अध्यायः 109

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति ब्रह्मणा इन्द्रायोक्तगोविक्रयापहारफलानुवादः ॥ 1 ॥ तथा सुवर्णस्य गोदाने दक्षिणात्वप्रशंसनानुवादः ॥ 2 ॥

इन्द्र उवाच ।

जान्यो गामपहरेद्विक्रीयाच्चार्थकारणात् ।
एतद्विज्ञातुमिच्छामि कानु तस्य गतिर्भवेत् ॥
पितामह उवाच ।
भक्तार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते ।
दानार्थं ब्राह्मणार्थाय तत्रेदं श्रूयतां फलम् ॥
विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः ।
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ॥
घातकः खादको वाऽपि तथा यश्चानुमन्यते ।
यावन्ति तस्या रोमाणि तावद्वर्षाणि मज्जति ॥
ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके ।
विक्रये चापहारे च ते दोषा वै स्मृता गवाम् ॥
अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति । यावद्दाने तु यो गां वै ब्राह्मणाय प्रयच्छति ।
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते ।
सुवर्णं परमित्युक्तं दक्षिणार्थमसंशयम् ॥
गोप्रदानात्तारयते सप्त पूर्वांस्तथाऽपरान् ।
सुवर्णं दक्षिणां कृत्वा तावद्द्विगुणमुच्यते ॥
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।
सुवर्णं पावनं शक्र पावनानां परं स्मृतम् ॥
कुलानां पावनं प्राहुर्जातरूपं शतक्रतो ।
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ॥
भीष्म उवाच ।
एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ ।
इन्द्रो दशरथायाह रामायाह पिता तथा ॥
राघवोपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने ।
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता प्रभो ॥
पारम्पर्यागतं चेदमृषयः संशितव्रताः ।
दुर्धरं दारयामासू राजानश्चैव धार्मिकाः ॥
उपाध्यायेन गदितं मम चेदं युधिष्ठिर ॥
य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि ।
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे ॥
तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा ।
इति ब्रह्मा स भगवानुवाच परमेश्वरः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवाधिकशततमोऽध्यायः ॥ 109 ॥

7-109-3 विक्रयार्थं यो नियुङ्क्ते इति शेषः ॥ 7-109-10 सुवर्णं प्राहुरित्यज्ञाजातरूपमिति ध.पाठः ॥

श्रीः