अध्यायः 339

नारदवचनाज्जातवैराग्येण शुकेन सूर्यमण्डलप्रविविक्षया व्यासनारदयोर्निवेदनपूर्वकं कैलासशिखरारोहणम् ॥ 1 ॥

नारद उवाच ।
सुखदुःखविपर्यासो यदा समनुपद्यते ।
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् ॥
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति ।
जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत् ॥
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः ।
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥
व्यथितस्य विधित्साभिस्त्रस्यतो जीवितैषिणः ।
अवशस्य विनाशाय शरीरमपकृष्यते ॥
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव ।
आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः ॥
व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः ।
जातान्मर्त्याञ्जरयति निमेषान्नावतिष्ठते ॥
सुखदुःखानि भूतानामजरो जरयत्यसौ ।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥
अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ।
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥
योयदिच्छेद्यथाकाममयत्नाच्च तदाप्नुयात् ।
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥
संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः ।
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥
अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः ।
अशुभैरपि संयुक्ता दृश्यन्ते सर्वकामिनः ॥
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते ॥
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठते ।
कश्चित्कर्मानुसृत्यान्यो नाप्राप्यमधिगच्छति ॥
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः ।
शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति ॥
तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा ।
आम्रपुष्पोपमा यस्य निर्वृत्तिरुपलभ्यते ॥
केषांचित्पुत्रकामानामनुसन्तानमिच्छताम् ।
सिद्धौ प्रयतमानानां न चाण्डमुपजायते ॥
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव ।
आयुष्माञ्जायते पुत्रः कथं प्रेतः पितेव ह ॥
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः ।
दश मासान्परिधृता जायन्ते कुलपांसनाः ॥
अपरे धनधान्यानि भोगांश्च पितृसंचितान् ।
विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे ।
उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते ॥
शीर्णं परशरीराणि च्छिन्नबीजं शरीरिणम् ।
प्राणिनं प्राणंसरोधे मांसश्लेष्मविचेष्टितम् ॥
निर्दग्धं परदेहेऽपि परदेहं चलाचलम् ।
विनश्यन्तं विनाशान्ते भावि नावमिवाहितम् ॥
सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् ।
केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि ॥
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः ।
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते ॥
गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः ।
धारणे वा विसर्गे वा न कर्ता विद्यतेऽवशः ॥
स्रवन्ति ह्युदराद्गर्भा जायमानास्तथा परे ।
आगमेन तथाऽन्येषां विनाश उपपद्यते ॥
एतस्माद्योनिसंबन्धाद्यो जीवः परिमुच्यते ।
प्रजां च लभते कांचित्पुनर्द्वन्द्वेषु सज्जति ॥
स तस्य सहजातस्य सप्तमीं नवमीं दशाम् ।
प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः ॥
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ॥
व्याधिभिश्च विमथ्यन्ते व्याधैः क्षुद्रमृगा इव ॥
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम् ।
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ॥
ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः ।
व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः ॥
ते पिबन्तः कषायांश्च सर्पीषि विविधानि च ।
दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥
के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः ।
श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते ॥
पौरानपि दुराधर्षान्नृपतीनुग्रतेजसः ।
आक्रम्य खादन्ते रोगाः पशून्पशुपचा इव ॥
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् ।
स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा ॥
न धनेन न राज्येन नोग्रेण तपसा तथा ।
स्वभावमतिवर्तन्ते ये नियुक्ताः शरीरिणः ॥
न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिनः ।
नाप्रियं प्रतिपश्येयुरुत्थानस्य फले सति ॥
उपर्युपरि लोकस्य सर्वो भवितुमीहते ।
यतते च यथाशक्ति न च तद्वर्तते तथा ॥
ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च ।
अप्रमत्ताश्च शूराश्च विक्रान्ताः पर्युपासते ॥
क्लेशाः प्रतिनिवर्तन्ते केषांचिदसमीक्षिताः ।
स्वंस्वं न पुनरन्येषां न किंचिदधिगम्यते ॥
महच्च फलवैपम्यं दृश्यते कर्मसिद्धिषु ।
वहन्ति शिविकामन्ये यान्त्यन्ये शिविकागताः ॥
सर्वेषामृद्धिकामानामन्ये रथपुरःसराः ।
मनुजाश्च गतस्त्रीकाः शतशो विविधाः स्त्रियः ॥
द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः ।
इदमन्यत्परं पश्य माऽत्र मोहं करिष्यसि ॥
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम ।
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः ॥
नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान् ।
संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत ॥
पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्छ्रमः ।
किंनु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम् ॥
ततो मुहूर्तं संचिन्त्य निश्चितां गतिमात्मनः ।
परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् ॥
कथं त्वहमसंश्लिष्टो गच्छेयं गतिमुत्तमाम् ।
नावर्तेयं यथा भूयो योनिसंसारसागरे ॥
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः ।
सर्वसङ्गान्परित्यज्य निश्चितो मनसा गतिम् ॥
तत्र यास्यामि यत्रात्मा शर्म मेऽधिगमिष्यति ।
अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः ॥
न तु योगमृते शक्त्या प्राप्नुयां परमां गतिम् ।
अनुबन्धो विमुक्तस्य कर्मभिर्नोपपद्यते ॥
यस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम् ।
वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम् ॥
न ह्येप क्षयतां याति सोमः सुरगणैर्यथा ।
कम्पितः पतते भूमिं पुनश्चैवाधिरोहति ॥
क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते ।
नेच्छाम्येवं विदित्वैते ह्रासवृद्धी पुनः पुनः ॥
रविस्तु संतापयते लोकान्रश्मिभिरुल्बणैः ।
सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः ॥
अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम् ।
अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना ॥
सूर्यस्यर सदने चाहं निक्षिप्येदं कलेवरम् ।
ऋषिभिः सह वत्स्यामि सौरं तेजोऽतिदुःसहं ॥
आपृच्छामि नगान्नागान्गिरीनुर्वी दिशो दश ।
देवदानवगन्धर्वान्पिशाचोरगराक्षसान् ॥
लोकेषु सर्वभूतानि प्रवेक्ष्यामि न संशयः ।
पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः ॥
अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम् ।
तस्मादनुज्ञां संप्राप्य जगाम पितरं प्रति ॥
सोऽभिवाद्य महात्मानं कृष्णद्वैपायनं मुनिम् ।
शुकः प्रदक्षिणं कृत्वा कृष्णमापृष्टवान्मुनिम् ॥
श्रुत्वा चर्षिस्तद्वचनं शुकस्य प्रीतो महात्मा पुनराह चैनम् ।
भोभो पुत्र स्थीयतां तावदद्य यावच्चक्षुः प्रीणयामि त्वदर्थे ॥
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तसंशयः ।
मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे ॥
पितरं स परित्यज्य जगाम मुनिसत्तमः ।
कैलासपृष्ठं विपुलं सिद्धसङ्घनिषेवितम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 339 ॥

12-339-1 विपर्यासः सुखे दुःखधीर्दुःखे सुखधीः ॥ 12-339-4 विधित्साभिः पिपासाभिस्तृष्णाभिः ॥ 12-339-6 व्यत्ययः पौर्वापर्यम् ॥ 12-339-11 अशीर्भिरप्यसंयुक्ताः इति ध. पाठः ॥ 12-339-13 कर्मी कर्मानुसृत्यान्य इति थ. पाठः । कश्चिच्च कर्म कुर्वन्हि नाप्राप्यमिति ध. पाठः ॥ 12-339-17 कथं प्रेत्य इवाभवदिति झ. पाठः ॥ 12-339-27 यो बीजं परिमुच्यत इति झ. पाठः ॥ 12-339-28 सहजातस्य जन्माद्यन्तां तु वै दशामिति ध. पाठः । न भवन्ति गतायुष इति झ. पाठः ॥ 12-339-29 रोगाः स्युरिति ध. पाठः । योगाः सामर्थ्यानि ॥ 12-339-33 के बाहुर्विचिकित्सन्ते इति ट. ध. पाठः ॥ 12-339-34 धीरानपि दुराधर्षानिति ध. पाठः ॥ 12-339-35 अनाकन्दं वेदनया मूढम् ॥ 12-339-36 स्वभावान्नातिवर्तन्ते ये नियुक्ताः शरीरिष्विति ट. थ. ध. पाठः ॥ 12-339-37 उत्थानस्य फलं प्रति इति थ. ध. पाठः ॥ 12-339-40 स्वंस्वं च पुनरन्येषामिति झ. पाठः ॥ 12-339-42 गतश्रीका इति ट. पाठः ॥ 12-339-49 असंश्लिष्टः सर्वोपाधिनिर्मुक्तः ॥ 12-339-52 शक्या प्राप्तुं सा परमा गतिरिति थ. पाठः । अवबन्धो हि युक्तस्येति थ. पाठः ॥