नराधिप ।
नैतस्य कश्चिद्वक्ताऽस्ति श्रोता वाऽपि सुदुर्लभः ॥
ऋते पितामहाद्भीष्मात्सत्यसंधाज्जितेन्द्रियात् ।
तदन्वीक्ष्य महाभाग सर्वमेतद्ब्रवीहि मे ॥
भीष्म उवाच ।
त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः ।
शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत ॥
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।
सामर्थ्ययोगात्कार्याणामनित्या हि सदा गतिः ॥
तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत् ।
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ॥
संधातव्यं बुधैर्नित्यं व्यवस्य च हितार्थिभिः ।
अमित्रैरपि संधेयं प्राणा रक्ष्या हि भारत ॥
यो ह्यमित्रैर्नरैर्नित्यं न संदध्यादपण्डितः ।
न सोर्थं प्राप्नुयात्किंचित्फलान्यपि च भारत ॥
यस्त्वमित्रेण संधत्ते मित्रेण च विरुध्यते ।
अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मार्जारस्य च संवादं न्यग्रोधे मूषिकस्य च ॥
वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत् ।
लताजालपरिच्छन्नो नानाद्विजगणायुतः ॥
स्कन्धवान्मेघसंकाशः शीतच्छायो मनोरमः ।
अरण्यमभितो जातस्तरुर्व्यालमृगायुतः ॥
तस्य मूलमुपाश्रित्य कृत्वा शतमुखं बिलम् ।
वसति स्म महाप्राज्ञः पलितो नाम मूषिकः ॥
शाखां तस्य समाश्रित्य वसति स्म सुखं तदा ।
लोमशो नाम मार्जारः सर्वसत्वावसादकः ॥
तत्र त्वागत्य चण्डालो ह्यरण्यकृतकेतनः ।
युयोज यन्त्रमुन्माथं नित्यमस्तंगते रवौ ॥
तत्र स्नायुमयान्पाशान्यथावत्संविधाय सः ।
गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् ॥
तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः ।
कदाचिदत्र मार्जारः संप्रवृत्तो व्यबध्यत ॥
तस्मिन्बद्धे महाप्राणे शत्रौ नित्याततायिनि ।
तं कालं पलितो ज्ञात्वा प्रचचार सुनिर्भयः ॥
तेनानुचरता तस्मिन्वते विश्वस्तचारिणा ।
भक्ष्यं मृगयमाणे नचिराद्दृष्टमामिषम् ॥
स तमुन्माथमारुह्य तदामिषमभक्षयत् ।
तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् ॥
आमिषे तु प्रसक्तः स कदाचितवलोकयन् ।
अपश्यदपरं घोरमात्मनो रिपुमागतम् ॥
शरप्रसूनसंकाशं महीविवरशायिनम् ।
सकुलं हरिकं नाम चपलं ताम्रलोचनम् ॥
तन मूषिकगन्धेन त्वरमाण उपागतम् ।
सक्ष्यार्थं लेलिहन्वक्रं भूमावूर्ध्वमुखः स्थितः ॥
--ाखागतमरिं चान्यमपश्यत्कोटरालयम् ।
सूलकं चन्द्रकं नाम वक्रतुण्डं दुरासदम् ॥
पतस्य विषयं तस्य नकुलोलूकयोस्तथा ।
यथास्यासीदियं चिन्ता तत्प्राप्तस्य महद्भयम् ॥
पपद्यस्यां सुकष्टायां मरणे समुपस्थिते ।
मन्ताद्भय उत्पन्ने कथं कार्यं मनीषिणा ॥
तथा सर्वतो रुद्धः सर्वत्र भयकर्शितः ।
भवद्भयसंत्रस्तश्चक्रे च परमां मतिम् ॥
आपद्विनाशभूयिष्ठं शङ्कनीयं हि जीवितम् ।
मन्तात्संशयः सोऽयं तस्मादापदुपस्थिता ॥
गतं हि सहसा भूमिं नकुलो मामवाप्नुयात् ।
उलूकश्चेह तिष्ठन्तं मार्जारः पाशसंक्षयात् ॥
न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुमर्हति ।
रिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहात् ॥
न हि बुद्ध्याऽन्वितः प्राज्ञो नीतिशास्त्रविशारदः ।
निमज्जत्यापदं प्राप्य महतोऽर्थानवाप्य ह ॥
न त्वन्यामिह मार्जाराद्गतिं पश्यामि सांप्रतम् ।
विषमस्थो ह्ययं शत्रुः कृत्यं चास्य महन्मया ॥
जीवितार्थी कथं त्वद्य शत्रुभिः प्रार्थितस्त्रिभिः ।
प्राणहेतोरिमं मित्रं मार्जारं संश्रयामि वै ॥
नीतिशास्त्रं समाश्रित्य हितमस्योपवर्णये ।
येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये ॥
अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः ।
मूढो ग्राहयितुं स्वार्थं संगत्या यदि शक्यते ॥
कदाजिद्व्यसनं प्राप्य संधिं कुर्यान्मया सह ॥
बलिना सन्निकृष्टस्य शत्रोरपि परिग्रहः ।
कार्य इत्याहुराचार्या विषमे जीवितार्थिना ॥
श्रेष्ठो हि पण्डितः शत्रुर्न च मित्रमपण्डितः ।
अमित्रे खलु मार्जारे जीवितं संप्रतिष्ठितम् ॥
ततोऽस्मै संप्रवक्ष्यामि हेतुमात्माभिरक्षणे ।
अपीजानीमयं शत्रुः संगत्या पण्डितो भवेत् ॥
एवं विचिन्तयामास मूषिकः शत्रुचेष्टितम् ॥
ततोऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित् ।
सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषिकोऽब्रवीत् ॥
सौहृदेनाभिभाषे त्वां कच्चिन्मार्जार जीवसे ।
जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ ॥
न ते सौम्य भयं कार्यं जीविष्यसि यथा पुरा ।
अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते ॥
अस्ति कश्चिदुपायोऽत्र पुष्कल प्रतिभाति मे ।
येन शक्यस्त्वया मोक्षः प्राप्नुं श्रेयस्तथा मया ॥
मयाऽप्युपायो दृष्टोऽयं विचार्य मतिमात्मनः ।
आत्मार्थं च त्वदर्थं च श्रेयः साधारणां हि नौ ॥
इदं हि नकुलोलूकं पापबुद्ध्या हि संस्थितम् ।
न धर्षयति मार्जार तेन ते स्वस्ति सांप्रतम् ॥
कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते ।
नगशाखाग्रगः पापस्तस्याहं भृशमुद्विजे ॥
सतां साप्तपदं मैत्रं स सखा मेऽसि पण्डितः ।
साहाय्यकं करिष्यामि नास्ति ते प्राणतो भयम् ॥
न हि शक्तोऽसि मार्जार पाशं छेत्तुं मया विना ।
अहं छेत्स्यामि पाशांस्ते यदि मां त्वं न हिंससि ॥
त्वमाश्रितो द्रुमस्याग्रं मूलं त्वहमुपाश्रितः ।
चिरोषितावुभावावां वृक्षेऽस्मिन्विदितं च ते ॥
यस्मिन्नाश्वासते कश्चिद्यश्च नाश्वसिति क्वचित् ।
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्रमानसौ ॥
तस्माद्विवर्धतां प्रीतिर्नित्यं संगतमस्तु नौ ।
कालातीतमिहार्थं हि न प्रशंसन्ति पण्डिताः ॥
अर्थयुक्तिमिमां तत्र यथाभूतां निशामय ।
तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम् ॥
कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् ।
स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥
ईदृशो नौ क्रियायोगो भविष्यति सुविस्तरः ।
अहं त्वां तारयिष्यामि मां च त्वं तारयिष्यसि ॥
एवमुक्त्वा तु पलितस्तमर्थमुभयोर्हितम् ।
हेतुमद्ग्रहणीयं च कालापेक्षी व्यतिष्ठत ॥
अथ सुव्याहृतं श्रुत्वा तस्य शत्रोर्विचक्षणः ।
हेतुमद््ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत् ॥
बुद्धिमान्वाक्यसंपन्नस्तद्वाक्यमनुवर्तयन् ।
स्वामवस्थां प्रतीक्ष्यैनं साम्नैव प्रत्यपूजयत् ॥
ततस्तीक्ष्णाग्रदशनो मणिवैदूर्यलोचनः ।
मूषिकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रबीत् ॥
नन्दामि सौम्य भद्रं ते यो मां जीवितुमिच्छसि ।
श्रेयश्च यदि जानीषे क्रियतां मा विचारय ॥
अहं हि भृशमापन्नस्त्वमापन्नतरो मया ।
द्वयोरापन्नयोः सन्धिः क्रियतां मा चिराय च ॥
विधत्स्व प्राप्तकालं यत्कार्थं सिध्यतु चावयोः ।
मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् ॥
न्यस्तमानोस्मि भक्तोस्मि शिष्यस्त्वद्धितकृत्तथा ।
तथा निदेशवर्ती च भवन्तं शरणं गतः ॥
इत्येवमुक्तः पलितो मार्जारं वशमागतम् ।
वाक्यं हितमुवाचेदमभिजातार्थमर्थवित् ॥
उदारं यद्भवानाह नैतच्चित्रं भवद्विधे ।
विहितो यस्तु मार्गो मे हितार्थं शृणु तं मम ॥
अहं त्वाऽनुप्रवेक्ष्यामि नकुलान्मे महद्भयम् ।
त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव रक्षणे ॥
उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् ।
अहं छेत्स्यामि ते पाशान्सखे सत्येने ते शपे ॥
तद्वचः संगतं श्रुत्वा लोमशो युक्तमर्थवत् ।
हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् ॥
तं संपूज्याथ पलितं मार्जारः सौहृदे स्थितम् ।
स विचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव च ॥
क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा ।
तव प्राज्ञप्रसादाद्धि प्रियं प्राप्स्यामि जीवितम् ॥
यद्यदेवंगतेनाद्य शक्यं कर्तुं मया तव ।
तदाज्ञापस्य कर्तास्मि सिद्धिरेवास्तु नौ सखे ॥
अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः ।
सर्वकार्याणि कर्ताऽहं प्रियाणि च हितानि च ॥
मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते ।
प्रीतिमुत्पादयेयं न प्रतिकर्तुं च शक्नुयाम् ॥
प्रत्युपकुर्वन्बह्वपि न भाति पूर्वोपकारिणा तुल्यः ।
एकः करोति हि कृते निष्कारणमेव कुरुतेऽन्यः ॥
भीष्म उवाच ।
एवमाश्वासितो बिद्वान्मार्जारेण स मूषिकः ।
प्रविवेश सुविस्रब्धः सम्यगङ्गीचकार ह ॥
ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषिकस्तथा ।
मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् ॥
निलीनं तस्य गात्रेषु मार्जारस्याथ मूषिकम् ।
दृष्ट्वा तौ नकुलोलूकौ निराशौ प्रत्यपद्यताम् ॥
तथैव तौ सुसंत्रस्तौ दृढमागततन्द्रितौ ।
दृष्ट्वा तयोः परां प्रीतिं विस्मयं परमं गतौ ॥
बलिनौ मतिमन्तौ च सुवृत्तौ चाप्युपासितौ ।
अशक्तौ तु नयात्तस्मात्संप्रधर्षयितुं बलात् ॥
कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ ।
उलूकनकुलौ तूर्णं जग्मतुस्तौ स्वमालयम् ॥
लीनः स तस्य गात्रेषु पलितो देशकालवित् ।
चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः ॥
अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषिकम् ।
छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः ॥
तमत्वरन्तं पलितं पाशानां छेदने तदा ।
संचोदयितुमारेभे मार्जारो मूषिकं ततः ॥
किं सौम्य नातित्वरसे किं कृतार्थोऽवमन्यसे ।
छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः ॥
इत्युक्तस्त्वरताऽनेन मतिमान्पलितोऽब्रवीत् ।
मार्जारमकृतप्रज्ञं तथ्यमात्महितं वचः ॥
तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः ।
वयमेवात्र कालज्ञा न कालः परिहास्यते ॥
अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते ।
तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥
अकाले विप्रमुक्तान्मे त्वत्त एव भयं भवेत् ।
तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे ॥
यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम् ।
ततश्छेत्स्यामि ते पाशान्प्राप्ते साधारणे भये ॥
तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोक्ष्यसे ।
न हि ते जीवितादन्यत्किंचित्कृत्यं भविष्यति ॥
तस्मिन्कालेऽपि च तता दिवाकीर्तिभयार्दितः । मम न ग्रहणे शक्तः पलायनपरायणः ॥'
ततो भवत्यपक्रान्ते त्रस्ते भीते च लुब्धकात् ।
अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति ॥
एवमुक्तस्तु मार्जारो मूषिकेणात्मनो हितम् ।
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः ॥
अथात्मकृत्ये त्वरितः सम्यक्प्रार्थितमाचरन् ।
उवाच लोमशो वाक्यं मूषिकं चिरकारिणाम् ॥
नह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः ॥
यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया । तथा हि त्वरमाणेन त्वया कार्यमिदं मम ।
यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत् ॥
अथवा पूर्ववैरं त्वं स्मरन्कालं जिहीर्षसि ।
पश्य दुष्कृतकर्मंस्त्वं व्यक्तमायुःक्षयो मम ॥
यदि किंचिन्मयाऽज्ञानात्पुरस्ताद्दुष्कृतं कृतम् ।
न तन्मनसि कर्तव्यं क्षामये त्वां प्रसीद मे ॥
तमेवंवादिनं प्राज्ञं शास्त्रविद्बुद्धिसत्तमः ।
उवाचेदं वचः श्रेष्ठं मार्जारं मूषिकस्तदा ॥
श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः ।
ममापि त्वं विजानासि स्वमर्थं परिगृह्णतः ॥
यन्मित्रं भीतवत्साध्यं यस्मिन्मित्रे भयं हितम् ।
आरक्षितं ततः कार्यं पाणिः सर्पमुखादिव ॥
कृत्वा बलवता संधिमात्मानं यो न रक्षति ।
अपथ्यमिव तद्भुक्तं तस्यार्थाय कल्पते ॥
कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ।
अर्थतस्तु निबध्यन्ते मित्राणि रिपवस्तथा ॥
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः । न च कश्चित्कृते कार्ये कर्तारं समवेक्षते ।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥
तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयार्दितः ।
मम न ग्रहणे शक्तः पलायपरायणः ॥
छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः ।
छेत्स्याम्यहं तमप्याशु निर्वृतो भव लोमश ॥
तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः ।
क्षयं जगाम सा रात्रिर्लोमशं त्वागमद्भयम् ॥
ततः प्रभातसमये विकटः कृष्णपिङ्गलः ।
स्थूलस्फिग्विकृतो रूक्षः श्वयूथपरिवारितः ॥
शङ्कुकर्णो महावक्रः खनित्री घोरदर्शनः ।
परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत ॥
तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः ।
उवाच पलितं भीतः किमिदानीं करिष्यसि ॥
तथैव च सुसंत्रस्तौ तं दृष्ट्वा घोरसंकुलम् ।
क्षणेन नकुलोलूकौ नैराश्यमुपजग्मतुः ॥
बलिनौ मतिमन्तौ च संघातं चाप्युपागतौ ।
अशक्तौ सुनयात्तस्मात्संप्रधर्षयितुं बलात् ॥
कार्यार्थे कृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ ।
उलूकनकुलौ तूर्णं जग्मतुः स्वंस्वमालयम् ॥
ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषिकः ।
विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्दुमम् ॥
स तस्मात्संभ्रमान्मुक्तो मुक्तो घोरेण सत्रुणा ।
बिलं विवेश पलितः शाखां लेभे स लोमशः ॥
उन्माथमप्युपादाय चण्डालो वीक्ष्य सर्वशः । विहताशः क्षणेनैव तस्माद्देशादपाक्रमत् ।
जगाम स स्वभवनं चण्डालो भरतर्षभ ॥
ततस्तस्माद्भान्मुक्तो दुर्लभं प्राप्य जीवितम् ।
बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् ॥
अकृत्वा संविदं कांचित्सहसा त्वमपस्रुतः ।
कृतज्ञः कृतकल्याणः कच्चिन्मां नाभिशङ्कसे ॥
गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् ।
मित्रोपभोगसमये किं हि मां नोपसर्पसि ॥
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति ।
न स मित्राणि लभते कृच्छ्रात्स्वापत्सु दुर्मतिः ॥
सत्कृतोऽहं त्वया मित्र सामर्थ्यादात्मानः सखे ।
स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि ॥
यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः ।
सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् ॥
अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् ।
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् ॥
ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च ।
अर्थानां चैव सर्वेषामनुशास्ता च मे भव ॥
अमात्यो मे भव प्राज्ञ पितेवेह प्रशाधि माम् ।
न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे ॥
बुद्ध्या त्वमुशना साक्षाद्बलेनाधिकृता वयम् ।
त्वं मन्त्रबलयुक्तो हि दद्या विजयमेव मे ॥
एवमुक्तः परं सान्त्वं मार्जारेण स मूषिकः ।
उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः ॥
यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम् ।
ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति मे ॥
वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः ।
एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसंमतैः ॥
शत्रुरूपा हि सुहृदो मित्ररूपाश्च शत्रवः ।
सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः ॥
येषां सौम्यानि मित्राणि क्रोधनाश्चैव शत्रवः ।
सान्त्वितास्ते न बुध्यन्ते रागलोभवशंगताः ॥
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥
यो यस्मिञ्जीवति स्वार्थे पश्येत्पीडां न जीवति ।
स तस्य मित्रं तावत्स्यःद्यावन्न स्याद्विपर्ययः ॥
नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम् ।
अर्थयुक्त्याऽनुजायन्ते मित्राणि रिपवस्तथा ॥
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये ।
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः ॥
यो विश्वसिति मित्रेषु न विश्वसिति शत्रुषु ।
अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम् ॥
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः । न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नमपि मूलानि कृन्तति ॥
अर्थयुक्त्या हि जायन्ते पिता माता सुतस्तथा ।
मातुला भागिनेयाश्च तथा संबन्धिबान्धवाः ॥
पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम् ।
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ॥
सामान्या निष्कृतिः प्राज्ञ यो मोक्षात्समन्तरम् ।
कृत्यं मृगयते कर्तुं सुखोपायमसंशयम् ॥
अस्मिन्निलय एवं त्वं न्यग्रोधादवतारितः ।
पूर्वं निविष्टमुन्माथं चपलन्वान्न बुद्धवान् ॥
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ।
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥
ब्रवीषि मधुरं यच्च प्रियो मेऽद्य भवानिति ।
तन्मिथ्याकारणं सर्वं विस्तरेणापि मे शृणु ॥
कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ॥
सख्यं सोदर्ययोर्भ्रात्रोदर्पंत्योर्वा परस्परम् ।
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह ॥
यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे ।
स्वभावतस्ते प्रीयन्ते नेतरः प्राकृतो जनः ॥
प्रियो भवति दानेन प्रियवादेन चापरः ।
मन्त्रहोमजपैरन्यः कार्यार्थे प्रीयते जनः ॥
उत्पन्ना कारणात्प्रीतिरासीन्नौ कारणान्तरे ।
प्रध्वस्ते कारणस्थाने सा प्रीतिर्नाभिवर्तते ॥
किंनु तत्कारणं मन्ये येनाहं भवतः प्रियः ।
अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम् ॥
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते । स्वार्धं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ।
न त्वीदृशं त्वया वाच्यं विद्यते स्वार्थपण्डितः ॥
न कालो हि समर्थस्य स्नेहहेतुरयं तव ।
तस्मान्नाहं चले स्वार्थात्सुस्थितः संधिविग्रहे ॥
अभ्राणामिव रुपाणि विकुर्वन्ति पदेपदे । अद्यैव हि रिपुर्भूत्वा पुनरद्यैव मे सुहृत् ।
पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम् ॥
आसीन्मैत्री तु तावन्नौ यावद्धेतुरभूत्पुरा ।
सागता सह तेनैव कालयुक्तेन हेतुना ॥
त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः ।
तत्कृत्यमभिनिर्वर्त्य प्रकृतिः शत्रुतां गता ॥
सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः ।
प्राविशेयं कथं पाशं त्वत्कृते तद्ब्रवीहि मे ॥
त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान् ।
अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः ॥
त्वं हि सौम्य कृतार्थोऽद्य निवृत्तार्थास्तथा वयम् ।
न तेऽस्त्यद्य मया कृत्यं किंचिदन्यत्र भक्षणात् ॥
अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली ।
नावयोर्विद्यते संधिर्वियुक्ते विषमे बले ॥
स मन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम् ।
भक्ष्यं मृगयते नूनं सुखोपायमसंशयम् ॥
--र्थी ह्येव सुव्यक्तो विमुक्तः प्रसृतः क्षुधा ।
शास्त्रजां मतिमास्थाय प्रातराशमिहेच्छसि ॥
जानामि क्षुधितं च त्वामाहारसमयश्च ते ।
स त्वं मामभिसंधाय भक्ष्यं मृगयसे पुनः ॥
किंचात्र पुत्रदारार्थं यद्वाणीं सृजसे मयि ।
शुश्रूषां यतसे कर्तुं सखे मम तत्क्षमम् ॥
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये ।
कस्मात्ते मां न खादेयुः स्पृष्टवा प्रणयिनि त्वयि ॥
नाहं त्वया समेष्यामि वृत्ते हेतुसमागमे ।
शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मरसे यदि ॥
शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च ।
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् ॥
स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे । [विश्वस्तं वा प्रमत्तं वा एतदेव कृतं भवेत् ॥]
नाहं त्वया समेष्यामि निवृत्तो भव लोमश ।
बलवत्सन्निकर्षो हि न कदाचित्प्रशस्यते ॥
यदि त्वं सुकृतं वेत्सि तत्सख्यमनुसारय ।
प्रशान्तादपि हि प्राज्ञाद्भेतव्यं बलिनः सदा ॥
यदि त्वर्थेन ते कार्यं ब्रूहि किं करवाणि ते ।
कामं सर्वं प्रदास्यामि न त्वात्मानं कथंचन ॥
आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनानि च ।
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मवान् ॥
ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि वर्तताम् ।
दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् ॥
न त्वात्मनः संप्रदानं धनरत्नवदिष्यते ।
आत्मा हि सर्वदा रक्ष्यो दारैरपि धनैरपि ॥
आत्मरक्षणतन्त्राणां सुपरीक्षितकारिणाम् ।
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ॥
शत्रुं सम्यगविज्ञातो विप्रियो ह्यबलीयसा ।
`शङ्कनीयः स सर्वत्र प्रियमप्याचरन्सदा ॥
कुलजानां सुमित्राणां धार्मिकाणां महात्मनाम् ।' न तेषां चाल्यते बुद्धिः शास्त्रार्थकृतिश्चया ॥
इत्यभिव्यक्तमेवासौ पलितेनापहासितः ।
मार्जारो व्रीडितो भूत्वा मूषिकं वाक्यमब्रवीत् ॥
सत्यं शपे त्वयाऽहं वै मित्रद्रोहो विगर्हितः ।
संमन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः ॥
उक्तवानर्थतत्त्वेन मया संभिन्नदर्शनः ।
न तु मामन्यथा साधो त्वं ग्रहीतुमिहार्हसि ॥
प्राणप्रदानजं त्वत्तो मयि सौहृदमागतम् ।
धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोस्मि विशेषतः ॥
मित्रेषु वत्सलश्चास्मि त्वद्भक्तश्च विशेषतः ।
त्वं मामेवंगते साधो न वाचयितुमर्हसि ॥
त्वया हि वाच्यमानोऽहं जह्यां प्राणान्सबान्धवः । धिक्शब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु ।
पतनं धर्मतत्त्वज्ञ न मे शङ्कितुमर्हसि ॥
इति संस्तूयमानोऽपि मार्जारेण स मूषिकः ।
मनसा भावगम्भीरं मार्जारमिदमब्रवीत् ॥
साधुर्भवान्कृतार्थोऽस्मि प्रिये च न च विश्वसे ।
संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया ॥
न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे ।
अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते ॥
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा ।
समाहितश्चरेद्बुद्ध्या कृतार्थश्च न विश्वसेत् ॥
न विश्वसेदवश्वस्ते विश्वस्ते नातिविश्चसेत् ।
नित्यं विश्वासयेदन्यान्परेषां तु न विश्वसेत् ॥
तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः ।
द्रव्याणि संततिश्चैव सर्वं भवति जीवताम् ॥
संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः ।
नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः ॥
वध्यन्ते न ह्यविश्वस्ताः शत्रुर्भिर्दुर्बला अपि ।
विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि शत्रुभिः ॥
त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा ।
रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात् ॥
स तस्य ब्रुवतस्त्वेवं संत्रासाज्जातसाध्वसः ।
कथां हित्वा जवेनाशु मार्जारः प्रययौ ततः ॥
ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः ।
विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह ॥
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः ।
एकेन बहवोऽमित्राः पलितेनाभिसंधिताः ॥
अरिणापि समर्थेन सन्धिं कुर्वीत पण्डितः ।
मूषिकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् ॥
इत्येवं क्षत्रधर्मस्य मया मार्गो निदर्शितः ।
विस्तरेण महाराज संक्षेपमपि मे शृणु ॥
अन्योन्यं कृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम् ।
अन्योन्यमभिसंधातुं संबभूव तयोर्मतिः ॥
तत्र प्राज्ञोऽभिसंधत्ते सम्यग्बुद्धिबलाश्रयात् ।
अभिसंधीयते प्राज्ञः प्रमादादपि वा बुधैः ॥
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसेत् ।
न ह्यप्रमत्तश्चलति चलितोऽवा न नश्यति ॥
काले हि रिपुणा संधिः काले मित्रेण विग्रहः ।
कार्य इत्येव तत्वज्ञाः प्राहुर्नित्यं नराधिप ॥
एतज्ज्ञात्वा महाराज शास्त्रार्थमभिगम्य च ।
अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत् ॥
भीतवत्संहितः कार्यः प्रतिसंधिस्तथैव च ।
भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा ॥
न भयं जायते राजन्भीतस्यानागते भये ।
अभीतस्य च विस्रम्भात्सुमहज्जायते भयम् ॥
न भीरुरिति चात्यन्तं मन्त्रो देयः कथंचन ।
अविज्ञानाद्धि विज्ञाने गच्छेदास्पददर्शनाम् ॥
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् ।
कार्याणां गुरुतां ज्ञात्वा नादृतं किंचिदाचरेत् ॥
एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर ।
श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुदाचर ॥
उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा ।
संधिविग्रहकालौ च मोक्षोपायं तथाऽऽपदि ॥
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा ।
समागतश्चरेद्बुद्ध्या कृतार्थो न च विश्वसेत् ॥
अविरुद्धां त्रिवर्गेण नीतिमेतां महीपते ।
अभ्युत्तिष्ठ श्रुतात्तस्माद्भूयः संरञ्जयन्प्रजाः ॥
ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव ।
ब्राह्मणाद्धि परं श्रेयो दिवि चेह च भारत ॥
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो ।
पूजिताः शुभकर्तारः पूजयैनाञ्जाधिप ॥
राज्यं श्रेयः परं राजन्यशश्च महदाप्स्यसे ।
कुलस्य संततिं चैव यथान्यायं यथाक्रमम् ॥
श्रुतं च ते भारत संधिविग्रहं विभावितं बुद्धिविशेषकारितम् ।
तथा त्ववेक्ष्य क्षितिपेन सर्वदा निषेवितव्यं नृप शत्रुमण्डलम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥

12-138-5 उद्धर्तुमुन्मूलयितुम् ॥ 12-138-6 सर्वतः सर्वदिक्स्थैः प्रार्थ्यमानेन प्रसितुमिति शेषः ॥ 12-138-9 प्राकृतकृत्रिममित्रयोर्मध्ये केन सन्धिः कर्तव्यः केन वा वैरम् ॥ 12-138-18 व्यवस्य निश्चित्य अत्र पूर्वश्लोकोक्तेऽर्थे ॥ 12-138-20 वैराज्यमभिते जात इति ट. ड. थ. द. पाठः ॥ 12-138-23 उन्माथं कूटयन्त्रं पशुमृगपक्षिबन्धनम् ॥ 12-138-26 पलितो मूषिकः ॥ 12-138-28 तदामिषं तस्य उन्माथे धृतमामिषम् । सपत्नस्य सपत्नं बद्धं अनादृत्य ॥ 12-138-30 शरस्तृणविशेष स्तत्प्रसूनं पुष्पम् ॥ 12-138-51 यदि मां न जिघांससि इति झ. द. पाठः ॥ 12-138-105 स्मरन्कालं चिकीर्षसीति थ. द. पाठः ॥ 12-138-160 पुनरद्यैव सौहृदमिति थ. द. ध. पाठः ॥