अध्यायः 205

भीष्मेण युधिष्ठिरंप्रति निबन्धनेन स्वमातरंप्रति अरण्यत्वेन रूपितस्य संसारचक्रस्य विवरणम् ॥ 1 ॥ तथा नारदसावित्रीसंवादः ॥ 2 ॥ नारदेन तपसा श्रीभगवदपरोक्षीकरणम् ॥ 3 ॥

* युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ दुःखशोकसमाकुले ।
संसारचक्रे लोकानां निर्वेदो नास्ति किंन्विदम् ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निबन्धनस्य संवादं भोगवत्या नृपोत्तम ॥
मुनिं निबन्धनं शुष्कं धमनीयाकृतिं तथा । निरारम्भं निरालम्बमसज्जन्तं च कर्मणि ।
पुत्रं दृष्ट्वाऽप्युवाचार्तं माता भोगवती तदा ॥
उत्तिष्ठ मूढ किं शेषे निरपेक्षः सुहृज्जनैः ।
निरालम्बो धनोपाये पैतृकं तव किं धनम् ॥
निबन्धन उवाच ।
पैतृकं मे महन्मातः सर्वदुःखालयं त्विह ।
अस्त्येतत्तद्विधाताय यतिष्ये तत्र मा शुचः ॥
इदं शरीरमत्युग्रं पित्रा दत्तमसंशयम् ।
तमेव पितरं गत्वा धनं तिष्ठति शाश्वतम् ॥
कश्चिन्महति संसारे वर्तमान--- ।
वनदुगमभिप्राप्तो महत्क्रव्या----- ॥
सिंहव्याघ्रगजाकारैरतिघोरैर्महा----- ।
समन्तात्सुपरिक्षिप्तं स दृष्ट्वा व्यथते पुमान् ॥
स तद्वनं ह्यनुचरन्विप्रधावन्नितस्ततः ।
वीक्षमाणो दिशः सर्वाः शरणार्थं प्रधावति ॥
अथापश्यद्वनं रूढं समन्ताद्वागुरावृतम् ।
वनमध्ये च तत्रासीदुदपानः समावृतः ॥
वल्लिभिस्तृणसंछिन्नैर्गूढाभिरभिसंवृतः ।
स पपात द्विजस्तत्र विजने सलिलाशये ॥
विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कुले ।
बाहुभ्यां संपरिष्वक्तस्तया परमसत्वया ॥
स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधश्शिराः ।
अधस्तत्रैव जातश्च जम्बूवृक्षः सुदुस्तरः ॥
कूपस्य तस्य वेलाया अपश्यत्सुमहाफलम् ।
वृक्षं बहुविधं व्योमं वल्लीपुष्पसमाकुलम् ॥
नानारूपा मधुकरास्तस्मिन्वुक्षऽभवन्किल ।
तेषां मधूनां बहुधा धारा प्रववृते तदा ॥
विलम्बमानः स पुमान्धारां पिबति सर्वदा ।
न तस्य तृष्णा विरता पीयमानस्य संकटे ॥
परीप्सति च तां नित्यमतृप्तः स पुनः पुनः ।
एवं स वसते तत्र दुःखिदुःखी पुनः पुनः ॥
मया तु तद्धनं देयं तव दास्यामि चेच्छसि ।
तस्य च प्रार्थितः सोथ दत्वा मुक्तिमवाप सः ॥
सा च त्यक्त्वाऽर्थसंकल्पं जगाम परमां गतिम् ॥
एवं संसारचक्रस्य स्वरूपज्ञा नृपोत्तम ।
परं वैराग्यमागम्य गच्छन्ति परमं पदम् ॥
युधिष्ठिर उवाच ।
एवं संसारचक्रस्य स्वरूपं विदितं न मे ।
पैतृकं तु धनं प्रोक्तं किं तद्विद्वन्महात्मना ॥
कान्तारमिति किं प्रोक्तं को हस्ती स तु कूपकः ।
किंसंज्ञिको महावृक्षो मधु वाऽपि पितामह ॥
एवं मे संशयं विद्धि धनशब्दं किमुच्यते ।
कथं लब्धं धनं तेन तथा च किमिदं त्विह ॥
भीष्म उवाच ।
उपाख्यानमिदं सर्वं मोक्षविद्भिरुदाहृतम् ।
सुमतिं विन्दते येन बन्धनाशश्च भारत ॥
एतदुक्तं हि कान्तारं महान्संसार एव सः ।
ये ते प्रतिष्ठिता व्याला व्याधयस्ते प्रकीर्तिताः ॥
या सा नारी महाघोरा वर्णरूपविनाशिनी ।
तामाहुश्च जरां प्राज्ञाः परिष्वक्तं यया जगत् ॥
यस्तत्र कूपे वसते महाहिः काल एव सः ।
यो वृक्षः स च मृत्युर्हि स्वकृतं तस्य तत्फलम् ॥
ये तु कृष्णाः सिता राजन्मूषिका रात्र्यहानि वै ॥
द्विषट्कपदसंयुक्तो यो हस्ती षण्मुखाकृतिः ।
स च संवत्सरः प्रोक्तः पाशमासर्तवो मुखाः ॥
एतत्संसारचक्रस्य स्वरूपं व्याहृतं मया ।
एवं लब्धधनं राजंस्तत्स्वरूपं विनाशय ॥
एतज्ज्ञात्वा तु सा राजन्परं वैराग्यमास्थिता ।
यथोक्तविधिना भूयः परं पदमवाप सः ॥
धत्ते धारयते चैव एतस्मात्कारणाद्धनम् ।
तद्गच्छ चामृतं शुद्धं हिरण्यममृतं तपः ॥
तत्स्वरूपो महादेवः कृष्णो देवकिनन्दनः ।
तस्य प्रसादाद्दुःखस्य नाशं प्राप्स्यसि मानद ॥
एकः कर्ता स कृष्णश्च ज्ञानिनां परमा गतिः ॥
इदमाश्रित्य देवेन्द्रो देवा रुद्रास्तथाऽश्विनौ ।
स्वेस्वे पदे विविशिरे भुक्तिमुक्तिविदो जनाः ॥
भूतानामन्तरात्माऽसौ स नित्यपदसंवृतः ।
श्रूयतामस्य सद्भावः सम्यग्ज्ञानं यथा तव ॥
भवेदेतन्निबोध त्वं नारदाय पुरा हरिः ।
दर्शयित्वाऽऽत्मनो रूपं यदवोचत्स्वयं विभुः ॥
पुरा देवऋषिः श्रीमान्नारदः परमार्थवान् ।
चचार पृथिवीं कृत्स्नां तीर्थान्यनुचरन्प्रभुः ॥
हिमवत्पादमाश्रित्य विचार्य च पुनःपुनः ।
स ददर्श ह्रदं तत्र पद्मोत्पलसमाकुलम् ॥
ददर्श कन्यां तत्तीरे सर्वाभरणभूषिताम् ।
शोभमानां श्रिया राजन्क्रीडन्तीमुत्पलैस्तथा ॥
सा महात्मानमालोक्य नारदेत्याह भामिनी ।
तस्याः समीपमासाद्य तस्थौ विस्मितमानसः ॥
वीक्षमाणं तमाज्ञाय सा कन्या चारुवासिनी ।
विजजृम्भे महाभागा स्मयमाना पुनः पुनः ॥
तस्मात्समभवद्वक्रात्पुरुषाकृतिसंयुतः ।
रत्नविन्दुचिताङ्गस्तु सर्वाभरणभूषितः ॥
आदित्यसदृशाकारः शिरसा धारयन्मणिम् ।
पुनरेव तदाकारसदृशः समजायत ॥
तृतीयस्तु महाराज विविधाभरणैर्युतः ।
प्रदक्षिणं तु तां कृत्वा विविधध्वनयस्तु ताम् ॥
ततः सर्वेण विप्रर्षिः कन्यां पप्रच्छ तां शुभाम् ॥
का त्वं परमकल्याणि पद्मेन्दुसदृशानने ।
न जाने त्वां महादेवि ब्रूहि सत्यमनिन्दिते ॥
कन्योवाच ।
सावित्री नाम विप्रर्षे शृणु भद्रं तवास्तु वै ।
किं करिष्यामि तद्ब्रूहि तव यच्चेतसि स्थितम् ॥
नारद उवाच ।
अभिवादये त्वां सावित्रि कृतार्थोऽहमनिन्दिते ।
एतं मे संशयं देवि वक्तुमर्हसि शोभने ॥
यस्तु वै प्रथमोत्पन्नः कोऽसौ स पुरुषाकृतिः ।
बिन्दवस्तु महादेवि मूर्ध्नि ज्योतिर्मयाकृतिः ॥
कन्योवाच ।
अग्रजः प्रथमोत्पन्नो यजुर्वेदस्तथाऽपरः ।
तृतीयः सामवेदस्तु संशयो व्येतु ते मुने ॥
वेदाश्च बिन्दुसंयुक्ता यज्ञस्य फलसंश्रिताः ।
यत्तद्दृष्टं महज्ज्योतिर्ज्योतिरित्युच्यते बुधैः ॥
ऋषे ज्ञेयं मया चाऽपीत्युक्त्वा चान्तरधीयत । ततः स विस्मयाविष्टो नारदः पुरुषर्षभ ।
ध्यानयुक्तः स तु चिरं न बुबोध महामतिः ॥
ततः स्नात्वा महातेजा वाग्यतो नियतेन्द्रियः ।
तुष्टाव पुरुषव्याघ्रो जिज्ञासुश्च तदद्भुतम् ॥
ततो वर्षशते पूर्णे भगवाँलोकभावनः ।
प्रादुश्चकार विश्वात्मा ऋषेः परमसौहृदात् ॥
तमागतं जगन्नाथं सर्वकारणकारणम् ।
अखिलामरमौल्यङ्गरुक्मारुणपदद्वयम् ॥
वैनतेयपदस्पर्शकिणशोभितजानुकम् ।
पीताम्बरलसत्काञ्चीदामबद्धकटीतटम् ॥
श्रीवत्सवक्षसं चारुमणिकौस्तुभकन्धरम् ।
मन्दस्मितमुखाम्भोजं चलदायतलोचनम् ॥
नम्रचापानुकरणनम्रभ्रूयुगशोभितम् ।
नानारत्नमणीवज्रस्फुरन्मकरकुण्डलम् ॥
इन्द्रनीलनिभासं तं केयूरमकुटोज्ज्वलम् ।
देवैरिन्द्रपुरोगैश्च ऋषिसङघैरभिष्टुतम् ॥
नारदो जयशब्देन ववन्दे शिरसा हरिम् ॥
ततः स भगवाञ्श्रीमान्मेघगम्भीरया गिरा ।
प्राहेशः सर्वभूतानां नारदं पतितं क्षितौ ॥
भद्रमस्तु ऋषे तुभ्यं वरं वरय सुव्रत ।
यत्ते मनसि सुव्यक्तमस्ति च प्रददामि तन् ॥
स चेमं जयशब्देन प्रसीदेत्यातुरो मुनिः ।
प्रोवाच हृदि संरूढं शङ्खचक्रगदाधरम् ॥
विवक्षितं जगन्नाथ मया ज्ञातं त्वयाऽच्युत ।
तत्प्रसीद हृषीकेश श्रोतुमिच्छामि तद्धरे ॥
ततः स्मयन्महाविष्णुरभ्यभाषत नारदम् ।
यद्दृष्टं मम रूपं तु वेदानां शिरसि त्वया ॥
निर्द्वन्द्वा निरहंकाराः शुचयः शुद्धलोचनाः ।
तं मां पश्यन्ति सततं तान्पृच्छ यदिहेच्छसि ॥
ये योगिनो महाप्राज्ञा मदंशा ये व्यवस्थिताः ।
तेषां प्रसादं देवर्षे मत्प्रसादमवैहि तत् ॥
भीष्म उवाच ।
इत्युक्त्वा स जगामाथ भगवान्भूतभावनः ।
तस्माद्व्रज हृषीकेशं कृष्णं देवकिनन्दनम् ॥
एतमाराध्य गोविन्दं गता मुक्तिं महर्षयः ।
एष कर्ता विकर्ता च सर्वकारणकारणम् ॥
मयाऽप्येतच्छ्रुतं राजन्नारदात्तु निबोध तत् ।
स्वयमेव समाचष्ट नारदो भगवान्मुनिः ॥
समस्तसंसारविघातकारणं भजन्ति ये विष्णुमनन्यमानसाः ।
ते यान्ति सायुज्यमतीव दुर्लभ मितीव नित्यं हृदि वर्णयन्ति ॥' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥

* अयमध्यायः ध. पुस्तक एव दृश्यते । 12-205-65 मया विवक्षितं त्वया ज्ञातमिति संबन्धः ॥ 12-205-69 व्रज शरणमिति शेषः ॥