अध्यायः 350

वैशंपायनेन जनमेजयंप्रति अर्जुनाय स्वमाहात्म्यख्यापनपूर्वकं श्रीकृष्णकृतनारायणादिस्वनामनिर्वचनानुवादः ॥ 1 ॥

जनमेजय उवाच ।
अस्तौषीद्वैदिकैर्व्यासः सशिष्यो मधुसूदनम् ।
नामभिर्विविधैरेषां निरुक्तं भगवन्मम ॥
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरः ।
श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः ॥
वैशंपायन उवाच ।
शृणु राजन्यथाचष्ट फल्गुनस्य हरिः प्रभुः ।
प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ॥
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः ।
पृष्टवान्केशवं राजन्फगुनः परवीरहा ॥
अर्जुन उवाच ।
भगवन्भूतभव्येश सर्वभूतसृगव्यय ।
लोकधाम जगन्नाथ लोकानामभयप्रद ॥
यानि नामानि ते देव कीर्तितानि महर्षिभिः ।
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ॥
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव ।
न ह्यन्यो वर्णयेन्नाम्नां निरुक्तं त्वामृते प्रभो ॥
श्रीभगवानुवाच ।
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु ।
पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ॥
साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च ।
बहूनि मम नामानि कीर्तितानि महर्षिभिः ॥
गौणानि तत्र नामानि कर्मजानि च कानिचित् ।
निरुक्तं कर्मजानां त्वं शृणुष्व प्रयतोऽनघ ॥
कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा ।
नमोऽतियशमे तस्मै देवानां परमात्मने ॥
नारायणाय विश्वाय निर्गुणाय गुणात्मने ।
यस्य प्रसादजो ब्रह्मा रुद्रस्य क्रोधसंभवः ॥
योसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च ।
अष्टादशगुणं यत्तत्सत्वं सत्ववतांवर ॥
प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी ।
ऋता सत्याऽमरा जय्या लोकानामात्मसंज्ञिता ॥
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
तपो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् ॥
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः ।
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः ॥
प्रसादात्प्रादुरभवत्पद्ममर्कनिभं क्षणात् ।
तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः ॥
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा ।
क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः ॥
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजावुभौ ।
तदादर्शितपन्थानौ सृष्टिसंहारकारकौ ॥
निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ।
कपदीं जटिलो मुण्डः श्मशानगृहसेवकः ॥
उग्रव्रतचरो रुद्रो योगी त्रिपुरदारणः ।
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा ॥
नारायणात्मको ज्ञेयः पाण्डवेय युगेयुगे ।
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे ॥
संपूजितो भवत्पार्थ देवो नारायणः प्रभुः ।
अहमात्मा हि लोकानां विश्वेषां पाण्डुनन्दन ॥
तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम् ।
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् ॥
आत्मानं नार्चयेत्कश्चिदिति मे भावितात्मनः ।
मया प्रमाणं हि कृतं लोकः समनुवर्तते ॥
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् ।
यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु ॥
रुद्रो नारायणश्चैव सत्वमेकं द्विधा कृतम् ।
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु ॥
न हि मे केनचिद्देयो वरः पाण्डवनन्दन ।
इति संचिन्त्य मनसा पुराणं रुद्रमीश्वरम् ॥
पुत्रार्थमाराधितवानहमात्मानमात्मना ।
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय च ॥
ऋते आत्मानमेवेति ततो रुद्रं नमाम्यहम् ।
सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः ॥
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ।
भविष्यतां वर्ततां च भूतानां चैव भारत ॥
सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः । नमस्व हव्यदं विष्णुं तथा शरणदं नमः ।
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नमः ।
चतुर्विधा मम जना भक्ता एव हि मे श्रुतम् ॥
तेषामेकान्तिनः श्रेष्ठा ये चैवानन्यदेवताः ।
अहमेव गतिस्तेषां निराशीः कर्मकारिणाम् ॥
ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः ।
सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक् ॥
ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः ।
प्रबुद्धचर्याः सेवन्तो मामेवैष्यन्ति यत्फलम् ॥
भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः ।
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ ॥
भारावतरणार्थं तु प्रविष्टौ मानुषीं तनुम् ।
नानीभ्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत ॥
निवृत्तिलक्षणो धर्मस्तथाऽऽभ्यदयिकोऽपि च ।
नराणामयनं ख्यातमहमेकः सनातनः ॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं मम ताः पूर्वमतो नारायणोस्म्यहम् ॥
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः ।
सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् ॥
गतिश्च सर्वभूतानां प्रजनश्चापि भारत । व्याप्ते म रोदसी पार्थ कान्तिश्चाभ्यधिका मम ।
अधिभूतनिविष्टश्च तद्विश्वं चास्मि भारत ।
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः ॥
दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति ह ।
दिवं चोर्वी च मध्यं च तस्माद्दामोदरो ह्यहम् ॥
पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा ।
ममैतानि सदा गर्भः पृश्निगर्भस्ततो ह्यहम् ॥
ऋषयः प्राहुरेवं मां त्रितं कूपनिपातितम् ।
पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् ॥
ततः स ब्रह्मणः पुत्र आद्यो ह्यृषिवरस्त्रितः ।
उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् ॥
सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत ।
अंशवो यत्प्रकाशन्ते ममैते केशसंज्ञिताः ॥
सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः ।
स्वपत्न्यामाहितो गर्भ उचथ्येन महात्मना ॥
उचथ्येऽन्तहिंते चैव कदाचिद्देवताज्ञया ।
बृहस्पतिरथाविन्दत्तां पत्नीं तस्य धीमतः ॥
ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा ।
उवाच गर्भः कौन्तेय पञ्चभूतगुणात्मकः ॥
पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् ।
एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च ॥
मैथुनायागतो यस्मात्त्वयाऽहं विनिवारितः ।
तस्मादन्धो यास्यसि त्वं मच्छापान्नात्र संशयः ॥
स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् ।
स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा ॥
वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् ।
प्रयोजयामास तदा नाम गुह्यमिदं मम ॥
आनुपूर्व्येण विधिना केशवेति पुनः पुनः ।
स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः ॥
एवं हि वरदं नाम केशवेति ममार्जुन ।
देवानामथ सर्वेषामृषीणां च महात्मनाम् ॥
अग्निः सोमेन संयुक्त एकयोनिर्मुखं कृतम् ।
अग्नीषोममयं तस्माज्जगत्कृत्स्नं चराचरम् ॥
अपि हि पुराणे भवति एकयोन्यावग्नीषोमौ देवाश्चाग्निमुखा इति । एकयोनित्वाच्च परस्परं हर्षयन्तो लोकान्धारयन्त इति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये पञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 350 ॥

12-350-1 निरुक्तं निर्वचनम् ॥ 12-350-3 गुणकर्मजं गुणः सर्वज्ञत्वादिस्तज्जम् । कर्म जगत्सृष्ट्यादि तज्जम् ॥ 12-350-14 ऋता सत्या महाराज या लोकानामसंज्ञिता इति थ. पाठः ॥ 12-350-17 पद्मं पद्मनिभेक्षणेति झ. पाठः ॥ 12-350-32 स्तव्यः पूज्यश्च नित्यश इति ध. पाठः ॥ 12-350-33 चतुर्विधाः आर्तो जिज्ञासुरर्थाथां ज्ञानी चेति गीतोक्ताः ॥ 12-350-40 तेन नारायणोऽस्म्यहमिति ट. ध. पाठः ॥ 12-350-41 वासयामिजगद्विश्वमिति ध. पाठः ॥ 12-350-42 सर्वभूतानां ब्रह्मादीनां च भारतेति थ. पाठः ॥ 12-350-45 पृच्छन्त्येनं जिज्ञासवो धर्मजातमिति वा पृच्छन्त्येनं क्षुधितादय इति वा पृश्निर्वेदोऽत्रादि वा गर्भो गर्भस्थानि ॥