अध्यायः 011

अर्जुनेन युधिष्ठिरंप्रति गार्हस्थ्यस्य श्रैष्ठ्योपपादनम् ॥ 1 ॥

अर्जुन उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
तापसैः सह संवादं शक्रस्य भरतर्षभ ॥
`शक्यं पुनररण्येषु सुखमेतेन जीवितुम् ।' केचिद्गृहान्परित्यज्य वनमभ्यागमन्द्विजाः ।
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ॥
धर्मोऽयमिति मन्वानाः समृद्धा धर्मचारिणः ।
त्यक्त्वा भ्रातॄन्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत ॥
स तान्बभाषे मघवान्पक्षीभूत्वा हिरण्मयः ।
सुदुष्करं मनुष्यैस्तु यत्कृतं विघसाशिभिः ॥
पुण्यं भवति कर्मैषां प्रशस्तं चैव जीवितम् ।
सिद्धार्थास्ते गतिं मुख्यां प्राप्ताः कर्मपरायणाः ॥
ऋषय ऊचुः ।
अहो बतायं शकुनिर्विघसाशान्प्रशंसति ।
अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ॥
शकुनिरुवाच ।
नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् ।
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ॥
ऋषय ऊचुः ।
इदं श्रेयः परमिति वयमेवममंस्महि ।
शकुने ब्रूहि यच्छ्रेयो वयं ते श्रद्दधामहे ॥
शकुनिरुवाच ।
यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना ।
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ॥
ऋषय ऊचुः ।
शृणुमस्ते वचस्तात पन्थानो विदितास्तव ।
नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ॥
शकुनिरुवाच ।
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् ।
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ॥
मन्त्रोऽयं जातकर्मादिर्ब्राह्मणस्य विधीयते ।
जीवतोऽपि यथाकालं श्मशाननिधनान्तकः ॥
कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः । अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ।
आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते ॥
मासार्धमासा ऋतव आदित्यशशितारकम् ।
ग्रसन्ते कर्म भूतानि तदिदं कर्मशंसिनाम् ॥
सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ॥
अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः ।
मूढानामर्थहीनानां तेषामेनस्तु विद्यते ॥
देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्चतान् ।
संत्यज्य मूढा वर्तन्ते ततो यान्त्यशुचीन्पथः ॥
एतद्वोऽस्तु तपोयुक्तं ददामीत्यृषिचोदितम् ।
तस्मात्तदध्यावसतस्तपस्वित्वमिहोच्यते ॥
देववंशान्ब्रह्मवंशान्पितृवंशांश्च शाश्वतान् ।
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ॥
देवा वै दुष्करं कृत्वा विभूतिं परमां गताः ।
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ॥
तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः ।
कुटुम्वविधिनाऽनेन यस्मिन्सर्वं प्रतिष्ठितम् ॥
एतद्विदुस्तपो विप्रा द्वन्द्वातीता विमत्सराः ।
एतस्माद्वनमध्ये तु लोकेषु तप उच्यते ॥
दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः ।
सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ॥
दत्त्वाऽतिथिभ्यो देवेभ्यः पितृभ्यः स्वजनाय च ।
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ॥
तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः ।
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ॥
त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः ।
वसन्ति शाश्वतान्वर्षाञ्जना दुष्करकारिणः ॥
अर्जुन उवाच ।
ततस्ते तद्वचः श्रुत्वा धर्मार्थसहितं हितम् ।
उत्सृज्य नास्तिकमतिं गार्हस्थ्यं धर्ममाश्रिताः ॥
तस्मात्त्वमपि सर्वज्ञ धैर्यमालम्ब्य शाश्वतम् ।
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकादशोऽध्यायः ॥ 11 ॥

12-11-4 विघसाशिभिः महायज्ञावशिष्टभोजिभिः ॥ 12-11-6 शास्ति ज्ञापयति । विघसं शीर्णतृणपर्णफलादिकं तददनशीलास्तु वयमेवातो विघसाशिनिः श्रेयांसः स्म इति मेनिरे इत्यर्थः ॥ 12-11-7 पङ्कदिग्धान्रजस्वलानित्यागन्तुकस्वाभाविकदोषयुक्तत्वमुक्तं क्रमेण । उच्छिष्ठभोजिन इति । प्रायेण शीर्णतृणमर्णफलानि मृगकीटपक्ष्युच्छिष्टानि भवन्ति तद्भोजिनः ॥ 12-11-8 ते तव वच इति शेषः ॥ 12-11-10 पन्थानः श्रेयोमार्गाः ॥ 12-11-12 मन्त्रो मन्त्रोक्तसंस्कारः ॥ 12-11-15 ईहन्ते सर्वभूतानि तदिदं कर्मसंज्ञितमिति झ. पाठः ॥ 12-11-22 एतस्मात् गार्हस्थ्यात् अनन्तरं वनमध्ये तप उच्यत इत्यन्वयः ॥ 12-11-25 अनुपस्कृताः निःसंशयाः ॥