अध्यायः 210

द्रुपदप्रश्नानन्तरं युधिष्ठिरेण स्वेषां पाण्डवत्वकथनम् ॥ 1 ॥ द्रौपद्याः पञ्चपत्नीत्वे द्रुपदस्य विवादः ॥ 2 ॥ व्यासागमनम् ॥ 3 ॥

वैशंपायन उवाच ।
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् ।
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् ।
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥
वैश्यान्वा गुणसंपन्नानथ वा शूद्रयोनिजान् ।
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥
कृष्णाहेतोरनुप्राप्ता देवाः संदर्शनार्थिनः ।
ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान् ॥
अपि नः संशयस्यान्ते मनः संतुष्टिमावहेत् ।
अपि नो भागधेयानि शुभानि स्युः परन्तप ॥
इच्छया ब्रूहि तत्सत्यं सत्यं राजसु शोभते ।
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम ।
ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥
युधिष्ठिर उवाच ।
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते ।
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः ।
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ॥
आभ्यां तव सुता राजन्निर्जिता राजसंसदि ।
यमौ च तत्र कुन्ती च यत्र कृष्मा व्यवस्थिता ॥
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ।
पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता ॥
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते ।
भवान्हि गुरुरस्माकं परमं च परायणम् ॥
वैशंपायन उवाच ।
ततः स द्रुपदो राजा हर्षव्याकुललोचनः ।
प्रतिवक्तुं मुदा युक्तो नाशकत्तं युधिष्टिरम् ॥
यत्नेन तु स तं हर्षं सन्निगृह्य परंतपः ।
अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम् ॥
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरात् ।
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् ।
विगर्हयामास तदा धृतराष्ट्रं नरेश्वरम् ॥
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् ।
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि ।
यमौ च राज्ञा संदिष्टं विविशुर्भवनं महत् ॥
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः ।
प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम् ॥
गृह्णातु विधिवत्पाणिमद्यायं कुरुनन्दनः ।
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥
वैशंपायन उवाच ।
तमब्रवीत्ततो राजा धर्मात्मा च युधिष्ठिरः ।
`ममापि दारसंबन्धः कार्यस्तावद्विशांपते ॥
तस्मात्पूर्वं मया कार्यं तद्भवाननुमन्यताम् ।'
द्रुपद उवाच ।
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम ।
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥
युधिष्ठिर उवाच ।
सर्वेषां महिषी राजन्द्रौपदी नो भविष्यति ।
एवं प्रव्याहृतं पूर्वं मम मात्रा विशांपते ॥
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः ।
पार्थेन विजिता चैषा रत्नभूता सुता तव ॥
एष नः समयो राजँल्लब्धस्य सह भोजनम् ।
न च तं हातुमिच्छामः समयं राजसत्तम ॥
`अक्रमेण निवेशे च धर्मलोपो महान्भवेत् ।' सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति ।
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करान् ॥
द्रुपद उवाच ।
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन ।
नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित् ॥
`सोऽयं न लोके वेदे वा जातु धर्मः प्रशस्ते ।' लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः ।
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥
युधिष्ठिर उवाच ।
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् ।
पूर्वेषामानुपूर्व्येण यातं वर्त्माऽनुयामहे ॥
न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।
एवं चैव वदत्यम्बा मम चैतन्मनोगतम् ॥
`आश्रमे रुद्रनिर्दिष्टाद्व्यासादेतन्मया श्रुतम् ।' एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् ।
मा च शङ्का तत्र ते स्यात्कथंचिदपि पार्थिव ॥
द्रुपद उवाच ।
त्वं च कुन्ती च कौन्तय धृष्टद्युम्नश्च मे सुतः ।
कथयन्त्विति कर्तव्यं श्वः काल्ये करवामहे ॥
वैशंपायन उवाच ।
ते समेत्य ततः सर्वे कथयन्ति स्म भारत ।
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥

1-210-1 ब्राह्मेण ब्राह्मणार्थणुचितेनाभ्युत्थानादिना परिग्रहेण आतिथ्येन ॥ 1-210-6 इष्टापूर्तेन हेतुना । अनृतं न वक्तव्यमिति । अनृतभाषणे इष्टापूर्ते नश्येतामित्यर्थः ॥ 1-210-20 क्षणं देवपूजाद्युत्सवम् ॥ 1-210-24 अनिविष्टः अकृतविवाहः ॥ 1-210-25 समयो नियमः ॥ 1-210-26 ज्वलने ज्वलनसमीपे ॥ 1-210-27 पुंसः पुमां सः ॥ 1-210-29 यूयं च वयं च वयं । पूर्वेषां प्रचेतःप्रभृतीनाम् । तैर्यातं वर्त्म बहूनामेकपत्नीत्वमनुयामहे । तच्च आनुपूर्व्येणैव न त्वक्रमेण ॥ दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥