अध्यायः 316

भीष्मेण युधिष्ठिरंप्रति अण्डादिसृष्टिप्रकारादिप्रतिपादकजनकयाज्ञवल्क्यसंवादानुवादः ॥ 1 ॥

याज्ञवल्क्य उवाच ।
अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे ।
पञ्चकल्पसहस्राणि द्विगुणान्यहरुच्यते ॥
रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप ।
सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ॥
ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् ।
सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ॥
संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः ।
संदधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ॥
द्यावापृथिव्योरिज्येष राजन्वेदेषु पठ्यते ।
तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ॥
एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः ।
दशकल्पसहस्राणि पादोनान्यहरुच्यते ॥
रात्रिमेतावतीं चास्व प्राहुरध्यात्मचिन्तकाः ।
सृजत्यहंकारमृषिर्भूतं दिव्यात्मकं तथा ॥
चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः ।
ते वै पितृभ्यः पितरः श्रूयन्तें राजसत्तम ॥
देवाः पितॄणां च सुता देवैर्लोकाः समावृताः ।
चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ॥
परमेष्ठी त्वहंकारोऽसृजद्भूतानि पञ्चधा ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥
एतस्यापि निशामाहुस्तृतीयमथ कुर्वतः ।
पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ॥
यैराविष्टानि भूतानि अहन्यहनि पार्थिव ।
अन्योन्यं स्पृहयन्त्येते अन्योन्यस्याहिते रताः ॥
अन्योन्यमतिवर्तन्ते अन्योन्यस्पर्धिनस्तथा ।
ते वध्यमाना ह्यन्योन्यं गुणैर्हारिभिरव्ययाः ॥
इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ।
त्रीणि कल्पसहस्राणि एतेषामहरुच्यते ॥
रात्रिरेतावती चैव मनसश्च नराधिप ।
मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः ॥
न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ।
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा ॥
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ।
अथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ॥
मनस्युपरते राजन्निन्द्रियोपरमो भवेत् ॥
न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् ।
एवं मनः प्रधानानि इन्द्रियाणि प्रभावयेत् ॥
इन्द्रियाणां तु सर्वेषामीश्वरं मन उच्यते ।
एतद्विशन्ति भूतानि सर्वाणीह महायशः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षोडशाधिकत्रिशततमोऽध्यायः ॥ 316 ॥

12-316-4 संदधेऽयं महीमिति ड. थ. पाठः ॥ 12-316-8 पुत्रान्देवानिति ड. थ. पाठः । पुत्रान्पूर्वमेव महानृषिरिति । पितॄणां पितर इति झ. पाठः ॥ 12-316-13 अन्योन्यस्य हिते रता इति झ. ध. पाठः ॥ 12-316-21 एतद्वशे हि भूतानीति ट. ड. थ. पाठः ॥