अध्यायः 217

भीष्मेण युधिष्ठिरंप्रति वैराग्यादिमोक्षसाधनप्रतिपादकगुरुवाक्यानुवादः ॥ 1 ॥

गुरुरुवाच ।
दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः ।
ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम् ॥
जन्ममृत्युजरादुःखैर्व्याधिभिर्मानसक्लमैः ।
दृष्ट्वैव संततं लोकं घटेन्मोक्षाय बुद्धिमान् ॥
वाङ्भनोभ्यां शरीरेण शुचिः स्यादनहंकृतः ।
प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम् ॥
`वशा मोक्षवतां पाशास्तासां रूपं प्रदर्शकम् ।
दुर्ग्रहं पश्यमानोऽपि मन्यते मोहितस्तदा ॥
एवं पश्यन्तमात्मानमनुध्यातं हि बन्धुषु । अयथात्वेन जानामि भेदरूपेण संस्थितम् ॥'
अथवा मनसः सङ्गं पश्येद्भूतानुकम्पया ।
तत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत् ॥
यत्कृतं स्याच्छुभं कर्म पापं वा यदि वाऽश्नुते ।
तस्माच्छुभानि कर्माणि कुर्याद्वा बुद्धिकर्मभिः ॥
अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् ।
क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ॥
`अनक्षसाध्यं तद्ब्रह्म निर्मलं जगतः परम् ।
स्वात्मप्रकाशमग्राह्यमहेतुकमचञ्चलम् ॥
विवेकज्ञानवाचिस्थो ह्याशुरूपेण संस्थितः । वैकारिकात्प्रदृश्येतै गैरिके मधुधारवत् ॥'
यश्चैनं परमं धर्मं सर्वभूतसुखावहम् ।
दुःखान्निः सरणं वेद तत्त्वज्ञः स सुखी भवेत् ॥
तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत् ।
नापथ्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत् ॥
अथामोघप्रयत्नेन मनो ज्ञाने निवेशयेत् ।
सुवाचोऽथ प्रयोगेण मनोज्ञं संप्रवर्तते ॥
विवेकयित्वा तद्वाक्यं धर्मसूक्ष्ममवेक्ष्य च ।
सत्यां वाचमहिंस्रां च वदेदनपवादिनीम् ॥
कल्कापेतामपरुषामनृशंसामपैशुनीम् ।
ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा ॥
वाक्यबन्धेन संरागविहाराद्व्याहरेद्यदि ।
बुद्ध्याऽप्यनुगृहीतेन मनसा कर्म तामसम् ॥
रजोभूतैर्हि करणैः कर्मणि प्रतिपद्यते । स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते ।
तस्मान्मनोवाक्शरीरैराचरेद्वैर्यमात्मनः ॥
प्रकीर्ण एव भारो हि यद्वद्धार्येत दस्युभिः । प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा ।
`संसारमार्गमापन्नः प्रतिलोमं विवर्जयेत् ॥'
तामेव च यथा दस्यून्हत्वा गच्छेच्छिवां दिशम् ।
तथा रजस्तमः कर्माण्युत्सृज्य प्राप्नुयाच्छुभम् ॥
निःसंदिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः ।
विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः ॥
ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान् ।
निष्प्रचारेण मनसा परं तदधिगच्छति ॥
धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम् । मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसाऽऽत्मनः ।
`योजयित्वा मनस्तत्र निश्चलं परमात्मनि ॥
योगाभिसन्धियुक्तस्य ब्रह्म तत्संप्रकाशते ।
ऐकान्त्यं तदिदं विद्धि सर्ववस्त्वन्तरस्थितिः ॥
विशेषहीनं गृह्णन्ति विशेषां कारणात्मिकाम् । अथवा न प्रभुस्तत्र परमात्मनि वर्तितुम् ।
आगामित्तत्त्वं योगात्मा योगतन्त्रमुपक्रमेत् ॥'
निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे ।
देवतास्ताः प्रकाशन्ते हृष्टा यान्ति तमीश्वरम् ॥
ताभिः संयुक्तमनसो ब्रह्म तत्संप्रकाशते ।
शनैश्चापगते सत्वे ब्रह्मभूयाय कल्पते ॥
अथवा न प्रवर्तेत योगतन्त्रैरुपक्रमेत् ।
योगतन्त्रमयं तन्त्रं वृत्तिः स्यात्ततदाचरेत् ॥
कणकुल्माषपिण्याकशाकयावकसक्तवः ।
तथा मूलफलं भैक्ष्यं पर्यायेणोपयोजयेत् ॥
आहारनियमं चैव देशे काले च सात्विकः ।
तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम् ॥
प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत् ।
ज्ञानैधितं तथा ज्ञानमर्कवत्संप्रकाशते ॥
ज्ञानाधिष्ठानमज्ञानं त्रील्लोँकानधितिष्ठति ।
विज्ञानानुगतं ज्ञानमज्ञानेनापकृष्यते ॥
पृथक्त्वात्संप्रयोगाच्च नासूयुर्वेद शाश्वतम् ।
स तयोरपवर्गज्ञो वीतरागो विमुच्यते ॥
वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम् ।
अमृतं तदवाप्नोति यत्तदक्षरमव्ययम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तदशाधिकद्विशततमोऽध्यायः ॥ 217 ॥

12-217-2 क्लमैः क्लेशैः संततं व्याप्तं दृष्ट्वैव नतु ममेदानीं क्लेशो नास्तीत्युपेक्षेत ॥ 12-217-3 घटनमेवाहाध्यायेन वागिति । चरेद्गुरुरिति ध.पाठः ॥ 12-217-6 पश्येद्भूतादिकं यथा इति ध. पाठः ॥ 12-217-12 नापथ्यायेत् परानिष्टं न चिन्तयेत् । अबद्धं स्वस्यायोग्यं राज्यादिकं न स्पृहयेत् । असन्नष्टं भावि वा स्त्रीपुत्रादिकं न चिन्तयेत् ॥ 12-217-13 वाचामोधप्रयासेन मनोज्ञं तत्प्रवर्तते इति झ. पाठः ॥ 12-217-14 विवक्षता च तद्वाक्यं धर्मं सूक्ष्ममवेक्षता इति झ. पाठः ॥ 12-217-15 कल्कापेतां शाठ्येन हीनाम् ॥ 12-217-16 वाक्प्रबद्धो हि संसारो विरागात् इति झ. पाठः ॥ 12-217-17 रजोभूतैः प्रवृत्तिपरैः ॥ 12-217-20 अनीहश्चेष्टाशून्यः ॥ 12-217-21 प्रयोगो योगाङ्गानामनुष्ठानं तत्र रतिः प्रीतिर्यस्य । निष्प्रचारेण निरुद्धेन ॥ 12-217-26 एतैश्चाभिमतैः सर्वैरिति ध. पाठः ॥