II.143

षष्ठमाह्निकम्—शब्दपरीक्षा


पदवाक्यस्वरूपविमर्शः


ननु नाद्यापि शब्दस्य निरणायि प्रमाणता ।

796बीजं पदार्थवाक्यार्थबुद्धेर्न हि निरूपितम् ॥

उच्यते—किमत्र निरूपणीयम् ? यदनन्तरं हि यद्भवति तत्तस्य
निमित्तम् । पदवाक्यश्रवणे सति पदार्थवाक्यार्थसंप्रत्ययो भवतीति ते
एव तत्र निमित्तम् ॥


किं पुनरिदं पदं नाम ? किंच वाक्यमिति । उक्तमत्र वर्णसमूहः
पदम्, पदसमूहो वाक्यमिति ॥


स्फोटवादोपक्षेपः


ननु ! एतदेव न क्षमन्ते । न हि वर्णानां समूहः कश्चिदस्ति
वास्तवः । तेन कुतस्तत्समूहः पदं भविष्यति ? तदभावाच्च न तरां
पदसमूहो वाक्यमवकल्पते । न च वर्णानां व्यस्तसमस्तविकल्पोपहतत्वेन
वाचकत्वमुपपद्यते । तस्मादन्य एव स्फोटात्मा शब्दोऽर्थप्रतिपादक इति
प्रतिजानते ॥


II.144

स्फोटवादस्य नैयायिकप्रतिकूलत्वम्


ननु ! एवमस्तु । स्फोटोऽन्य एवार्थप्रतिपादको भवतु । का
क्षतिर्नैयायिकानाम् ? कथं न क्षतिः ! आप्तप्रणीतत्वेन हि शब्दस्य प्रमाण्यं
तैरुक्तम् । स्फोटस्य च नित्यत्वेन नाप्तप्रणीतत्वम् । अतश्च यस्यानि
त्यत्वं वर्णात्मनः शब्दस्य साधितम्, नासावर्थप्रतीतिहेतुः । अतो न
प्रमाणम् । यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दः, तस्य नानित्यत्वम्, न
चाप्तप्रणीतत्वमिति797 अस्थाने नैयायिकाः क्लिष्टा भवेयुः । तस्मादनि
त्यानां वर्णानामेव वाचकत्वं प्रतिष्ठापनीयम् । पराकरणीयश्च स्फोट
इति ॥


वर्णा एवार्थप्रत्यायका इति प्रतिज्ञा


तदुच्यते—गकारादिवर्णावगमे सत्यर्थप्रतीतेर्भावात्, तदभावे
चाभावात् तेषामेवार्थप्रत्यायनसामर्थ्यम् । त एव च श्रवणकरणकावगम
गोचरतया शब्दव्यपदेशभाज इति न प्रतीत्यनुपारूढः स्फोटो नाम शब्दः
कश्चित् प्रत्यक्षानुमानातीतः परिकल्पनीयः ॥


अनित्यानां वर्णानामर्थप्रत्यायकत्वाक्षेपः


आह—कथमेवं भविष्यति ? दूरापेता इमे मनोरथाः । कुतो
वर्णानामर्थप्रत्यायकत्वम् ? ते हि वर्णा गकारादयः अर्थं प्रतिपादयन्तः
समस्ताः प्रतिपादयेयुः ? व्यस्ता वा ? न तावद्व्यस्ताः; एकैकवर्णाकर्णने
सत्यप्यर्थप्रतीतेरनुत्पादात् । सामस्त्यं वर्णानां नास्त्येव । तद्धि सत्ता
II.145 मात्रेण वा स्यात् ? प्रतीयमानत्वेन वा ? नैयायिकपक्षे तावत् सत्तया
यौगपद्यमविद्यमानम्, आशुविनाशिनः शब्दस्य दर्शितत्वात् ॥


वर्णानां नित्यत्वेऽपि अर्थप्रत्यायकत्वासंभवः


अथापि मीमांसकमतेन नित्यः शब्द इष्यते, तत्रापि सत्तया यौग
पद्यस्य सकलवर्णसाधारणत्वात्798 केन वर्णसमुदायेन कोऽर्थः प्रत्याय्येतेति
नावधार्यते ॥


अर्थोच्यते—न चक्षुरादीनामिव वर्णानां 799कारकत्वम्, येनागृही
तानामेव सतां यौगपद्यमात्रमर्थप्रत्यायनाङ्गं स्यात् । 800ज्ञापकत्वात्तेषां
गृहीतानां सतां धूमादिवत् प्रत्यायकत्वमिति प्रतीतावेव सामस्त्यमुपयुज्यते
इति ॥


एतदप्यघटमानम् । 801प्रतीतिसामस्त्यं हि किमेकवक्तृप्रयुक्तानां
वर्णानाम् ? उत नानापुरुषभाषितानाम् ? तत्र—एकदा अनेकपुरुषभाषि
तानां कोलाहलस्वभावत्वेन स्वरूपभेद एव दुरवगम इति कस्य सामस्त्यम
सामस्त्यं वा चिन्त्येत ? सत्यपि वा तथाविधे सामस्त्ये नास्त्येवार्थ
प्रतीतिः ॥


एकवक्तृप्रयुक्तानां तु प्रयत्नस्थानकरणक्रमापरित्यागात् अवश्यंभावी
क्रमः । क्रमे च सत्येकैकवर्णकरणिकार्थप्रतीतिः प्राप्नोति । न चासौ
दृश्यत इति व्यस्तसमस्तविकल्पानुपपत्तेः न वर्णा वाचकाः ॥


II.146

वर्णविषया अपि बुद्धयस्तथैव विकल्पनीयाः । ता अपि न युग
पत्संभवन्ति । क्रमे च सति एकैकवर्णबुद्धेरर्थसंप्रत्ययः प्रसज्येतेति ॥


अन्तिमवर्णस्याप्यर्थप्रत्यायकत्वासंभवः


यदप्युच्यते—पूर्वपूर्ववर्णजनितसंस्कारसहितः—अन्त्यवर्णः प्रत्यायक
इति—तदप्ययुक्तम्—संस्कारो हि नाम यदनुभवजनितः, तद्विषयमेव
स्मरणमुपजनयति, न पुनरर्थान्तरविषयं ज्ञानमिति । स्मृतिद्वारेणासौ
तर्ह्यर्थप्रत्यायकोऽसौ भविष्यतीति चेत्—एतदपि नास्ति, ज्ञानयौगपद्य
प्रसङ्गात् । अन्त्यवर्णज्ञानानन्तरं हि पूर्ववर्णस्मरणमिव समयस्मरणमपि
तदैवापतति । ततश्च ज्ञानयौगपद्यम् ॥


न च क्रमोत्पादे किंचित्कारणमुत्पश्यामः । अथापि तेन क्रमेण
भवेताम्, तथापि तदानीमन्त्यवर्णज्ञानमुपरतमिति कस्य साहाय्यकं पूर्वं
वर्णस्मृतिर्विदधातीति ॥


एतच्चानेकपूर्ववर्णविषयामेकां स्मृतिममभ्युपगम्योक्तम् । न पुन
रेका सर्ववर्णगोचरा स्मृतिः । कुतः ?


भिन्नोपलंभसंभूत 802वासनाभेदनिर्मिताः ।

भवेयुः स्मृतयो भिन्नाः न त्वेकाऽनेकगोचराः ॥

वर्णसंकलनाज्ञानमप्यर्थप्रत्यायकं न


अथ वदेत्—803संकनाज्ञानमेकं सदसद्वर्णगोचरं भविष्यति ।
तद्रूपारूढाश्च वर्णाः अर्थं प्रत्याययिष्यन्तीति—तदपि दुराशामात्रम्—तथा
II.147 विधज्ञानोत्पत्तौ कारणाभावात् । न चेन्द्रियमतीतवर्णग्रहणसमर्थम् । न
संस्कारो वर्तमानग्राही भवति । न च युगपदिन्द्रियं संस्कारश्चेमां बुद्धिं
जनयतः; संस्कारस्य सहचारदर्शनाद्याहितप्रबोधस्य सतः, स्मरण
मात्रजन्मनि निर्ज्ञातसामर्थ्यस्येन्द्रियेण सह व्यापाराभावात् । तस्मात्
न वर्णा वाचकाः ॥


अतश्चैवम्—यदि ते वाचका भवेयुः, 804विपरीतक्रमप्रयुक्ता अप्यर्थं
गमयेयुः । क्रमश्चेदपेक्ष्यते, स व्यतिरिक्ताव्यतिरिक्ततया चिन्तनीयः ।
अव्यतिरेके त एव ते वर्ण इति कथं न बोधकाः ? व्यतिरेके तु किमप्य
धिकं वाचकं अभ्युपगतं भवतीति मत्पक्षमाजिगमिषति भवान् ॥


व्युत्पत्तेरर्थप्रत्यायकत्वोपक्षेपः


ननु ? व्युत्पत्तिवशेन शब्दः अर्थप्रत्यायकतामुपयाति । व्युत्पत्तौ
च यावन्तो यत्क्रमावर्णा यर्थमभिवदन्तो दृष्टाः, ते तावन्तः तत्क्रम
कास्तमर्थमभिवदिष्यन्तीति किं विकल्पमालया । तदुक्तम् श्लो. वा.
1-1-5 स्फोटवाद श्लो 69


यावन्तो यादृशा ये च यदर्थप्रतिपादने ।

वर्णाः प्रज्ञासामर्थ्यः ते तथैवावबोधकाः इति ॥

व्युत्पत्तिपदार्थः


तदुच्यते—व्युत्पत्तिरेवेयं विचारणीया वर्तते । 805परावगतिपूर्विका
हि शब्दात् स्वयमवगतिः । परावगतौ च के कियन्तः कथं कमर्थं
II.148 प्रतिपादयन्तोऽनेन दृष्टाः येभ्यस्तथैव तमर्थं प्रतीयादिति दुरधिगमा
हि वर्णवर्तनी ॥

यावन्तो यादृशा ये चेत्येवं तावत्प्रभाषसे ।

कियन्तः कीदृशाः केचेत्येवं यावन्न पृच्छयसे ॥

तस्मात् सर्वप्रकारमवाचका वर्णाः ॥


स्फोटवादः


अस्ति चेयं शब्दादुच्चरितात् तदर्थावगतिः । न चेयमकरणिकैव
भवितुमर्हति । तदस्याः करणं स्फोट इति 806कार्यानुमानमिदमस्तु, परि
शेषानुमानं वा, अर्थापत्तिर्वा । सर्वथाऽर्थप्रतीतिलक्षणकार्यवशात् कल्प्य
मानं तत् करणं स्फोट इत्युच्यते । स च निरवयवः, नित्यः, एकः,
निष्कारणक इति न 807वर्णपक्षक्षेपणदक्षदूषणपात्रतां प्रतिपद्यते । अतश्च
स्फोटोऽर्थप्रतिपादकः, शब्दादर्थं प्रतिपद्यामह इति व्यवहारात् । भवतो
हि वर्णजनितस्संस्कारोऽर्थप्रतिपादकः । तत्र शब्दात् इति प्रातिपदि
कार्थीऽनुपपन्नः808


अथ वर्णाः शब्दशब्देनोच्यन्ते । ते 809चार्थप्रतिपादकाः इति—इद
मन्यथासिद्धम्—तथापि शब्दात्' इत्येकत्वं विभक्त्यर्थो न संगच्छते ।
शब्देभ्यः प्रतिपद्यामह इति व्यवहारः स्यात् । स्फोटात्मनि तु शब्देऽर्थ
II.149 प्रतिपादके इष्यमाणे शब्दात् इति प्रातिपादिकार्थः, विभक्त्यर्थश्च
द्वयमप्युपपन्नम्810


वर्णानामर्थबोधकत्वासंभवः


ननु ! न स्फोटः शब्दशब्देनोच्यते, किन्तु वर्णा एव । श्रोत्रग्रहणे
ह्यर्थे शब्दाशब्दः प्रसिद्धः । त एव च श्रोत्रग्रहणा इति—नैतदेवम्—
शब्दत्वस्यापि श्रोत्रग्रहणात्मनो भावात् । निर्झर झाङ्काररवप्रभृतीनां
च सत्यपि श्रोत्रग्रहणत्वे 811शब्दकार्यनिर्वर्तकत्वानुपपत्तेः । तस्मात्
यतोऽर्थप्रतिपत्तिः, स शब्दः । अर्थप्रतिपत्तिश्च स्फोटादेव, न वर्णेभ्य
इति स्फोट एव शब्दः ॥


स्फोटस्य शब्दात्मकत्वम्


ननु ! 812एवं सति धूमादीनामप्यथप्रतीतिहेतुत्वात् शब्दत्वं प्राप्नोति
—मैवं वादीः—अथ गौः इत्यत्र श्रोत्रजप्रतिभासे बहवोऽर्थाः प्रतिभासन्ते,
तत्र कस्तेषां शब्दः—इत्युपक्रम्य, यतोऽर्थप्रतिपत्तिः स शब्द इयुपसंहृते813
कुतो धूमादीनां शब्दत्वशङ्कावकाशः ॥


ननु चेयमर्थप्रतीतिः वर्णेषु भवत्सु भवन्ती, तेष्वभवत्सु चाभवन्ती
तानुत्सृज्य कथं स्फोटकार्यतामुपयायात्—उच्यते—अनन्यथासिद्धं तद्भाव
भावित्वं तत्कार्यतामवगमयति, नान्यथासिद्धम् । 814इदं त्वन्यथासिद्धम् ।
II.150 का पुनरन्यथासिद्धिः ! स्फोटव्यंजकत्वात् वर्णानां तदानन्तर्यमर्थप्रतीते
रुपप्लवते । वर्णाभिव्यक्तः स्फोटोऽर्थप्रतीतिमादधाति । भ्राम्यति
जनः वर्णैरियमर्थप्रतीतिरुत्पादितेति ॥


स्फोटवादे पूर्वोक्तदोषानवकाशः


ननु स्फोटव्यक्तावप्रीदानीं वर्णानां क्व गतास्ते व्यस्तसमस्त
विकल्पाः । आह च भट्टः श्लो-वा-11-5-स्फोट-84


यस्यानवयवः स्फोटः व्यज्यते वर्णबुद्धिभिः ।

सोऽपि पर्यनुयोगेन नैवानेन विमुच्यते इति ॥

भाष्यकृताऽपि—ननु संस्कारकल्पनायामदृष्टकल्पना इत्याशंक्य
प्रतिविहितं 815शब्दकल्पनायां सा च शब्दकल्पना च शा-भा-1-1-5
इति—नैषदोषः—न स्फोटव्यक्तौ विकल्पाः प्रभवन्ति । कुतः ?


एके तावदाचक्षते प्रथमवर्णश्रवणवेलायामेव स्फोटोऽभिव्यक्तो
भवति816 । न च द्वितीयादिवर्णवैफल्यम्; तदवगतेरेवातिशयकरणात् ।
यथा रत्नपरीक्षकाणां प्रथमदर्शने रत्नरूपममलमप्रकाशमानमपि पुनः
पुनः परीक्षमाणानां चरमे चेतसि चकास्ति निरवद्यं रत्नतत्त्वम्—एवमि
हापि प्रथमवर्णश्रुत्या व्यक्तेऽपि स्फोटे स्फुटतरप्रतीत्यै वर्णान्तराणि प्रयो
क्ष्यन्त इति ॥


II.151

ध्वनेः स्फोटव्यञ्जकत्ववर्णांसत्यत्वपक्षः


अपरे तु वदन्ति—ध्वनय एव स्फोटस्य च817 व्यंजकाः । तैश्च
मरुद्भिः अनवयव एव एष स्फोटोऽभिव्यज्यमानः ताल्वादिस्थानकरण
संयोगोपाधिवशोपप्लवमाननानाकारगकारादिभागयोगीव प्रतिभासते ।
मरुतां चंचलत्वादुच्चारितप्रध्वंसिनस्ते तं काल्पनिकाकारमवभासयन्ते ।
दृष्टं चोपाधिवशादसत्यमपि रूपमवभासमानम् । यथा—कृपाणमणिदर्प
णादिव्यंजकभेदेन श्यामदीर्घादिरूपं वदनस्य । नादात्मको हि शब्दः
वीणावेणुमृदङ्गपटहादिव्यंजकर्भदेन नानात्वमुपगच्छन् दृश्यते । तस्मान्न
पारमार्थिका एव ते वर्णाः, न च स्फोटस्य व्यंजका इति क्व समस्त
व्यस्तविकल्पाः प्रभवेयुः ॥


उपाधिभेदेन प्रतिभासमाना असत्याकाराश्च तेऽर्थप्रत्ययान्वयव्यति
रेकानुविधायिनो दृश्यन्ते ॥


तेन यदुच्यते शब्दकल्पनायां कल्पनाद्वैगण्यमिति—तत्रैकगुणाऽपि
कल्पना नास्ति । का कथा द्वैगुण्यस्येति । तस्मात् स्फोटात्मका
देव शब्दादर्थप्रत्ययः । वर्णानुविधायित्वं तु तस्यान्यथासिद्धमिति
सिद्धम् ॥


अपि च तार्किकाणामनुमानप्रियत्वात् तत्परितोषायेदमनुमानमभ्य
धायि, न परमार्थतः । परमार्थतस्तु श्रौत्रे प्रत्यये प्रतिभासमानः प्रत्यक्ष
एव स्फोटः ॥


II.152

स्फोटस्य प्रत्यक्षत्वसाधनम्


आह—किमिदमपूर्वं तस्कराचरितं वर्तते—वर्णाः प्रत्यक्षमुपलभ्य
माना अपि 818दुर्भगाः न प्रत्यक्षाः, स्फोटः पुनरनवभासमानोऽपि 819सुभगः
प्रत्यक्ष इति—उच्यते—न ब्रूमः वर्णा न प्रत्यक्षा इति । ते पुनरसन्तोऽपि
उपाधिवशाद्वदनदैर्ध्यादिवदवभासन्ते । शब्दस्त्वेको निरवयवः प्रतीयते ।
तथा च पदमिति वाक्यमिति एकाकारा प्रतीतिरस्ति । न च भिन्ना
वर्णास्तस्यामालम्बनीभवन्ति820 । न हि सामान्यप्रत्ययः व्यक्त्यालम्बनः,
अवयविप्रत्ययो वाऽवयबालम्बनः । न च सेनावनादिबुद्धिवदयथार्था
पदवाक्यबुद्धिः, बाधकाभावात् ॥


पद वाक्यार्थबुद्धीनामैक्यं नौपाधिकम्


एकार्थप्रत्ययवत्त्वोपाधिकृतेयमेकाकारा बुद्धिरिति चेत्—एका-र्थ
प्रतीतिरिदानीं कुतस्त्या ? पदवाक्यप्रतीतिपूर्विका हि पदार्थवाक्यार्थ
प्रतीतिः, पदार्थवाक्यार्थप्रतीत्याख्यकार्यैक्याच्च पदवाक्यबुद्धिरेकाकारेति
दुरुत्तरमितरेतराश्रयत्वम् ॥


औपाधिकत्वं च सामान्यावयविबुद्धेरपि सुवचम् । बाधसंदेहरहित
प्रतीतिदार्ढ्यात् तत्र परिहार इति चेत्—तदितरत्रापि समानम् ।
तस्मात् पदबुद्धेः पदस्फोटः, वाक्यबुद्धेश्च वाक्यस्फोटो विषय इति प्रत्यक्ष
एव स्फोटः । तत्र पदस्फोटात् पदार्थप्रतिपत्तिः, वाक्यस्फोटाच्च वाक्यार्थ
प्रतिपत्तिः ॥


II.153

वाक्यस्फोटनिरूपणम्


आह—यदि निरवयवः स्फोटात्मा शब्दो भवति, 821वाक्यमपि शब्द
एव । तस्य पदात्मकास्त्वयवा मा भूवन् । तस्य चेत् पदात्मानोऽवयवा
भवन्ति, पदस्यापि तर्हि वर्णात्मानोऽवयवा भवन्तु—उच्यते—किंचि
दुच्छवसितमिव मे हृदयम् । मन्ये भविष्यत्यायुष्मतो विवेकालोकः ।
बोध्यमानो भोत्स्यसे किंचित् । ध्वन्युपाधिभेदप्रवृत्तवर्णभेदावभास
विप्रलब्धबुद्धिं भवद्विधं बोधयितुं पदस्फोट एष निरवयवोऽस्माभिर्दर्शितः ।
परमार्थतस्तु पदस्फोटो वाक्यावयवभूतो नास्त्येव । निरवयवमेव वाक्यं
निरवयवस्यैव वाक्यार्थस्य बोधकम् । यथा पदस्यावयवा न सन्ति, तथा
वाक्यस्यावयवाः पदानीति822 । तथा चाहुः—वाक्ये पदानामसत्त्वात्
दर्थे पदार्थानां निरवयवौ वाक्यवाक्यार्थाविति ॥


अवयवकल्पनायां हि यथा वाक्यस्यावयवाः पदानि, पदानामवयवा
वर्णाः, एवं वर्णानावप्यवयवैर्भवितव्यम् । तदवयवानामप्यवयवान्तरै
रित्यानन्त्यात् का व्यवस्था स्यात् । वर्णान् प्राप्य तु यद्यवयवकल्पनातो
विरन्तव्यं, तद्वाक्य एव विरम्यताम् ॥


वाक्यस्याखण्डत्वम्


एकघटनाकारा हि वाक्यार्थबुद्धिः तथाविधादेव वाक्यादुत्पत्तुमर्हति
वृद्धव्यवहाराद्धि शब्दार्थे व्युत्पद्यन्ते व्यवहर्तारः । तत्रास्य पदस्य
प्रयोग एव न केवलस्य दृश्यते, व्यवहारानङ्गत्वात्823 । वाक्यं तु
II.154 प्रयोगार्हमिति तत्रैव व्युत्पत्तिः । तत एवार्थसंप्रत्ययः । 824अवयवप्रति
भासस्तु भ्रममात्रम् । अर्थोऽपि वाक्यस्य एक एव नरसिंहाकारः ।
जात्यन्तरं हि नरसिंहो नाम । तत्र न नरार्थः, नापि सिंहार्थः ॥


वाक्यार्थस्याप्यखण्डत्वम्


एवं पदार्थेभ्योऽन्य एव वाक्यार्थः, पानकादिवत् । यथा पानकः
शर्करानागकेसरमरीच्यादिभ्योऽर्थान्तरमेव, यथा च सिन्दूरहरिताललाक्षा
दिभ्योऽर्थान्तरमेव चित्रम्, यथा वा षड्जर्षभगान्धारधैवतादिभ्योऽ
र्थान्तरमेव ग्रामरागः; तथा पदेभ्यो वाक्यम्, पदार्थेभ्यो वाक्यार्थः ॥


कथं तर्हि 825तदंशावगम इति चेत्; कल्पनामात्रं तत्, नासौ
परमार्थः । तच्छब्दानुगमे तदर्थानुगमदर्शनात् पारमार्थिकत्वं भागाना
मिति चेत्—न—कूपसूपयूपानामेकाक्षरानुगमेऽप्यर्थानुगमाभावात् ॥


न च केवलानुगममात्रेण तत्कारणभावो वक्तुं शक्यः, 826रेणुपटलानु
गामितया करितुरगादिवत् पिपीलिकापङ्क्तेरपि दृश्यमानायास्तत्कारण
त्वप्रसङ्गात् । तस्मात् प्रकृतिप्रत्ययांशवत् असत्पदार्थपरिकल्पनं वाक्यार्था
वगमोपायतयाऽऽश्रीयते, न त्वर्थस्तदीयः तत्राश्वकर्णादिवदुपलभ्यते ॥


असत्यानामपि सत्यप्रत्यायकत्वम्


असत्यमपि सत्योपायतां प्रतिपद्यमानं दृश्यते । अलीकाहिदंशादयः
सत्यमरणकारणं भवन्ति । लिप्यक्षराणि चासत्यान्येव सत्यार्थप्रतिपत्ति
मादधति ॥


II.155

स्वरूपसत्यानि827 तानीति चेत्—न—रेखारूपतया तेषामर्थाप्रति
पादकत्वात् । गकारोऽयमित्येवंगृह्यमाणा रेखा अर्थप्रत्ययहेतवः । ता
828येन रूपेण सत्याः, तेन नार्थप्रदिपादकाः; येन चार्थप्रतिपादकाः, तेन
न सत्या इति ॥


प्रकृतिप्रत्ययादिविभागानामपारमार्थिकत्वम्


ननु प्रकृतिप्रत्ययाद्यंशा अपि परमार्थसन्त एव; तथा प्रतिभासात्,
अर्थप्रत्ययहेतुत्वाच्च—नैतदेवम्—अन्वाख्यानभेदेन तेषां स्वरूपेणेयत्ता
निश्चयानुपपत्तेः । भवतीत्यत्र भूशब्दः प्रकृतिः क्वचिदन्वाख्यायते,
क्वचिद्भवशब्दः829 । प्रत्ययादेशागमगुणवृद्धिवर्णलोपाद्यन्वाख्यानवि
संवादात् कः पारमार्थिकः प्रकृतिप्रत्ययविभागः ? कल्पनामात्रं त्वेतत् इयं
प्रकृतिः, एष प्रत्यय इति । एवं पदार्थानामपि वाक्यार्थपरिकल्पनयैवा
पोद्धारः । तदुक्तम् वाक्य-3-1


पदं कैश्चिद्विधा भिन्नं चतुर्धा पंचधाऽपि वा ।

अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् इति ॥

पदानामपि अपारमार्थिकत्वम्


अपि च पारमार्थिकत्वे पदानां नियतमविसंवादिरूपं प्रतीयेत
विसंवादि तु तत् । 830नामाख्यातसाधारणवर्णसन्निवेशदर्शनात् न नियत
II.156 तेषां रूपम् । अतः काल्पनिकमेव तत, न वास्तवम् । न च निश्चेतु
मपि तत् पार्यते । कालेनदन्तिनागाः इत्यत्र कीदृशः पदविभागः ? अर्थ
द्वयोपपत्तेः । उभयत्र च वर्णतुल्यत्वात् । किं कालेन—कृष्णेन दन्तिना
—हस्तिना अगाः—त्वं गतः—इत्मेवमेतानि पदानि व्यवस्थाप्यन्ताम्,
अथ काले—समये, नदन्ति—शब्दायन्ते—नागा—करिणः फणिनो वेति ।
तस्मादनियमात् न पदतदर्थविभागः पारमार्थिकः ॥


अथ प्रथमप्रतिपन्नवाक्यार्थानुसारेण पदतदर्थविभागो व्यवस्थाप्यते,
तर्हि किं तेन तदानीं व्यवस्थापितेन ? वाक्यार्थस्य प्रथममेव प्रति
पन्नत्वात् ॥


किंच दध्यत्र मध्वत्रेति दधिमधुपदयोरिकारोकारयोरदर्शनेऽपि
तदर्थसंप्रत्ययो दृश्यते । तस्मादपि न पारमार्थिकः पदवर्णविभागः ।
निरस्तावयवं वाक्यं तथाविधस्यैव वाक्यार्थस्य वाचकमिति सिद्धम् ॥


स्फोटस्य परमतत्त्वरूपत्वम्


ननु यथा पदेषु वर्णा न सन्ति, वाक्येषु पदानि न सन्ति, तथा महा
वाक्येष्ववान्तरवक्यान्यपि न स्युः । ततः किम् ? महावाक्यान्यपि प्रक
रणापेक्षया न तात्त्विकानि स्युः । ततः किम् ? 831प्रकरणान्यपि शास्त्रा
पेक्षया न स्युः । ततोऽपि किम् ? एकमेवेदं शास्त्रतत्त्वमविभागमद्वयमा
पतति ॥


उच्यते—यदि तत्त्वं पृच्छसि, बुद्ध्यसे वा—तदा एवमेवैतत्
साधो ! शब्दब्रह्मैवेदमद्वयमनाद्यविद्यावासनोपप्लवमानभदमर्थभावेन
II.157 विवर्तते832 । न तु वाचकाद्विभक्तं वाच्यमपि नाम किंचिदस्ति । तस्मात्
काल्पनिक एव वाच्यवाचकविभागोऽयमविद्यैव 833विद्योपाय इत्या
श्रीयते । वाग्रूपता तत्त्वम्, सर्वत्र 834प्रत्यये तदनपायात् । यथोक्तम
वाक्य-1-125


वाग्र्पता चेदुत्क्रामेदवबोधस्य शाश्वती ।

835न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी इति ॥

वाक्तत्त्वप्रभेदः


सा चेयं वाक् त्रैविध्येन व्यवस्थितैवावभासते—वैखरी, मध्यमा,
पश्यन्तीति836 । तत्रेयं स्थानकरणप्रयत्नक्रमव्यज्यमानगकारादिवर्णसमु
दायात्मिका या वाक्, सा वैखरीत्युच्यते । विखर इति देहेन्द्रियसङ्घात
उच्यते । तत्र भवा वैखरी । तदुक्तम्—


स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।

वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना इति ॥

या पुनरन्तस्संकल्प्यमानक्रमवती श्रोत्रग्राह्यवर्णरूपाभिव्यक्तिरहिता
वाक् सा मध्यमोच्यते । तदुक्तम्—


II.158
केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी ।

प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते इति ॥

या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशसंविद्रूपा वाक्, सा पश्यन्ती
त्युच्यते । तदुक्तम्—


अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा ।

स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी इति ॥

तदलमतिप्रसक्तानुप्रसक्त्या । द्राधीयसी चर्चेयं प्रकृतान्तराय
कारिणीति न प्रतन्यते ॥


सर्वं व्यवहारमात्रम्


इह त्वेतावतैव पुनः प्रयोजनं—वर्णपदपूर्वको व्यवहारः न भवतीति ।
वाक्येन लोके व्यवहारात्, तस्य चावयवावयविव्यवस्थाऽनुपपत्तेः निर्भा
गमेव तत् वाचकं, निर्भागश्च तस्य वाच्यो ऽर्थ इति । अवान्तरवाक्यमपि
प्रयोगयोग्यं व्यवहारकारणमिति तन्न निह्नूयते । अविद्यावस्थेयं वर्तते ।
तत्रेयं व्यवहारवर्तनी यथादृश्यमानैवास्तु । विद्यायां सर्वमेवेदमसार
मिति837


838पदेन तु वर्णेन वा व्यवहाराभावात्, तस्य केवलस्याप्रयोगात्
तत्स्वरूपमस्यामपि दशायां न वास्तवमिष्यत इति ॥


II.159

स्फोटवादोपसंहारः


तस्मादेकक्रमविरहितः कल्पितासद्विभागः

वाक्यस्फोटो जनयति मतिं तादृशीं स्वाभिधेये ।

वर्णास्त्वेते प्रकृतिलघवः कल्पनैकप्रतिष्ठाः

तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः ॥

—स्फोटवादोपसंहारः—


स्फोटवादनिराकरणम्


अत्राभिधीयते—किमयमनुमानमहिम्ना स्फोटाभ्युपगमः, प्रत्यक्ष
प्रतीतिबलवत्तया वा ?


न तावदनुमानतः स्फोटस्वरूपमुपपादयितुं पार्यते । परिदृश्यमान
विशिष्टानुपूर्वीकवर्णकलापकरणेन अर्थप्रतीतेर्घटमानत्वात् ॥


वर्णानां वाचकत्वसमर्थनम्


ननु व्यस्तसमस्तादिविकल्पैरुत्सादितं वर्णानां वाचकत्वम्—नैतत्;
दुर्विकल्पास्ते—व्यस्तानां तावद्वाचकत्वं नेष्यत एव वर्णानाम् । समस्ता
एव ते वाचकाः ॥


यत्तु—तत्सामस्त्यं नास्ति, क्रमभावित्वादिति पुट —तदसत्—
क्रमभाविनामपि समस्तानां कार्यकारिणां अनेकशो दर्शनात् । यथा
युगपद्भाविनः समस्तास्त्रयो ग्रावाणः एकां 839नासां धारयन्तो दृश्यन्ते ॥


II.160

तथा क्रमभाविनोऽपि समस्ता ग्रासा एकां तृप्तिमुत्पादयन्तो दृश्यन्ते ।
एकस्मिन्नपि हि ग्रासे हीयमाने न भवति तादृशी तृप्तिः । अतः समस्ता
एव ते ग्रासाः तृप्तेः कारणम् । न च समस्ता अपि ते ग्रासा युगपत्प्र
योक्तुं शक्याः ॥


तथा एकानुवाकग्रहणे 840संस्थानां क्रमभाविनीनामपि सामस्त्ये सति
सामर्थ्यम् । एकया संस्थया दामुखीकरणासंभवात् । एवं तावल्लोके
सामस्त्यं क्रमभाविनां दृष्टम् ॥


वेदेऽपि दर्शपूर्णमासाभ्यां इतीतरेतरयोगशंसिना द्वन्द्वेन समर्पित
साहित्यानां आग्नेयादियागानां 841पक्षद्वये प्रयोज्यत्वेन चापरिहार्यक्रमाणा
मेकाधिकारसंपादकत्वं दृष्टम् । तथा ऐन्द्रवायवं गृह्णाति आश्विनं
गृह्णाति
इति सोमग्रहणाभ्यासानां समस्तानां क्रमभाविनां च एकप्रधान
निर्वर्तकत्वं दृष्टमिति । अतश्च नायं विरोधः—सामस्त्यं क्रमभावित्वं
चेति ॥


एवं क्रमवर्तिनोऽपि वर्णा एवार्थाभिधायिनो भविष्यन्ति ॥


वर्णानां क्रमेणार्थप्रत्यायकत्वेऽविरोधः


ननु ग्रासंस्थादीनां युक्तं समस्तानां क्रमभावित्वम् । यतः कार्यमपि
तदीयं तृप्त्यादि क्रमेण निर्वर्त्यमानं दृश्यते । वर्णेभ्यस्तु क्रमेण श्रूयमाणेभ्यः
न यावती, तावती अर्थावगतिमात्रा निर्वर्त्यमाना दृश्यते ॥


II.161

यद्येवमाग्नेयादिभ्यस्तर्हि क्रमेण निर्वर्त्यमानं किं कार्यमुपलभ्यते ?
अवान्तरापूर्वमिति ब्रूमः, शब्दप्रामाण्यात् । परमापूर्वनिर्वृत्तिस्तु तेषां
सामस्त्ये सति सेस्यतीति—उच्यते । 842अवान्तरापूर्वनिर्वृत्ताविदानीं क्रम
भाविनामाग्नेयावयवभूतक्रियाक्षणानां किमवान्तरं कार्यं, का वा तस्य
निर्वृत्तिरुपलभ्यते ?


वर्णानां क्रमेणार्थबोधनसमर्थनम्


अपि च 843यथाभिमतं यत् कार्यं, तदभिसन्धानेन प्रवृत्तिः ।
तत् सामस्त्यात्पूर्वं न क्वचिदुपलभ्यते । न ह्यवान्तरापूर्वेण
844स्वर्गमात्रा काचिदभिनिर्वर्त्यते, शास्त्रार्थस्य तदानीमनिष्पन्नत्वात् ।
अतः किमवान्तरापूर्वेण कृतेनापि । यत्किंचित्ववान्तरापूर्वप्रायं कार्यं
र्णेष्वपि न न दर्शयितुं शक्यते । किं तदिति चेत्—स्वरूपग्रहणं
संस्कारो वा भविष्यति ॥


तयोः प्रधानकार्यावयवत्वं नास्तीति चेत्—मा भूदनयवत्वम्, तदुप
योगिता तु विद्यत एव । अवयवावयविव्यवहारस्तु अवान्तरपरमापूर्व
योरपि दुरुपपादः । पदानां तु वाक्यार्थप्रितिपत्तिलक्षणप्रधानकार्यावयव
भूतपदार्थज्ञानाख्यकार्यनिर्वर्तकत्वमतिस्पष्टमस्त्येवेति न तेष्वेष दोषः845
प्रादुष्यात् ॥


II.162

वर्णानामपि, गमनक्रियाक्षणानामिव ग्रामप्राप्तौ, ग्रासानामिव तृप्तौ
संस्थानामिवामुखीकरणे यद्यपि क्रमोपचीयमानतत्कार्यमात्रसमुत्मेषो
नास्ति; तथापि तदौपयिकस्योपलब्धिसंस्कारादिकार्यस्य करणात्
तत्कार्यावयवस्तावत्कृतो भवतीति न समस्तानां क्रमकारित्वमपहीयते ।
तत्र पूर्वे वर्णा अतीता अप्युपकरिष्यन्ति846, चरमवर्णस्तु वर्तमान इतीदृश
एवायं काल्पनिकः क्रियाक्षणसमूह इव वर्णसमूहोऽर्थप्रत्यायकः ॥


संकलनाज्ञानस्यापि संभवोपपादनम्


अथवा क्रमोपलब्धेष्वपि वर्णेषु मानसमनुव्यवसायरूपमखिलवर्ण
विषयं संकलनाज्ञानं यदुपजायते, तत् अर्थप्रत्यायनाङ्गं भविष्यति ।
दृश्यते च विनश्वरेष्वपि पदार्थान्तरेषु क्रमानुभूतेषु युगपदनुव्यवसायो
मानसः शतमाम्राणि भक्षितवान् देवदत्तः इति । न चायं प्रत्ययो
नास्ति, सन्दिग्धः, बाध्यते वा । अनभ्युपगम्यमाने चेदृशि समुच्चयज्ञाने
तन्निबन्धना भूयांसो व्यवहारा उत्सीदेयुः ॥


स चायं संकलनाप्रत्ययः स्मर्यमाणानुभूयमानप्राक्तनान्त्यवर्णविषय
तया सदसद्वर्णगोचरश्चित्ररूप उपेयते । यदि वाऽन्त्यवर्णेऽपि तिरोहिते
भवन्847 असद्वर्णगोचर एव चित्राकारः सोऽर्थप्रतीतिहेतुरेक एवेति निरव
काशा व्यस्तसमस्तविकल्पाः ॥


II.163

क्रमविशिष्टतावद्वर्णविषयकं सङ्कलनाज्ञानम्


ननु ! संकनाप्रत्ययेऽपि यदि ते वर्णाः क्रमेणावभासन्ते, तदसा
वपि पूर्वोत्पन्नैकैकवर्णबुद्धिर्निर्विशेष एव स्यादिति तदुपारूढा अपि वर्णा
नार्थप्रतीतिहेतवो भवेयुः । यदि त्वेकसुमनस्तबकाकारवती स प्रत्ययः,
तदा तस्मिन् क्रमानवगमात् विपरीतक्रमा अपि848 ते वर्णा अर्थप्रतीति
कारिणः स्युः—उच्यते—विशिष्टानुपूर्वीकवर्णमालाऽनुभवसमनन्तरभावी
हि संकनाप्रत्ययोऽर्थप्रतीतेर्हतुः, न स्तबकाकारपरिच्छेदमात्रम् । विप
रीतक्रमाशङ्कनं च तदानीं कुतस्त्यम् ? स्तबकावभासे तावत् क्रम एव
नास्ति । कस्य वैपरीत्यमवैपरीत्यं वा, यदनन्तरजन्माऽयं समुच्चय
प्रत्ययः । ताश्च विशिष्टक्रमावभासिन्य एव 849पूर्वभाविन्यो वर्णबुद्धय
इति कुतो वैपरीत्यविकल्पः ? तस्मात् प्रथमपरिपठननियतानुपूर्वीकास्ते
तदनन्तरभाविसमस्तावभासिसंकनाप्रत्ययोपारूढा वर्णा अर्थप्रतीति
कारिणः स्युरिति न दोषः ॥


यथा वा पूर्ववर्णजनितसंस्कारसहितोऽन्त्यवर्ण इति तत्रभवता मीमां
साभाष्यकृतावर्णितं शा-भा-1-1-5, तथा वर्णानामर्थप्रत्यायकत्वमस्तु ॥


संस्कारस्य गुणत्वं, अर्थप्रतीतिहेतुत्वं च


ननु ! अत्रोक्तं संस्कारस्यार्थप्रतीतिजनकत्वं न दृष्टपूर्वं, स्मृतावेव
तस्य व्यापार इति—किमियं राजाज्ञा—स्मृतिरेव संस्कारेण कर्त
व्येति ॥


नेयं राजाज्ञा, नयाज्ञात्वेषा । न हि संस्कारो नाम स्वतन्त्रः कोऽपि
धर्मी । किन्तु पट्वभ्यासादरप्रत्ययगृहीतेष्वर्थेषु यत् आत्मनः स्मरण
II.164 कारणं, स संस्कारः । सा च स्मृत्यैव कार्येण कल्प्यमाना शक्तिः । न
च शक्तिरूपस्य संस्कारस्य शक्त्यन्तरमर्थप्रतीतिजन्मनि संभवति ।
येनैव कार्येण सा शक्तिः कल्पिता, तदपहाय किं कार्यान्तरं कुर्यात् ?
स्मरणहेतोश्च संस्कारस्य प्रसवकारणतनुभवः । 850अनुभवहेतोस्त्वस्य
नूतनचरितस्य संस्कारस्य जन्मनिमित्तमेव नोत्पश्यामः । तस्मान्नासावर्थ
प्रतीतिहेतुर्भवति ॥


नैतत्सारम्—वर्णानुभवसंस्कृतमतेः पुंसः अर्थप्रतीतिदर्शनात् । न
हि स्मरणशक्तिः संस्कारः । किन्त्वात्मगुणो वासनाख्यः । स च
स्मृतिमिवार्थप्रतीतिमपि जनयितुमुत्सहते । सर्वत्र नो दर्शनं प्रमाणम् ।
स्मरणजननकौशलमपि तस्य तथा दर्शनादवगम्यते । तदिदमनुभवजनन
मपि ततो दृश्यत एव । वर्णाश्च तदनुभवाश्च व्यतीताः अन्यच्च शब्द
तत्त्वं नानुभूयत इति वक्ष्यामः । अस्ति चार्थप्रतीतिः । नासौ निष्क
रणिका स्यात् । करणव्यतिरेकेण हि साऽनुद्भवन्ती करणमाक्षिपति ।
यदस्याः करणं, स संस्कार इति स्मृतिरिवार्थप्रतीतिरपि तत्कार्यत्वात्त
दनुमापिका भवत्येव ॥


संस्कारस्यानुभवजनकत्वेऽविरोधः


यत्तु कुतस्तादृशः 851संस्कार उदेतीति—जडप्रश्नोऽयम्, अनुभव
हेतुकस्य सुप्रसिद्धत्वात् । तथा चाहुः—वस्तुधर्मो ह्येषः, यदनुभवः
पटीयान् स्मृतिबीजमाधत्ते
इति ॥


ननु स्मृतिबीजमिति यदुच्यते, तत् कथमनुभवबीजं स्यात् ?—नैष
नियमः—स्मृतेरेव बीजमिति । अनुभवस्तावत् तथाविधमात्मधर्ममाधत्ते ।
II.165 852कार्यभेदोऽपि नोत्पत्तौ कारणान्तरं मृगयते । कार्यभेदश्चास्य तथा
दशैनादवगम्यत इत्युक्तम् ॥


संस्कारस्य स्मृतिमात्रजनकत्वेऽप्यदोषः


अथवा किमनेन निर्बन्धेन । न साक्षादर्थप्रतीतिकारी संस्कारः ।
स्मृतिद्वारेण तां करिष्यति । पूर्ववर्णेषु संस्कारात् स्मरणम्, अन्त्यवर्णे
श्रोत्रेन्द्रियादनुभव इत्येवं स्मर्यमाणानुभूयमानवर्णकरणकोऽर्थप्रत्ययः—
स्यात् । को दोषः ?


ननु अनुभवक्रमाहितसंस्कारसामर्थ्यमनुरुध्यमानाः स्मृतयोऽपि क्रमे
णोत्पत्तुमर्हन्ति, न युगपदिति । ततश्च प्राक्तन एव दोषः, सामस्त्या
भावादिति—नैष दोषः—नानावर्णविषयैः क्रमभाविभिरनुभवैः 853क्रमोपचे
यात्मा, पुटपाकैरिव कार्तस्वरस्य, एक एवात्मनः संस्कारः तादृगुपाधीयते,
येन सर्वानेव पूर्वदृष्टान् वर्णानसौ सकृत् स्मरतीति ॥


संस्कारात् संस्कारोत्पत्तिरलौकिकीति चेत्—नालौकिकी, स्वाध्या
याध्ययने सिद्धत्वात् । उच्चारणक्रियायाः क्षणिकत्वात् तदार्हिते संस्का
रान्तरकारिणि संस्कारेऽनिष्यमाणेऽन्त्यमुच्चारणं प्रथमोच्चारणान्न विशि
ष्येतेति । ततः किम् ? पुरुषायुषेणापि नानुवाक एवामुखीक्रियेत ॥


सिद्धान्त एव कल्पनालाघवम्


ननु ! अयमीदृशः प्रकारः एकस्मरणसिद्धये कल्पनीयः, अर्थप्रतीति
हेतुता वा संस्कारस्य कल्पनीयेति सर्वथा चेयमदृष्टकल्पना । अतो न
II.166 पश्यामहे तत्र कः संस्कारं प्रति पक्षपातः ? कश्च स्फोटं प्रति विद्वेषः ?
यदेष854 कल्प्यते, नैष इति—उक्तमत्र पुट-129 तेनैव सुगृहीतनाम्ना
भाष्यकारेण शब्दकल्पनायां सा च, शब्दकल्पना च इति ॥


स्फोटवादे कल्पनागौरववर्णनम्


ननु नास्ति कल्पनाद्वैगुण्यम् । संस्कारो हि यथाप्रसिद्धि स्थित एव ।
का तत्र कल्पना ? न हि वयं स्मरणैककारणत्वं संस्कारधर्ममतिलङ्घित
वन्तः, भवन्त इव855


कथं न लङ्घितवन्तो भवन्तः ? सर्ववर्णविषयैकस्मरणकारिता856
भवद्भिरपि कल्पितैव । यैव हि वर्तनी वर्णानामर्थप्रतीतौ, सैव स्फोट
व्यक्तावपि । तां च कल्पयित्वा शब्दोऽन्यः कल्पित एवम् । अतश्च
संस्कारस्योभयवादिविदितस्य857 स्मरणकारित्वमुल्लङ्घ्य अर्थप्रत्ययका
रित्वं केवलस्माभिरभिहितम् । भवद्भिस्तु मूलत एवारभ्याभिनवं
विश्वमुत्थापितम्—858अपूर्वस्य शब्दस्य तावदस्तित्वं, पुनर्वर्णव्यतिरिक्तत्वं,
पुनरवयवशहित्यं कल्पितमिति कथं न कल्पनागुरुत्वम् ? तदुक्तम्—
श्लो-वा-स्फोट 90


II.167
सद्भावव्यतिरेकौ च तथाऽवयववर्जनम् ।

तवाधिकं भवेत्तस्मात् यत्नोऽसावर्थबुद्धिष इति ॥

स्फोटवादे अर्थप्रतीत्यनुपपत्तिः


यत्पुनरवादि—प्रथमवर्णबुद्धिवेलायामेव व्यक्तं स्फोटतत्त्वं उत्तरोत्तर
बुद्धिभिरतिशयिततरप्रत्ययविषयतां नीयते, रत्नतत्त्ववदिति—स एष
विषम उपन्यासः—रत्नस्य हि सावयवत्वात् प्रथमप्रत्ययाविषयीकृतसूक्ष्म
तरावयवविशेषग्राहिणां उत्तरोत्तरप्रत्ययानामस्ति तत्रावकाशः । स्फोटस्तु
वर्णस्वरुपवदनंश इति तत्स्वरूपसर्वस्वमाद्येनैव वर्णेन व्यक्तम् । किमि
दानीमन्ये वर्णाः करिष्यन्ति । एकदेशव्यक्तिस्तु निरवयवस्य859, वर्णस्येव
न संभवति । यथोक्तम्—श्लो-वा-स्फोट-10


860अल्पीयसाऽपि यत्नेन शब्दमुच्चारितं मतिः ।

यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम् इति ॥

योऽपि द्वितीयो दृष्टान्त उदाहारि—यथा अनुवाकः श्लोको वा
प्रथमसंस्थया गृहीतोऽपि संस्थान्तराभ्यासैः स्फुटतरं परिच्छिन्नो भवति
तथा स्फोटोऽपि प्रथमवर्णांन्तरैरर्तिशयिताभिव्यक्तिः भविष्यतीति—सोऽपि
न सदृशो दृष्टान्तः, श्लोकानुवाकयोरनंशत्वानुपपत्तेः । केचिदवयवा
वर्णात्मानः पदात्मानो वा प्रथमायां बुद्धावपरिस्फुरन्तः संस्थाभ्यासलब्धा
II.168 तिशयायां तस्यां प्रकटीभविष्यन्ति । स्फोटस्तु एकवर्ण इव निरंश इति
तत्र को बुद्धेरतिशययोगः तस्मादयमपि न संगतो दृष्टान्तः ॥


स्फोटस्य ध्वनिव्यङ्ग्यत्वपक्षनिरासः


येऽपि च मन्वते—ध्वनिव्यङ्ग्यत्वात् स्फोटस्य न तत्र वर्णविकल्पा
वसर इति—तेऽपि न सम्यग्दर्शिनः—861पराणुद्य वर्णप्रतीतिं ध्वनिभ्यः
शब्दप्रतीतेरनुत्पादात् । अतिद्रुतोच्चि चारयिषयाऽ862नुपलभ्यमानवर्ण
विभागाच्च शब्दादर्थप्रत्ययाभावात् ॥


वर्णनामसत्यत्वनिरासः


अथ ध्वनयः शब्दव्यक्तिमादधानाः स्थानकरणानुरोधेनासत्यमेव
वर्णभेदमुपदर्शयन्ति, श्यामादिरूपमिव मुखस्य खङ्गादृय इत्युच्यते—तदप्य
सत्—असत्यत्वे निमित्ताभावात् । प्रतीयन्ते हि निर्बाधया बुद्ध्या वर्णाः ।
तदतिरिक्तस्तु शब्दो न प्रतीयते । यश्च न प्रतीयते, सोऽस्ति; ये च
प्रतीयन्ते, ते न सन्तौत्युच्यमाने—शशो नास्ति, विषाणमस्तीति स्यात् ।
तस्मादयमपि न कल्पनागौरवपरिहारक्षमः पन्थाः । अतः सुष्टूक्तं
शब्दकल्पनायां सा च, शब्दकल्पना च इति ॥


तस्मात् स्फोटप्रतिपत्तौ यः क्रम आस्थेयः, सः अर्थप्रतीतावेवास्थी
यतामिति किं तेन स्फोटेन ॥


वर्णनां बुद्धिकल्पितत्वपक्षनिरासः


अन्ये तु—उपलब्ध्यनन्तरसत्ताकानां वर्णानामर्थप्रत्यायकत्वमाचक्षते
—तदिह नेष्यते, क्षणिकत्वाद्वर्णानां उपलब्धेरूर्ध्वं सत्ताऽनुपपत्तेः ।
II.169 सर्वथा व्युत्पत्त्यनुसारेण वर्णानामर्थप्रत्यायकत्वं तद्यथा पुरा दृष्टं, तथाऽ
भ्थुपगम्यत इति । तदुक्तं—यावन्तो यादृशाः इति ॥


वर्णानां प्रत्यायकत्वं अनुभवसिद्धम्


यत्त्वत्र 863प्रतीपमुक्तं—कियन्तः कीदृशाः इति—तत्र प्रतीतयः
प्रष्टव्याः, न तपस्विनो वयमिति यत्किंचिदेतत् ॥


यत्पुनरभ्यधायि पु. —क्रमव्यत्यासप्रयुक्ता अपि वर्णा प्रत्यायका
भवेयुः । क्रम एव वा स्फोटः स्यात्—इति—तदपि न पेशलम्—क्रमो हि
नाम कालभेदः । न च काल एव स्फोटो भवितुमर्हति ॥


स्फोटकल्पकस्यान्यथासिद्धिः


क्रमोऽपि च न स्वतन्त्रः प्रतिपादकः, पदार्थान्तरवृत्तिर्वा; किन्तु
वर्णाश्रित एव । तत्र चोक्तम् श्लो. वा-1-1-8-श्लो-265-266


864द्वये सत्यपि तेनात्र विज्ञेयोऽर्थस्य वाचकः ।

वर्णाः किन्नु क्रमोपेताः किन्नु वर्णाश्रयः क्रमः ?

क्रमः क्रमवतामङ्गमिति किं युक्तिसाध्यता ?

धर्ममात्रमसौ तेषां न वस्त्वन्तरमिष्यते ॥

तस्मात् ये यावत्क्रमका यमर्थं प्रत्यायन्तो दृष्टा वर्णाः, ते तत्क्रमका
वर्णास्तमर्थं प्रत्याययिष्यन्तीति न स्फोटादर्थावगतिः । तदेवं कार्यानुमानं,
अर्थापत्तिर्वा न स्फोटसिद्धये प्रभवतीति सिद्धम् ॥


II.170

यदप्यभाणि—शब्दादथ प्रतिपद्यामहे इति व्यवहारः स्फोटपक्ष
साक्षितामालम्बत इति—तदप्यसारम्—वर्णानां वाचकत्वे यथोक्तनीत्या
साधिते तत्पक्षेऽपि तथा व्यवहारोपपत्तेः ॥


वर्णानां वाचकत्वाक्षेपः


ननु ! कथमुपपत्तिः ? संस्कारस्तावत् न शब्दशब्देनोच्यते । न
हि तथा लोके प्रसिद्धिः । 865संस्कारे च वाचके व्युत्पत्तिरपि दुरुपपादा ।
परावगतिपूर्विका हि शब्दात् स्वावगतिः । न च परस्थः संस्कारः परस्य
प्रतीतिमुपजनयन् ग्रहीतुं शक्यः, परोक्षत्वात् ॥


वर्णेष्वपि शब्दशब्दो वर्तमानः प्रतिवर्णं वा वर्तेत, वर्णसमुदाये वा ?
प्रतिवर्णं वर्तमाने च शब्दशब्दे न शब्दादर्थप्रतिपत्तिः स्यात्; एकस्य
वर्णस्य वाचकत्वायोगात् । समुदाये तु न वर्तितुमर्हति शब्दशब्दः, जाति
शब्दत्वात् । द्विवचनबहुवचनान्तव्यक्तिशब्दप्रयोगे हि तस्मात्सामानाधि
करण्येन न जातिशब्द एकवचनान्तः प्रयुज्यते । न हि भवति देवदत्त
यज्ञदत्तौ पुरुषः
इति, धवखदिरपलाशा वृक्षः इति—तथा गकारौकार
विसर्जनीयाः शब्दः
इत्यपि न ॥


वनं वृक्षाः इति वनशब्दवत् तर्हि समुदायवाची भविष्यति शब्द
शब्दः, न जातिशब्दवत्—इति चेत्—न—तत्र समुदायव्यतिरेकनिर्देश
दर्शनात्—आम्राणां वनम् कपित्थानां वनम् इति । न चैवमिह
व्यतिरेकनिर्देशोऽस्ति—गकारादीनां शब्दः इत्यदर्शनात् ॥


अथ ब्रूयात्—आम्रादयो वनम् इत्यभेदेनापि वनशब्दः प्रयुज्यते ।
तथेहापि गकारादयः शब्दः इति प्रयोक्ष्यते—एतदपि नास्ति—वनादौ
II.171 भेदव्यपदेशवशेन प्रतिव्यक्ति चाप्रयोगे, सिद्धे समुदायशब्दत्वे, समुदाय
मुदायिनोरभेदोपचारात् आम्रादयो वनम् इति युज्यते प्रयोक्तुम् ।
इह तु गकारादीनां शब्दः इति न कदाचिदपि व्यतिरेकनिर्देशो दृश्यत
इति समुदायशब्दत्वमघटमानम् । तत्सर्वथा वर्णशब्दवादिनामनुपपन्नोऽयं
व्यपदेशः शब्दादर्थं प्रतिपद्यामहे इति ॥


वर्णानां वाचकत्वसमर्थनम्


उच्यते—किमनेनोपपन्नेनानुपपन्नेन वा कृत्यम् । यद्ययमुपपद्यते,
ततः किम् ? अथापि नोपपद्यते, ततोऽपि किम् ? न हि लोकव्यपदेश
निबन्धना वस्तुस्थितिर्भवति866


ननु ! शास्त्रकारा अप्येवमेव व्यवहरन्ति—भावमाख्यातेनाचष्टे
867इति—न शास्त्रकारव्यवहारादप्यप्रामाणिकोऽर्थः शक्यतेऽभ्युपगन्तुम् ।
कतरच्चेदं प्रमाणं—लोकव्यपदेशो नाम । अनुमानं तावत् प्रतिक्षिप्तम् ।
प्रत्यक्षमपि प्रतिक्षेप्स्यते । न चान्यत् स्फोटसिद्धौ प्रमाणं क्रमते
तदस्थानेऽयं लोकव्यपदेशनिरूपणेन स्फोटाटोपः ॥


वर्णानामेव अर्थप्रत्यायकत्वं अनुभवानुगुणम्


न चात्यन्तमसङ्गतोऽयं वर्णपक्षे लौकिको व्यपदेशः । पूर्ववर्ण
जनितसंस्कारसहिते तावदन्त्यवर्णे वाचके सुसङ्गत एवायं व्यपदेशः,
तस्य शब्दत्वात्, एकत्वाच्च ॥


II.172

संकलनाप्रत्ययोपारूढवर्णवाचकत्वपक्षेऽपि न दोषः । न हि भेदशब्द
सहित एष शब्दशब्दः प्रयुज्यते—गकारादिभ्यश्शब्दादर्थं प्रतिपद्यामहे
इति । केवलस्तु जातिशब्द एकवचनान्तो बहुष्वपि वर्णेषु न विरुद्धः ॥


किंच स्फोटपक्षे सुतरामनुपपन्नोऽयं व्यपदेशः शब्दात् इति, प्राति
पदिकार्थस्याभावात् । न हि वर्णवत् स्फोटे शब्दशब्दं प्रयुंजानो दृश्यते
व्यवहर्तृजनः ॥


स्फोटस्य शब्दरूपत्वमपि न प्रामाणिकम्


अर्थप्रतिपत्तिहेतुत्वं शब्दलक्षणमसाधुः; धूमादिभिर्व्यभिचारात् ।
अथापि प्रक्रमपर्यालोचनया श्रौत्रग्राह्यत्वविशिष्टमर्थप्रतिपत्तिहेतुत्वं शब्द
लक्षणमभिधीयते; तदिदं स्फोटं प्रति न सिद्धम्; तस्य श्रौत्रप्रत्ययविषय
त्वाभावात् । श्रोत्रग्राह्यत्वमेव च तदितरव्ययवच्छेदक्षममिति तदेव युक्तं
किमुभयोपादानेन ? श्रोत्रग्राह्यत्वं च वर्णेष्वेव नार्थान्तरस्येति वर्णा एव
शब्दाः । तदुक्तम्—श्लो-वा-स्फोट-9


परस्परानपेक्षाश्च श्रौत्रबुद्ध्या स्वरूपतः ।

वर्णा एवावसीयन्ते न पूर्वापरवस्तुनी868 इति ॥

शब्दलक्षणपरिष्कारः


श्रोत्रग्राह्यत्वं शब्दलक्षणं 869सत्तादावप्यस्तीति चेत्—न—श्रोत्रेणैवे
त्यवधारणस्य विवक्षितत्वात् ॥


II.173

श्रोत्रमनोभ्यां ग्रहणादसिद्धमवधारणमिति चेत्—न—870समान
जातीयव्यवच्छेदार्थत्वादवधारणस्य चक्षुरादीन्येव तेन व्यवच्छेद्यन्ते,
न मनः ॥


तथापि शब्दत्वे व्यभिचार इति चेत्—न—जातिमत्त्वे सतीति प्रक्रम
लभ्यविशेषणापेक्षणात् । स्तनयित्नुनादप्रभृतिभिरपि न व्यभिचारः,
तेषां शब्दत्वाभ्युपगमात्871 । तदुक्तं भाष्यकृता—द्विविधश्चायं शब्दः—
वर्णात्मा ध्वनिमात्रश्च
ल्य-भा-2-2-40 इति ॥


परोक्तं शब्दलक्षणं न सुष्टु


अर्थप्रत्यायकत्वं तु न लक्षणमित्युक्तम्, अगृहीतसंबन्ध वर्णात्म
न्यपि शब्दे तदभावेनाशब्दत्वप्रसङ्गात् । कालान्तरेण संबन्धबुद्धौ सत्यां
च तस्यैव शब्दत्वमिति अव्यवस्थितमिदं लक्षणम् ॥


यदपि शब्दस्वरूपनिरूपणप्रसङ्गेन तदभिधेयानां जातिगुणक्रियादीनां
शब्दताऽऽशङ्कनं, तत्परिहरणं च—तदपि किमाशयमिति न विद्मः—
तेषामतिविभक्तरूपग्रहणात् ॥


अतः श्रोत्रग्राह्यस्य शब्दत्वात् स्फोटस्य च श्रोत्रग्राह्यत्वाभावात् वर्ण
वादिनामेव—शब्दादर्थं प्रतिपद्यामहे इत्यनुकूलो लोकव्यपदेशः, न
स्फोटवादिनामिति स्थितम् ॥


स्फोटस्य श्रोत्रग्राह्यत्वाभावः


कथं पुनः श्रोत्रग्रहणत्वं स्फोटस्य न मृष्यते ? यावता पदं, वाक्य
मिति श्रोत्प्रकरणकमेकाकारं ज्ञानं प्रत्यात्मवेदनीयमस्तिः नचास्य वर्णा
II.174 आलम्बनीभवेयुरित्युक्तम् । न युक्तमुक्तम्—इह हि शाबलेयादौ प्रति
पिण्डं गौरिति बुद्धिरुपजायमाना सकलपिण्डसाधारणं रूपं विपयीकरोतीति
गोत्वसामान्यं तदिष्यते । एवं यदि प्रतिवर्णं872 पदं पदंमिति, वाक्यं
वाक्यमिति मतिरुपजायेत, जातिवत्, तर्हि पदं वाक्यं च सर्ववर्णवृत्ति
किमपि रूपमगच्छेम, न त्वेवमस्ति प्रतीतिः । यथा च तन्त्वाद्यव
यवपरिघट्टितपटादिकार्यविषयमाद्यनयनसन्निपातसमय एव भेदग्रहरहित
मवयविज्ञानमुदेति, तथा क्रमसमुच्चरदेकैकवर्णस्वरूपोपग्रहनिरपेक्षं यदि
पदमिति, वाक्यमिति ज्ञानं भवेत्, तत् पदादिकमवयविनमिव पदं वाक्य
मेकैकरूपमनुमन्येमहि, न त्वेवमस्ति । न हि तन्तुभिरिव पटः, वीरण
रिव कटः, वर्णैः पदमारभ्यते ॥


वर्णानां स्वत एव भिन्नत्वम्


यत्तु गौगौरित्येवंज्ञानमभेदग्राहि दृश्यते—तदेकाजुपाधेः । भिन्ना
जुपश्लेषे तु देवदत्त इत्यादौ नानाक्षरग्रहणमेव विलम्बितमनुभूयते । न
चैवं पटादिबुद्धिषु तदवयवाः कदाचित् विच्छेदेनावभासन्ते । तस्मान्ना
वयवीव, जातिरिव वा पदं वाक्यमभिन्नमवभासते ॥


स्फोटस्य सामान्यरूपत्वनिरासः


ननु च याऽसौ शब्दशब्दात् बुद्धिः, सैवेयं स्फोटबुद्धिः ॥

किमिदानीम् ?, यदेव 873शब्दत्वसामान्यं, स एव स्फोटः ?

II.175

मैवम्—स्फोट एवासौ न शब्दत्वं सामान्यं तत् । सामान्यं हि
तदुच्यते, यत्रैकव्यक्तिदर्शने व्यक्त्यन्तरानुसन्धानम्, शाबलेयग्रहणे बाहु
लेयस्येव । इहतु न गकारग्रहणे न वकारानुसन्धानमिति नेदं सामान्यम् ।
एकरूपस्त्वयं प्रतिभासः शब्दतत्त्वविषय एव । शब्दतत्त्वं च स्फोट
इत्युच्यते ॥


शब्दत्वं न स्फोटरूपम्


आ ! ज्ञातम्—अमुनैव हि भयेन 874कैश्चित् स्फोटशङ्किभिः शब्द
त्वसामान्यमपह्नुतम् । अस्थान एव त्वयं संसः । न हि शब्दत्वं
स्फोटः । प्रतिवर्णं हि शब्दः शब्द इति बुद्धिरस्ति, न च वर्णस्फोटः ।
तदिदं शब्दत्वसामान्यमेव शब्दबुद्धेरालम्बनम्, न स्फोटः ॥


सामान्यसिद्धौ तु व्यक्त्यन्तरानुसन्धानमकारणमिति प्रागेव
निर्णीतम् । तस्मान्नशब्दबुद्धावपि स्फोटोऽवभासते, पदवाक्यबुद्धा
विवेति ॥


एकश्च सत्यमाह यदियमेककार्यकारित्वनिबन्धना, वनपृतनादि
बुद्धिसमानयोगक्षेमैव पदवाक्यबुद्धिरिति । न च जात्यादिबुद्धिष्वसमा
श्वासः, वैलक्षण्यस्य दर्शितत्वात् ॥


पदवाक्यादिष्वेकत्वबुद्धेरुपपादनम्


यदपि—एककार्यकारित्वनिबन्धनायामभेदबुद्धौ इतरेतराश्रयपरि
चोदनं—एकार्थप्रतीतिपूर्विका पदवाक्यबुद्धिः, पदवाक्यबुद्धिपूर्विका चैकार्थ
II.176 प्रतीतिरिति पु. 140 तदपि न सम्यक्—स्मर्यमाणानुभूयमानवर्णजनितै
वेयमर्थप्रतीतिरित्यवोचाम, नाभिन्न875पदपरिच्छेदपूर्विकेति कुत इतरेत
राश्रयत्वम् ?


बुद्धेरेकत्वानेकत्वनिदानम्


ब्रूयात्—पदवाक्ययोरेकत्वमन्तरेण कथं पदवाक्यार्थप्रतोतिरेकरूपा
भवेदिति—सोऽयमतीव मुग्धालापः—प्रतीतिभेदाभेदौ हि विषयभेदाभेदा
वनुरुध्येते, नोपायभेदाभेदौ । भिन्नैरपि लोचनालोकान्तःकरणप्रभृति
भिरुपायैरभिन्नार्थग्राहिणी बुद्धिरुपजन्यत एव876 । तदिह पदार्थबुद्धेरेका
त्वार्त पदार्थ एको भवतु, योऽस्या विषयः । न त्वेकं 877पदं, यत् कारण
मिति । वाक्यार्थबुद्धेरप्येकत्वात् एको वाक्यार्थो भवतु, न त्वेकं वाक्यम् ।
वर्गीकरणकारणं क्रमभाविनां बहूनां वर्णानामेतत् भवति, यत् एकार्थ
प्रतिपादकत्वं, न त्वभेदमेव पदवाक्ययोर्गमयतीति ॥


शब्दार्थयोरभेदासंभवः


विप्रलब्धा एव च वैयाकरणाः पदवाक्ययोरप्यभेदं मन्यन्ते किल
878शब्दादनन्यभूत एव शब्दार्थं इति—स पुनरेषां व्यामोह एव, तद्भेदस्य
दृढप्रमाणसिद्धत्वात् । शब्दाध्यासस्तु प्रतीतिविरुद्धत्वेन नेष्यते—इत्यलं
तत्कथया । तस्मात् प्रत्यक्षगम्योऽपि न स्फोट इति सिद्धम् ॥


II.177

बुद्धेरैक्येऽपि पदादेः नैक्यम्


ननु ! अभिन्नत्वाद्वाक्यार्थबुद्धेः विषयभेदाभेदानुवृत्तित्वाच्च बुद्धि
भेदाभेदयोः अभिन्नो वाक्यार्थः स्यात्—बाढम्—अभिन्नः, न त्वनवयवः;
घटादेरभिन्नस्यापि सावयत्वात् ॥


शब्दानां सांशत्वनिरूपणम्


यत्तु निरवयत्वमुच्यते—तदतीव संवित्परामर्शकैशलशून्यं व्याहृतम्—


अंशास्सन्ति न सन्तीति चिन्ताऽत्यन्तमसङ्गता ।

निरंशस्त्वस्ति नास्तीति युक्तं चिन्तयितुं सताम्879

पदतदर्थभेदस्य प्रतिवाक्यं विस्पष्टमाभासमानत्वात् अनुपगृह्यमाणा
वयवविभागयोश्च वाक्यवाक्यार्थयोरनवभासमानत्वात् ॥


पदवाक्ययोस्सांशत्वं न भ्रमसिद्धम्


अस्त्ववयवप्रतीतिः सा तु भ्रान्तेति चेत्—न—बाधकाभावात् ।
भान्तेश्च बीजं किमपि वक्तव्यम् । सादृश्यमिति चेत्; कस्य केनेति न
विद्मः । यदि हि क्वचिन्मुख्या अवयवाः प्रसिद्धा भवेयुः, तत्सादृश्यात्
इतरत्र तदभावेऽपि भ्रम इति गम्येत—न त्वेवमस्ति—सर्ववाक्यानामप्य
भागत्वात्880 । नरसिंहेऽपि नरावयवाः सिंहावयवाश्च पृथक्पृथक् प्रत्य
भिज्ञायन्ते । तद्वदिहाप्यभ्युपगम्यमाने नूनं क्वचिद्वाक्ये सत्यत्वमवयवा
नामेषितव्यम् ॥


II.178

चित्रादीनामपि सांशत्वम्


चित्रेऽपि हरितालसिन्दूरादिरूपं, पानके 881त्वगेलादिरसः, ग्रामरागेऽपि
षड्जर्षभगान्धारादिस्वरजातं पृथगवगतमिति न ते निर्भागदृष्टान्ताः ।
चित्रादिबुद्धयस्तर्हि दृष्टान्ता इति चेत्—बाढम्—वाक्यार्थबुद्धिरपि
निर्भागेष्यत एवास्माभिः, बुद्धीनां निरंशत्वेन सर्वासामनवयवत्वात् ।
बुद्धिविषयीकृतस्त्वर्थो दृष्टान्तदार्ष्टान्तिकयोः सावयव एव । तस्मान्न
निर्भागौ वाक्यवाक्यार्थाविति युक्तम् ॥


पदशक्तिगहोऽपि वृद्धव्यवहारादेव


यदप्यभ्यधायि—वृद्धव्यवहारतः संबन्धबुद्धिः वाक्यवाक्यार्थयोरेव,
न पदतदर्थयोः; पदेन व्यवहाराभावादिति—तदप्यसाधु—वाक्यादपि
व्युत्पत्तिर्भवन्ती पदार्थपर्यन्ता भवति882 । एवं हि पदतदर्थसंस्कृतमतेर
भिनवविरचितादपि वाक्यात् वाक्यार्थप्रतीतिरुपपत्स्यते । तदावापोद्वाप
चक्रवैचित्र्येण वाक्यानामानन्त्यात् अशक्या प्रतिवाक्यं व्युत्पत्तिः883
सापि नापेक्षिष्यते । इतरथा हि साऽवश्यमपेक्ष्येत ॥


पदानामपि प्रयोगार्हत्वम्


यत्तु—केवलं पदं न प्रयुज्यत इति तदसत्यमिति—तदप्यसत्—महा
वाक्यस्थाने अवान्तरवाक्यं न प्रयुज्यत इति तदप्यसत्यं स्यात् । स्वार्थे
तत्प्रयुज्यत इति चेत्—पदमपि स्वार्थे क्वचित् प्रयुज्यत एव; यत्र पदा
II.179 न्तराणामर्थोऽर्थप्रकरणादिना लभ्यते, तत्र यावदप्राप्तं तावत्पदमेव केवलं
उच्चारयन्ति । ग्रन्थग्रहणावसरेषु च स्वरूपावधारणमपि फलवद्वर्णानाम् ।
मा वा फलवत्त्वं पदवर्णानां भूत्—तथापि रथावयवानामिव रथकार्येष्व
पर्याप्तशक्तीनामपि884 स्वरूपसत्त्वमनिवार्यम् । कार्यान्तराय रथात् रथा
वयवाः प्रभवन्तीति चेत्—पदवर्णा अपि कार्यान्तरे प्रभविष्यन्ति । रथ
कार्यैकदेशमात्रां कामपि रथावयवाः कुर्वन्तीति यद्युच्येत—पदान्यपि—
वाक्यकार्यैकदेशं कमपि कुर्वन्त्येव । वर्णा अपि केचिदर्थवन्तो भवन्त्येव ।
तस्मान्नासन्तः पदवर्णाः ॥


वर्णानां सावयवत्वप्रसङ्गपरिहारः


यत्पुनरवादि—वाक्यस्येव पदानि, पदानामिव वर्णाः, वर्णानामप्य
वयवान्तराणि स्युरिति—तदिदमपूर्वं पाण्डित्यम् । न हि घटाः सावयवा
इति परमाणुभिरपि सावयवैर्भवितव्यम् । परमाणवो वा निरवयवा
इति घटैरपि निरवयवैर्भवितव्यम् । उपलब्ध्यनुपलब्धी हि वस्तूनां
व्यवस्थापिके । यद्यथोपलभ्यते, तत्तथा भवति । यद्य था नोपलभ्यते,
तत्तथा न भवति । वाक्यपदयोश्च भागा उपलभ्यन्ते, न वर्णानाम् ।
तथा ह्युक्तमेतत् श्लो. वा. स्फोट-10


अल्पीयसाऽपि यत्नेन शब्दमुच्चारितं मतिः ।

यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम् इति ॥

तस्मात् बालिशचोदितमिदं—वर्णस्याप्यवयवा भवन्तु, पदवाक्ययो
रपि वा मा भूवन्निति ॥


II.180

पदवाक्ययोस्सावयवत्वे युक्त्यन्तरम्


इतश्च सावयवौ वाक्यवाक्यार्थै, 885पदोपजननापायाभ्यां तदर्थोपजन
नापायदर्शनात् । अनयैव युक्त्या पदभागा अपि प्रकृतिप्रत्ययादयः
तात्त्विका इत्यवगन्तव्याः, न कल्पनामात्रप्रतिष्ठाः । वृक्षं, वृक्षेणेत्यत्र
प्रकृत्यर्थानुगमे प्रत्ययार्थो भिद्यते । वृक्षं, घटमिति प्रत्ययार्थानुगम
प्रकृत्यर्थो भिद्यते । तत्र योऽर्थो यं शब्दमनुगच्छति, स तस्यार्थ इत्य
वसीयते । तत्कथमसत्या भागाः ?


वर्णानुगममात्रं नार्थानुगमहेतुः


यत्पुनः—कूपसूपयूपादौ सत्यपि वर्णानुगमेऽर्थानुगमो न दृश्यते ।
तेन चाकारणमर्थप्रतीतेर्वर्णानुगम इत्युक्तम्—तदयुक्तम्—यतो
886नान्वयव्यतिरेकाभ्यामनुत्पन्ना प्रतीतिरुत्पाद्यते, येन कूपादौ तदुत्पादन
माशङ्क्येत । प्रसिद्धायां तु प्रतिपत्तौ वाचकभागेयत्तानियमपरिच्छेदेऽ
नयोर्व्यापारः । न चैकत्र वर्णानुगमादर्थानुगमो दृष्ट इत्यन्यत्रादृश्य
मानोऽपि हठादापादयितुं युक्तः ॥


रेणुपटलानुगतपिपीलिकापङ्क्तिद्वारकव्यभिचारोद्भावनमपि न पेश
लम्—पांसुपटलविकलपिपीलिकापङ्क्तिदर्शनेन तस्याः तत्प्रतीतिकारित्वा
भावनिश्चयात्887 । करिकरभतुरगप्रभृतीनां तु प्रत्येकं व्यभिचारेऽपि बहु
प्राणिरूपसामान्यानपायात् तत्कारणमेव धूलीपटलमवगम्यते ॥


II.181

अश्वकर्णादिपदानां गमनिकाप्रदर्शनम्


यदपि—अश्वकर्णादौ अवयवार्थलोपात् अन्यत्राप्येवमिति कथितम्—
तदपि न चतुरश्रम्—अश्वकर्णशब्दो हि 888क्वचिदर्थप्रकरणवशात् न्यग्भव
दवयवशक्तितया तिरस्कृतावयवार्थवस्त्वन्तरव्यक्तौ न सर्वात्मनाऽवयवा
र्थाभावः; व्यस्तत्वेन सामस्त्येन वा पुनः प्रयोगान्तरे तदर्थसंप्रत्यय
दर्शनात् । अश्वमारोह कर्णे कुण्डलं इति व्यस्तयोः प्रयोगः । तुरग
श्रोत्रे तु प्रतिपिपादयिषिते अश्वकर्णः इति समस्तप्रयोगोऽपि तदर्था
परित्यागी दृश्यते इति न सर्वात्मना निरर्थका भागाः ॥


प्रकृतिप्रत्ययादिनिर्णयोपायः


यत्पुनः अन्वाख्यानविसंवादात् प्रकृतिप्रत्ययविभागनियमो नाव
कल्पत इति—एतदपि न युक्तम्—आप्ततरोक्तीनां प्रामाण्यात् । त्रिमुनि
व्याकरणमिति पाणिनिमतमेव हि प्रकृतिप्रत्ययविभागं अवितथं प्रत्ये
ष्यामः । क्रियत्यपि चांशे प्रायेण सर्वेषामन्वाख्यातॄणामविवादः । विक
रणादिविसंवादमात्रं त्वकिंचित्करम् । अतः पारमार्थिकत्वात् प्रकृति
प्रत्ययांशयोः न कल्पनामात्रेण पृथक्करणम् ॥


पदविभागव्यवस्थोपायः


यदप्यवर्णि—वर्णसामान्यात् पदविभागज्ञानं दुर्घटं—कालेनदन्ति
नागाः
इति—तदप्यसारम्—स्वरस्मरणादीनां पदभेदावगमोपायानां
संभवात् । 889सरामः इत्याख्यातस्य अन्यत् स्वरादिरूपम्, नाम्नोऽन्यत् ।
II.182 नामत्वेऽपि इति राम इति च द्वे पदे । तयोरन्यद्रूपम् । सह रामेण
वर्तत इत्येकपदेऽपि अन्यद्रूपमित्यभियोगविशेषवतां सर्वं सुभगमिति
नाशक्यः पदविभागपरिच्छेदः ॥


वर्णविकृतावपि प्रत्यभिज्ञानसंभवः


यदपि—दध्यत्र मध्वत्र इति तथाविधपदरूदादर्शनेऽपि तदर्थसंप्रत्यय
इत्युक्तम्—सोऽपि न दोषः—यतः ते एवैते पदे ईषद्विकृते, तत्प्रत्यभि
ज्ञानाच्चेति केचित् ॥


अथवा 890इगन्तदधिमधुपदवत् यणन्तयोरपि विषयान्तरे साधुत्वात्,
तथैव तद्विधात् व्युत्पत्तेः यणन्ते अपि पदे अर्थप्रतिपादके भविष्यत इत्यल
मेवंप्रायैः कदाशाव्याहृतैः ॥


पदानामसत्यत्वानुपपत्तिः


अपि च पदानामसत्यत्वे किमर्थ एष तद्व्युत्पत्तौ इयान् प्रयत्नो
वृद्धैराधीयते ?


असत्यमपि सत्योपायतां प्रतिपद्यत इति चेत्, न—अदृष्टत्वात्—
अलिकाहिदंशादयः सत्यमूर्छाहेतवो येऽत्रोदाहृताः, ते तथा न भवन्ति,
विषाशङ्काया अपि तत्कार्यहेतुत्वात् । शङ्का हि नाम बुद्धिः । बुद्धिश्च
न न कारणम् । न चासती बुद्धिः ॥


असत्यात्सत्यप्रतिपत्तिनिराकरणम्


यदपि लिप्यक्षराणामसत्यानां सत्यार्थप्रतिपादकत्वमुच्यते—तदप्य
नभिज्ञभाषितम्—रेखास्तावत् स्वरूपतः सत्याः । ताश्च 891खण्डिकोपा
II.183 ध्यायोपदेशसंस्कृतमतेः वर्णानुमापिका भवन्ति । तथा संबन्धग्रहणात् रेखा
नुमितेभ्यश्च वर्णेभ्यः अर्थप्रतिपत्तिरिति नासत्यास्सत्योपायाः ॥


अयं गकारः892 इति तु सामानाधिकरण्यभ्रमः लिङ्गलिङ्गिनोरभे
दोपचारात् । यथा प्रस्थमिताः सक्तवः प्रस्थशब्देनोच्यन्ते, तथा रेखा
तोऽपि गकारानुमानात् रेखैव गकार इत्युच्यते । एवमनिष्यमाणे लिप्य
नभिज्ञस्यापि ततोऽर्थप्रतिपत्तिः स्यात्, रेखानामसत्यवर्णानां विद्यमान
त्वात् । न चेवमस्ति । तस्मात् वर्णानुमानपुरस्सरैव रेखाभ्योऽर्थावगतिः ।
अभ्यस्तत्वाद्विषयस्य, सक्ष्मत्वाच्च कालस्य क्रमो न लक्ष्यते, न त्वन्यथा
ततोऽवगतिः । तस्मात् पारमार्थिकत्वात् पदतदर्थानां न निरवयवौ
वाक्यवाक्यार्थाविति स्थितम् ॥


यत्पुनः वाक्यभागपदवर्णापह्नववर्त्मना शब्दब्रह्यैवाद्वयमुपदर्शयितु
मुपक्रम्यते—तत्र पुरस्तात् सविस्तरं समाधिमभिधास्यामः ॥


वाचस्त्रैविध्यतात्पर्यम्


यत्पुनरवादि वाचस्त्रैविध्यं—तदपि नानमन्यन्ते । एकैव वैखरी
वाग्वागिति प्रसिद्धा हि ॥


अन्तस्संजल्पो वर्ण्यते मध्यमा वाक्

सेयं बुद्ध्यात्मा नैष वाचः प्रभेदः ।

बुद्धिर्वाच्यं वाचकं चोल्लिखन्ती893

रूपं नात्मीयं बोधभावं जहाति ॥

II.184
पश्यन्तीति तु निर्विकल्पकमतेर्नामान्तरं कल्पितं ।

विज्ञानस्य हि न प्रकाशवपुषः वाग्रूपता शाश्वती ।

894जातेऽस्मिन् विषयावभासिनि ततः स्याद्वाऽवमर्शो गिरः

न स्याद्वापि न जातु वाग्विरहितो बोधो895 जडत्वं स्मृशेत् ॥

स्फोटवादोपसंहारः


तदास्तामियं शब्दब्रह्मचर्चा । प्रकृतमनुसरामः ॥


इति 896विततया वर्णा एते धिया विषयीकृताः

दधति पदतां वाक्यत्वं वा त एव च वाचकाः ।

न च तदपरः स्फोटः श्रोत्रे विभात्यवबोधने

न च 897विधिहतो वाच्ये बुद्धिं विधातुमसौ क्षमः ॥

—इति स्फोटनिराकरणम्—


II.185

—वाक्यार्थबोधविचारः—


पदार्थनां वाक्यार्थबोधजनकत्वपक्षः


एवं स्फोटे प्रतिहते, वर्णेषु वाचकेषु स्थितेषु कश्चिदाह—वाढं
वर्णेभ्यः पदार्थप्रतीतिरस्तु । वाक्यार्थप्रतीतौ न तेषां सामर्थ्यम् ॥


कुतस्तर्हि वाक्यार्थावगतिः ? पदार्थेभ्य इत्याह ॥


तथा च वर्णानां पदार्थप्रतिपत्तौ चरितार्थत्वात् न वाक्यार्थे सामर्थ्यम् ।
अपरिम्लानसामर्थ्यास्तु पदार्था आसते । ते वाक्यार्थबुद्धेर्विधातारः ॥


898अर्थापत्त्या हि वर्णानां कार्येषु शक्तयः कल्प्यन्ते । तत्र पदार्थं
बुद्धेरन्यथानुपपन्नत्वात् यथोक्तनीत्या वर्णानां तत्प्रतिपादने शक्तिरव
गम्यते । वाक्यार्थप्रतीतिः पुनरन्यथाऽप्युपपद्यमाना न तत्र तेषां शक्ति
मुपकल्पयितुमर्हति ॥


वर्णानां वाक्यर्थबोधजनकत्वासंभवः


किंच किमेकमेव संस्कारमादधाना वर्णाः पदार्थं वाक्यार्थं च
बोधयन्ति, भिन्नं वा ? तत्र च—


एकयैव हि संस्कृत्या कथं कार्यद्वयं भवेत् ।

न चैषां पूर्वसंस्कारात् अन्योऽस्तीति प्रतीयते ॥

वाक्यार्थप्रतीतेरन्यथापि भावात् न नानासंस्कारकल्पनाबीजमस्ति ॥


अपि च पदेषु पूर्ववर्णेषु नातिदूरमतिक्रान्तेषु बुद्ध्योपसंहर्तुं शक्येषु घट
मानं अन्त्यवर्णवेलायामनुसंधानं वाक्येषु पुनरतिचिरतरतिरोहिताक्षरपर
II.186 परानुसन्धानमतिक्लिष्टमदृष्टपूर्वमिति दुर्घटमेतत् । व्यवहितपदोच्चारणे
तु दृश्यते वा वाक्यार्थप्रतीतिः, यत्र पूर्ववर्णानुसन्धानगन्धोऽपि नास्ति ।
तस्मान्न वर्णा वाक्यार्थबुद्धिहेतवः ॥


वर्णानां वाक्यार्थबोधजनकत्वानुपपत्तिः


अपि च पदार्थं वाक्यार्थं च प्रतिपादयन्तो वर्णाः—युगपत् प्रतिपाद
येयुः, क्रमेण वा ? तत्र सकृदुच्चरितानां युगप899दुभयकरणमनुपपन्नम्,
अशक्यत्वात् ॥


क्रमपक्षेऽपि पूर्वं चेत् वाक्यर्थप्रतिपादनं, तदयुक्तम्—अनवगत
पदार्थस्य वाक्यार्थप्रत्ययादर्शनात् । अथ पूर्वं पदार्थप्रतिपादनं, ततो
वाक्यार्थप्रत्यायनं, हन्त तर्हि पदार्थप्रत्ययादेव वाक्यार्थबुद्धेः सिद्धत्वात्
किमिति पुनः व्यापारान्तरे श्रम आश्रीयते । तस्मात् पदार्थप्रतिपादनपर्य
वसितसामर्थ्यानि पदानि । पदार्थेभ्यस्तु वाक्यार्थप्रत्यय इति सिद्धम् ॥


वर्णानामनुपस्थितावपि वाक्यार्थज्ञानसंभवः


अपि च अन्वयव्यतिरेकाभ्यामेवं अवगम्यते—यत् पदार्थपूर्वको
वाक्यार्थ इति । यो हि मानसादपचारात्900 श्रुतेष्वपि पदेषु पदार्थान्नाव
गच्छति, नावगच्छत्येव वाक्यार्थम् । यस्तु अश्रुतेष्वपि पदेषु प्रमाणान्त
रतः पदार्थान् जानीयात्, जानात्येवासौ वाक्यार्थम् ॥


पश्यतः श्वे901मारूपं हेषाशब्दं च श्रृण्वतः ।

खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ श्लो. वा-वाक्य-335

II.187
दृष्टा वाक्यविनिर्मुक्ता न पदार्थैर्विना क्वचित्

इति ॥


तदेषा वाक्यार्थबुद्धिः पदार्थप्रतीतिं न व्यभिचरति । व्यभिचरति
तु पदप्रतीतिमिति न तत्कार्या भवितुमर्हतीति ॥


पदार्थानामेव वाक्यार्थबुद्धिजनकत्वम्


यदप्युच्यते—प्रत्येकं व्यभिचारात्, समुदितानामसाधारण्यात्902
पदार्थानां वाक्यार्थावगतिहेतुत्वमिति—तदप्ययुक्तम्—प्रत्येकं तावत् गम
कत्वं नेष्यत एव । समुदितानां त्वसाधारण्यं भवदपि न नः क्षतिकरम् ।
न ह्येते लिङ्गवत् संबन्धग्रहणमपेक्षमाणा अवबोधकाः, यदसाधारण्या
न्नावकल्पेत । किन्तु अगृहीतसंबन्धा अपि आकाङ्क्षायोग्यतासन्निधि
तात्पर्यपर्यालोचनया परस्परं संसृज्यन्ते । स एव वाक्यार्थः, यः 903संसृष्टः
पदार्थसमुदायः, इतरविशिष्टो वेतर इति ॥


नाप्यशाब्दत्वमित्थं वाक्यार्थप्रतीतेराशङ्कनीयम्, शब्दावगतिमूल
त्वेन तस्याः शाब्दत्वात् । शब्दात् पदार्थप्रतिपत्तौ वाक्यार्थप्रतिपत्तिरिति
सर्वमनवद्यम् । तदुक्तं—पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापा
राणि
। अथेदानीमवगताः पदार्था एव वाक्यार्थमवगमयन्ति शा. भा.
1-1-25
इति ॥


II.188

वाक्यैरेव वाक्यार्थबोधपक्षः


त्राप्यभिधीयते—न पदार्थेभ्यो वाक्यार्थावगतिः, अपि तु वाक्या
देव । तथा चायं वाक्यार्थ इति प्रसिद्धिः, न पदार्थार्थ इति । यथा हि
काल्पनिकवर्णसमूहात्मकं पदं पदार्थप्रतिपत्तिमादधाति, तथा काल्पनिक
पदसमूहात्मकं वाक्यं वाक्यार्थप्रतिपत्तिमाधास्यति ॥


ननु ! पदसमूहात्मकं वाक्यमन्यन्नास्ति, किन्तु पदान्येव वाक्यम् ।
पदानां च स्वार्थे चरितार्थत्वात् न वाक्यार्थसामर्थ्यमित्युक्तम्—नैतद्युक्तम्
—पदार्थानामपि चरितार्थत्वात् । क्व तेषां चरितार्थत्वम्—904स्वप्रति
पतौ ॥


पदार्थानां वाक्यार्थबोधाजनकत्वम्


ननु ! पदानि स्वप्रतिपत्तौ चरितार्थीभूय पदार्थप्रतिपत्तिमादधति ।
पुनस्तान्येव कथं वाक्यार्थप्रतिपत्तिमाधास्यन्ति ? पदार्थास्तु स्वावगते
रूर्ध्वं न क्वचित्परत्रचरितार्था इति वाक्यार्थबुद्धेर्विधातारो भवन्तु—नैत
देवम्—अन्त्यपदस्यान्यत्र चरितार्थत्वाभावात् ॥


अन्त्यपदमेव पूर्वपदस्मरणोपकृतं वाक्यमुच्यते । तदर्थश्च पूर्वपदार्थ
विशिष्टो वाक्यार्थ इत्येके । तस्मात् वाक्यादेव वाक्यार्थप्रत्ययः ॥


पदानां वाक्यार्थबोधजननप्रकारः


किन्तु—किमेकसंस्कारस्मरणेन 905कार्यद्वयं पदानि विदधाति विभिन्न
संस्कारेण वा ? इति—तत्र कार्यभेदात् कारणभेदानुमानमिति प्रसिद्ध
II.189 एष पन्थाः । एकोऽप्यतीन्द्रियः संस्कारः कार्यात् कल्प्यते; बहवोऽपि
तत एव कल्पयिष्यन्ते, कार्यस्य भिन्नत्वात् ॥


यदपि चिरतिरोहितवर्णप्रबन्धानुसन्धानं दुर्घटमिति कथितं—तदपि
न चारु—कयाचित्कल्पनया वर्णानामिव पदबुद्धौ, पदानामपि वाक्यबुद्धा
वुपारोहसंभवात् । एतच्चानन्तरं दर्शयिष्यते ॥


यदपि विकल्पितं—युगपद्वा क्रमेण वा वर्णाः पदवाक्यार्थप्रत्यये
व्याप्रियेरन् ? इति—तत्राप्युच्यते—यौगपद्यं तावदनभ्युपगमादेव प्रत्यु
क्तम् । क्रमोऽप्येषामीदृशः—यत् प्रथमं पदार्थमवगमयन्ति, ततो
वाक्यार्थम् । सोऽयं तर्हि पदार्थपूर्वक एव वाक्यार्थ उक्तो भवतीति
चेत्—मैवम्—पदार्थो हि नाम प्रमेयमेव । न ते प्रमाणवर्गे
निपतन्ति । न च पदार्थवाक्यार्थयोरत्यन्तं भेदः, येन तयोः धूमाग्न्योरिव
संबन्धग्रहणसापेक्षयोः तदनपेक्षयोर्वा रूपदीपयोरिव प्रत्याय्यप्रत्यायक
भावः । न हि स्वशरीर एव गम्यगमकवाचोयुक्तिः प्रवर्तते । कथं
भवान् स्वभावहेतुवादिनो बौद्धस्य शिष्य इव निर्वृत्तः ॥


पदैः व्यक्तिबोधनप्रकारः


ननु ! सामान्ये हि पदं वर्तते, विशेषे च वाक्यम् । अन्यच्च
सामान्यम्, अन्ये च विशेषाः । यदुक्तं—


सामा906न्यान्यन्यथासिद्धेः विशेषं गमयन्ति हि

इति व्यतिरेक एव प्रत्याय्यप्रत्यायकयोः—उच्यते—बाढम् ?
अस्त्ययमियान् व्यतिरेकः । किन्तु विरतव्यापारे चक्षुषीव शब्दे, धूमा
II.190 दिवत् प्रमेयात् पदार्थात् अग्नेरिव वाक्यार्थस्यावगमो नास्ति । न हि
पदार्थाः प्रमेयीभूय धूमवत् पुनः प्रमाणीभवितुमर्हन्ति907 । किन्तु पदान्येव
तत्प्रतिपादनद्वारेण वाक्यार्थप्रतिपत्तौ पर्यवस्यन्ति । कथमात्मीयमेव ग्रन्थं
नावबुध्यन्ते भवन्तः ! श्लो-वा-वाक्य-340


वाक्यार्थप्रत्यये 908तेषां प्रवृत्तौ नान्तरीयकम् ।

पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् इति ॥

अवान्तरव्यापारो हि न कारकस्य प्रधाने व्यापारे कारकतां
व्याहन्ति । पदानां हि द्वयी शक्तिः, अभिधात्री तात्पर्यशक्तिश्च । तत्र
अभिधात्री शक्तिरेषां पदार्थेषूपयुक्ता । तात्पर्यशक्तिश्च वाक्यार्थे
पर्यवस्यतीति ॥


तात्पर्यवृत्त्या व्यक्तिबोधः


भाष्यकारोऽपि पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि
इति वदन् अभिधाव्यापार एव शक्तेः विरतिमाह, न तात्पर्यशक्तेः ।
अभिधाय निवृत्तव्यापाराणि पदानि यदर्थपराणि, तत्रानिवृत्तव्यापारा
ण्येव । एवं हि शाब्दता वाक्यार्थप्रत्ययस्य न हास्यते । सर्वात्मना तु विरत
व्यापारे शब्दे, साऽवश्यं हीयते । शब्दावगतिमूलत्वात्तु शाब्दत्वे श्रौत्र
त्वमपि स्यात्, श्रोत्रस्य पारंपर्येण तन्मूलत्वात् । शब्दे च विरतव्यापारे
कतमत् तत्प्रमाणम्, यस्य वाक्यार्थप्रतीतिः फलमिति न विद्मः ॥


न प्रत्यक्षम्, अतीन्द्रियत्वाद्वाक्यार्थस्य । नानुमानम्, न चानु
मानमेषा धीः
श्लो-वा-1-1-1-त्रो-232 इत्यादिना ग्रन्थविस्तरेण स्वयमेव
निरस्तत्वात् । न शब्दः, निवृत्तव्यापारत्वात् ॥


II.191
सामान्यान्यन्यथासिद्धेः विशेषं गमयन्ति हि

इति न्यायात् । अर्थापत्तिरिति चेत्, किमिदानीमर्थापत्तिगम्यो
909धर्मः ? न चैतद्युक्तं, इष्टं वा । तदिदं सप्तमं910 प्रमाणमवतरति पारार्थ्यं
नाम । एतच्चापि नेष्टम् । अतो न पदार्थनिमित्तकः वाक्यार्थप्रत्ययः ॥


शाब्दबोधस्य शब्दजन्यत्वोपपत्तिः


यदप्युक्तं—अन्वयव्यतिरेकाभ्यां पदार्थनिमित्तकत्वं वाक्यार्थस्याव
गम्यत इति—तत्र पदार्थसंसर्गस्वभावत्वाद्वाक्यार्थस्य सत्यं तत्पूर्वकत्व
मिष्यत एव वाक्यप्रतिपत्तेः, न तु तज्जन्यत्वं, शब्दव्यापारानुपरमात् ।
मानसे चापचारे911 सति पदानामपि ग्रहणं नास्त्येव, यतः क्षणान्तरे
समाहितचेताः स वक्ति नाहमेतदश्रौषम्, अन्यत्र मे मनोऽभूत्, पुनर्ब्रूहि
इति । इतरथा हि पदानि स्मृत्वा तदर्थमेवावगच्छेत्, न पुनः पृच्छेत् ।
तस्मात् पदानां ग्रहणमेव तत्र वाक्यार्थावगमे निमित्तम् ॥


प्रमाणान्तरोपस्थितस्य न शाब्दबोधविषयत्वम्


यदपि—पश्यतः श्वेमारूपं इति—तदपि न किंचित् । किं
प्रत्यक्षेण शुक्लो गौः गच्छत् दृश्यते । न शुक्लो गौः गच्छतीति वाक्यस्यार्थो
न भवति । प्रत्यक्षप्रतिभासात्तु प्रत्यक्षार्थ एवासौ न वाक्यार्थ इत्युच्यते ।
एवं श्वेतोऽश्वो धावति इत्यानुमानिकोऽयं प्रत्ययः पर्वतेऽग्निरितिवत् ।
वाक्यश्रवणात्तु विना न वाक्यार्थो भवितुमर्हतीत्यलं प्रसङ्गेन ॥


II.192

तस्मात् वर्णेभ्य एव कयाचित्कल्पनया पदवाक्यभावमुपगतेभ्यः
पदार्थवाक्यार्थप्रत्यय इति युक्तम् । तस्मात् पदार्थजन्या न भवति912
वाक्यार्थबुद्धिरिति सिद्धम् । अनुपरतव्यापारात् वाक्यादेवेयमुद्भवति ॥


वर्णानां पदभावोपगमप्रकारनिरूपणम्


आह—कया पुनः कल्पनाया पदवाक्यभावमुपगता वर्णाः पदार्थ
वाक्यार्थप्रतीतिमादध्युरिति ॥


तत्र आचार्यास्तावदिमां कल्पनामदीदृशन् । प्रथमं वर्णज्ञानं, ततः
संस्कारः । ततो द्वितीयवर्णज्ञानं, तेनप्रथमवर्णंज्ञानजनितेन च संस्कारेण
पटुतरसंस्कारः । ततः तृतीयवर्णज्ञानं, तेन प्राक्तनेन संस्कारेण पटुतरः
संस्कारः । एवं यावदन्त्यवर्णज्ञानम् । अन्त्यवर्णज्ञानानन्तरं तु ततः
संस्कारात् सकलपूर्ववर्णविषयमेकस्मरणम् । तेनान्त्यवर्णज्ञानस्य विन
श्यत्ता । विनश्यदवस्थग्रहणस्मरणविषयीकृतो वर्णसमूहः पदमिति
ज्ञायते ॥


वाक्यभावप्रदर्शनम्


ततः पदज्ञानात् संस्कारः । ततः तथैव वर्णक्रमेण द्वितीयपदज्ञानम् ।
तेन प्रथमपदज्ञानजन्मना च संस्कारेण पटुतरसंस्कारो जन्यते । पुनस्ते
नैव क्रमेण तृतीयपदज्ञानम् । तेन प्राक्तनेन च संस्कारेण पीवरतरः
संस्कारः जन्यते । एवं यावदन्त्यपदज्ञानं अन्तरेण स्थवीयसा संस्कारेण
सर्वपदविषयमेकस्मरणमुपजन्यते । संस्कारस्यैवैकत्वात् सोऽयं स्मरणानु
भवविषयीकृतवर्णसमूह एव पदम् । पदसमूहो वाक्यमित्युच्यते । ततो
II.193 वाक्यार्थप्रतिपत्तिः । संस्कारस्य च संस्कारान्तरकरणकौशलमवश्यमेषि
तव्यम् । अन्यथा सर्वत्र क्रियाभ्यासोऽनर्थकः स्यादिति ॥


वर्णानां पदवाक्यरूपतापत्तिनिराकरणपक्षः


अत्र वदन्ति—नेयं प्रक्रिया साध्वी, ज्ञानयौगपद्यप्रसङ्गात् । तथा,
हि—चरमपदप्रतिभासानन्तरं यथा पूर्वपदस्मरणं, तथा तदैव संकेतस्मर
णेनापि भवितव्यम् । अनवगतपदार्थसंबन्धस्य हि न वाक्यार्थप्रतीतिः ।
अस्मृतसंकेतस्य च न पदार्थप्रतीतिः । यत्राप्यभ्यस्ते विषये संकेतस्मृतिर्न
संवेद्यते, तत्राप्यविनाभावस्मृतिरेव बलादसौ कल्प्यते, अनवगतपदपदार्थ
संबन्धस्य नारिकेलद्वीपवासिन इवार्थप्रत्ययाभावात् । संबन्धानुभवस्य च
पूर्ववृत्तत्वेनेदानीं स्मरणमुखेनौपकारित्वात् । तस्मादन्त्यपदज्ञानानन्तरं
पूर्वपदसमय913स्मरणयोः युगपदुत्पादात् ज्ञानयौगपद्यम् ॥


पदैः वाक्यज्ञाने ज्ञानयौगपद्यं दुर्वारम्


अथ समयस्मरणानन्तरं पूर्वपदस्मरणमुपेयते—तथापि तत्स्मृतिकाले
पदार्थज्ञानोपजननात् पुनरपि ज्ञानयौगपद्यम् । न च तदा पदार्थज्ञानं नोदे
तीति शक्यते वक्तुम्, अविकलतदुपजननकारण914सामग्रीसन्निधानात्,
प्रतिनायकस्य च तदानीमभावात् । पदार्थज्ञानोत्तरकालं तर्हि पूर्वपद
स्मरणमस्त्विति चेत्; एवं तर्हि चरमपदज्ञानप्रत्यस्तमयात् अन्त्यपद
915 II.194 रहितं वाक्यं स्यात् । अन्त्यपदज्ञानस्य हि सङ्केतस्मृतिवेलायां विनश्यत्ता,
पदार्थज्ञानवेलायां विनाश एव यतः ॥


असंवेद्यमानशब्दसत्ताऽसंभवः


ब्रूयात्—असंवेद्यमानमपि तदानीमन्त्यपदमस्त्येवेति—स्वस्ति तर्हि
न्यायविस्तराय916


अपिच तदानीमनुपलभ्यमानेनापि सता किमन्त्यपदेन क्रियते ?
पुनरवगमोऽस्य भविष्यतीति चेत्; स कुतस्त्यः ? श्रोत्रस्य विरम्यव्या
पारासंवेदनात् । मनसश्च स्वातन्त्र्येण बाह्ये विषये सामर्थ्यासंभवात् ।
सत्यपि पुनस्तदवगमे ज्ञानयौगपद्यानपायात् ॥


अपिच पूर्वपदैः 917अर्थशून्यतया शुष्कनीरसतनुभिः अन्त्यपदानुभव
समनन्तरं स्मृतैरपि को गुणः ? न हि तथाविधपदस्मरणमर्थप्रत्याय
नाङ्गम् ॥


अथ सार्थकानि प्रांचि पदानि स्मर्यन्ते, तर्हि समयस्मरणपदार्थज्ञाना
दिकार्यसाङ्कर्यकृतं अनेकशाखं 918प्रतिपदं ज्ञानयौगपद्यमापद्यत इत्यसतीयं
कल्पना ॥


वर्णानां पदवाक्यभावे पक्षान्तरम्


व्याख्यातारस्तु प्रक्रियान्तरमाचचक्षुः—वर्णानुगमरूपेण तावत् प्रथम
II.195 पदज्ञानमुत्पद्यते । ततः सङ्केतस्मरणम् । तेन विनश्यदवस्थेन पदज्ञानेन
स्वविषयावच्छेदेन पदार्थज्ञानमाधीयते, यत्र वाचकावच्छिन्नं वाच्यस्वरूप
मवभासते । तथाविधपदार्थज्ञानान् संस्कारः । ततः तथैव क्रमेण
द्वितीयपदज्ञानम् । तदनु समयस्मरणम् । तेन विनश्यदवस्थेन च द्वितीय
पदज्ञानेन तथैव स्वावच्छेदेन स्वार्थज्ञानम् । तेन प्रथमपदार्थज्ञानाहितेन
च संस्कारेण दृढतरः संस्कारः । पुनर्वर्णक्रमेण तृतीयपदक्रमेण तृतीयपद
ज्ञानम् । पुनः सङ्केतस्मरणम् । सङ्केतस्मृतिसहायेन तेन विनश्यदव
स्थेन स्वार्थे तथैव स्वावच्छिन्नं ज्ञानम् । तेन प्राच्येन च संस्कारेण
दृढतरः संस्कारः । एवं तावत् यावदन्त्यपदज्ञानात् स्वावच्छिन्नार्थप्रतीतिः ।
ततः पूर्वोपचितात् महतः संस्कारात् विशिष्टसर्वविषयमेकं स्मरणम्, यस्य
स्वाभिधानावच्छिन्नाः सर्वे पूर्वपदार्था विषयतां प्रतिपद्यन्ते । तस्मिन्
स्मरणे तथान्त्यपदार्थज्ञानेऽवच्छेदकत्वेन प्रस्फुरत्पदसमूहो वाक्यम्, अव
च्छेद्यत्वेन प्रकाशमानोऽर्थसमूहो वाक्यार्थः । एवं स्मर्यमाणानुभूयमानौ
पदपदार्थंसमूहौ वाक्यवाक्यार्थाबुक्तौ भवतः ॥


पक्षान्तरनिराकरणम्


एतदपि न विचारक्षमम्—अन्त्यपदार्थप्रतीतिसमये तदवच्छेदकतया
प्रतिभासमानं पदं तत्प्रतीतौ तावत् कारणमिति नात्र विमतिः । स्वयं च
प्रतिभासमानत्वात् कर्मापि भवत्येव । तस्येदानीं कर्मत्वे करणं चिन्त्यम् ।
न श्रोत्रं तावत् करणम्, अन्त्यपदप्रतीत्यनन्तरमेव तद्व्यापारस्य विरत
त्वात् । विरम्य च पुनर्व्याप्रियमाणत्वानुपपत्तेः । मनस्तु बाह्ये विषये
स्वातन्त्र्येण प्रवर्तितुमसमर्थम् । तत्प्रवृत्तौ सर्वाण्येव प्रथमपदात्प्रभृति
पदानि मानसव्यवसायगोचराणि भवन्तु; किं स्मर्यमाणत्वमन्ये
षामुच्यते ?919


II.196

अथ तदन्त्यपदं अर्थे इव आत्मन्यपि तदवच्छेदकत्वप्रतिपत्तेः करणत्वं
प्रतिपत्स्यत इति मन्यसे—तदयुक्तम्—स्वप्रतीतौ तस्य कर्मत्वात् । न
चैकस्यामेव क्रियायां तदेव कर्म करणं च भवितुमर्हति । विस्तरतश्चायं
वाचकावच्छिन्नवाच्यप्रतिभासः प्रत्यक्षलक्षणे प्रतिक्षिप्त इति अलं पुनस्त
द्विमर्देन ॥


वाक्यार्थबोधप्रकारे पक्षान्तरम्


अपर आह—प्रथमं पदज्ञानम् । ततः सङ्केतस्मरणम् । ततः
पदार्थज्ञानम् । पदार्थज्ञानात् पदज्ञानस्य विनश्यत्ता । विनश्यदवस्थ
पदज्ञानमपेक्षमाणं श्रोत्रं प्रथमपदावच्छेदेन द्वितीयपदे ज्ञानमादधाति ।
द्वितीयपदज्ञानानन्तरं पुनः संबन्धस्मरम् । ततः पदार्थज्ञानम् । तेन
द्वितीयपदज्ञानस्य विनश्यत्ता । विनश्यदवस्थपदज्ञानसहायात् श्रोत्रात्
तथैव तदवच्छेदेनोत्तरोत्तरपदज्ञानं तावत् यावदन्त्यपदज्ञानमिति ॥


तदज्ञानानन्तरं च प्राक्तनप्रक्रियावत् नात्र पूर्वपदस्मरणमुपयुज्यते ।
तत्फलस्य च विनाशदशापतितपदज्ञानकृतावच्छेदमहिम्नैव सिद्धत्वात् ।
तस्य हि फलमन्त्यपदावगमसमये सकलपूर्वपदोपस्थापनम् । तच्च विनश्य
दवस्थपूर्वपूर्वपदज्ञानकृतोत्तरोत्तरपदानुराग920बलादेव लब्धमिति किं तत्स्मर
णेन ? तदभावाच्च नात्र ज्ञानयौगपद्यादिचोद्यावसरः समस्ति । यथो
पदर्शितान्त्यपदज्ञानमेव च वाक्यार्थज्ञानमिति न तस्य चरितार्थत्वमन्यत्र
इत्येवं वाक्यादेव वाक्यार्थप्रत्ययः सेत्स्यति, न पदार्थेभ्य इति ॥


II.197

ज्ञानोपजननानुपपत्तेः । प्रथमपदज्ञानानन्तर हि संबन्धस्मरणम् । तेनैव
तस्य विनश्यत्ता । पदार्थप्रतिपत्तिकाले च पदज्ञानं विनष्टमेव । विन
श्यदवस्था बुद्धिः बुद्ध्यन्तरविरोधिनीति सामान्येन श्रवणात् ॥


ज्ञानविशेषयोयौगपद्यसंभवपक्षः


ब्रूयात्—कार्यभूतया बुद्ध्या कारणभूतबुद्धिः विरुद्ध्येत, न बुद्धि
मात्रेण921 बुद्धिमात्रमिति—एतदयुक्तम्—विशेषे प्रमाणाभावात ॥


अभ्युपगम्यापि ब्रूमः—विशेषे प्रमाणभूतयोरेव बुद्ध्योर्भवतु वध्य
विघातभावः । तथापि पदज्ञानं संकार इव 922समयस्मृतेः कारणमेव,
संस्कारेणेव तेनापि विना तदनुत्पादात् । संस्कारप्रबोधे तस्य व्यापार
इति चेत्; तेनापि द्वारेण यत् कारणं, तत् कारणमेव । तदिह पदज्ञानं
समयस्मरणं, पदार्थज्ञानमिति त्रीणि ज्ञानानि युगपदवतिष्ठन्त इति परः
प्रामदः ॥


एतत्पक्षेऽपि ज्ञानयौगपद्यं दुर्वारम्


अपि च पदज्ञानमुपजायमानं वर्णक्रमेण जायते, न सहसैव; निरंश
पदवादस्य व्युदस्तत्वात् । तत्र च द्वित्राणि, त्रिचतुराणि, पंचषाणि
वाऽक्षराणि क्रमेण ग्रहीष्यन्ते । तद्विषया हि क्रमभाविन्यः उपजनना
पायधर्मिका बुद्धयः । अत्रान्तरे विनश्यदवस्थमाद्यपदज्ञानमासिष्यते,
तदुपरागेण द्वितीयपदज्ञानमुत्पत्स्यत इति दुराशैवेयम् ॥


II.198

व्यवहितपदोच्चारणेऽपि शाब्दबोधः


अपिच व्यवहितोच्चरितेभ्योऽपि पदेभ्यः वाक्यार्थप्रत्ययः दृश्यते ।
यत्रानेककार्यपर्यालोचनाव्यग्रहृदयः स्वामी रे कन्दलक ! इत्युक्त्वा,
कार्यान्तरं संविधाय, तुरगं इति वदति । पुनः प्रयोजनान्तराय व्यव
हृत्य, कल्पितपर्याणं इत्यादि वक्ति । पुनरन्यत् किमपि कृत्वा ब्रवीति
आनय इति । तत्र रे कन्दलक ! कल्पितपर्याणं तुरगमानय इति
वाक्यार्थावगमो भवति । भवन्मते चासौ दुरुपपादः । पदानुरागस्य
तत्रासंभवात्923पूर्वपदस्मरणस्य चानभ्युपगमात् ॥


शङ्करस्वामिपक्षः


किंच न प्रवरमतानुसारिणामिव भवतां विशेष्यबुद्धिषु विशेषण
विशेष्ये द्वे वस्तुनी आलम्बनम्, अपि तु विशेष्यमात्रम्, उपायभेदादेव924
प्रतीत्यतिशय इति । ततश्च सत्यपि पूर्वपदानुरागे तत्प्रतिभासाभावात्
शुद्धमेव द्वितीयपदज्ञानं संपन्नमिति किं तदनुरागेण ? अतश्चेयमनुपपन्ना
कल्पना, यतो द्वितीयपदस्य स्वार्थे शुद्धस्यैव सङ्केतग्रहणं वृत्तम् । यदा
क्वचित् प्रथमं प्रयुक्तमासीत्, अधुना तु तत्पदं पदान्तरोपरक्तं संजात
मिति तादृशस्यागृहीतसंबन्धत्वादर्थप्रतिपत्तिहेतुत्वं न स्यादित्यास्तामपूर्व
मिदं शङ्करस्वामिनः925 पाण्डित्यम् ॥


स्वमतेन वाक्यार्थबोधोपवर्णनम्


आह—यदीमाः सर्वा एव सदोषाः तान्त्रिकरचिताः कल्पनाः
न साधीयस्यश्चेत्, तदाऽऽत्मीया का चन निर्दोषा साध्वी कल्पना
II.199 निवेद्यताम्—उच्यते—न वयमात्मीयामभिनवां कामपि कल्पनामुत्पादयितुं
क्षमाः ॥


न हीयं कविभिः पूर्वैः अदृष्टा सूक्ष्मदर्शिभिः ।

शक्ता तृणमपि द्रष्टुं मतिर्मम तपस्विनी ॥

कस्तर्हि विद्वन्मतितर्कणीयग्र-

न्थोपबन्धे तव दोहदोऽयम् ।

न दोहदः, पर्यनुयोगभूमिः,

परोपदेशाच्च न तस्य शान्तिः ॥

राज्ञा तु गह्वरेऽस्मिन् अशब्दके बन्धने विनिहितोऽहम् ।

गन्थरचनाविनोदात् इह हि मया वासरा गमिताः ॥

स्वमते वर्णेभ्य; वाक्यार्थबोधवर्णनम्


तथापि वक्तव्यं कथं वर्णेभ्यो वाक्यार्थप्रतीतिरिति । उच्यते—
चिरातिक्रान्तत्वं अचिरातिक्रान्तत्वं वा न स्मृतिकारणम् । संस्कार
करणकं हि स्मरणं भवति । तच्च सद्यः प्रलीने चिरप्रलीने वा न
विशिष्यते इत्येवं पूर्वेषां पदानां चिरतिरोहितानामपि, व्यवहितोच्चारि
तानामपि संस्कारात् स्मरणं भविष्यति । अन्त्यपदस्य चानुभूयमान
त्वोपगमे ज्ञानयौगपद्यादिप्रमादप्रसङ्ग इति वरमन्त्यपदमपि स्मर्यमाण
मस्तु । स्मृत्यारूढान्येव सर्वपदानि वाक्यार्थमवगमयिष्यन्ति ॥


वाक्यार्थबोधक्रमः


तत्र चेयं कल्पना—वर्णक्रमेण तावत् प्रथमपदज्ञानम् । ततः
सङ्केतस्मरणं, संस्कारश्च युगपद्भवतः । ज्ञानयोर्हि यौगपद्यं शास्त्रे
926 II.200 प्रतिषिद्धं, न संस्कारज्ञानयोः । ततः पदार्थज्ञानम् । तेनापि संस्कारः ।
पुनर्वर्णक्रमेण द्वितीयपदज्ञानम् । ततः सङ्केतस्मरणम् । पूर्वसंस्कार
सहितेन च तेन पटुतरः संस्कारः । पुनः पूर्ववर्णक्रनेण तृतीयपदज्ञानं,
संकेतस्मरणं, पूर्वसंस्कारापेक्षः पदुतरः संस्कार इत्येवं पदज्ञानजनिते
पीवरे संस्कारे, पदार्थज्ञानजर्निते च तादृशि संस्कारे स्थिते अन्त्यपदार्थ
ज्ञानानन्तरं पदसंस्कारात् र्वपदविषयस्मृतिः, पदार्थसंस्काराच्च
पदार्थविषया स्मृतिरिति संस्कारत्रयात् क्रमेण द्वे स्मृती भवतः । तत्रैकस्यां
स्मृतावुपारूढः पदसमूहो वाक्यं, इतरस्यामुपारूढः पदार्थसमूहो वाक्यार्थः ॥


शाब्दबोधस्य स्मृतिमूलकत्वेऽपि नाप्रामण्यम्


ननु ! स्मृतेरप्रमाणत्वात् अप्रमाणत्वमिदानीं वाक्यार्थप्रतीतेः—
मैवम्—927तथासंबन्धग्रहात् । यत्र ह्यन्यथासंबन्धग्रहणं, अन्यथा च प्रति
पत्तिः, तत्रायं दोषः । यथा धूमे गृहीतसंबन्धे नीहाराद्दहनानुमितौ ।
इह तु क्रमवर्तिनां वर्णानां अन्यथा प्रतिपत्त्यसंभवात्, यथैव व्युत्पत्तिः
तथैव प्रतीतिरिति न किंचिदवद्यम् । अचिरनिर्वृत्तानुभवसमनन्तर
भाविनी च स्मृतिरनुभवायते928


पदार्थज्ञानं मानसरूपं वा


अथ वा कृतं स्मरणकल्पनया । अन्त्यपदार्थज्ञानानन्तरं सकलपद
पदार्थविषयो मानसोऽनुव्यवसायः शतादिप्रत्ययस्थानीयो भविष्यति ।
II.201 तदुपारूढानि पदानि वाक्यं, तदुपारूढश्च पदार्थो वाक्यार्थः । तथा
विधश्च मानसोऽनुव्यवसायः सकललोकसाक्षिकत्वादप्रत्याख्येयः ॥


अन्तिमतावत्पदार्थस्मरणस्यावश्यकता


ननु ! अन्त्यपदार्थज्ञानानन्तरं किं पूर्वपदतदर्थविषयेन स्मरणेन,
अनुव्यवसायेन वा । अन्त्यपदार्थश्चेत् ज्ञातः, समाप्तं कर्तव्यं, किमन्य
दवशिष्टं, यत् व्यवसायेन, स्मरणेन, अनुव्यवसायेन वा करिष्यते—कथं
न करिष्यते 929एकाकारो हि वाक्यवाक्यार्थप्रत्ययः प्रत्यात्मवेदनीयो न
शक्यतेऽपह्नोतुम् । न चासौ स्मरणादनुव्यवसायाद्वा विना संपद्यत इत्यस्ति
तदुपयोगः । इत्थं स्मरणारूढं संकलनाज्ञानविषयीकृतं चेदं पदनिकुरुम्बं
वाक्यं, तथाविधश्चैष वाक्यार्थः ॥


संसर्गभासकसामग्रीप्रदर्शनम्


ननु ! मा भूत् पदस्फोटः वाक्यस्फोटश्च वाचकः ।

मा च भूतामिमौ वाक्यवाक्यार्थौ भागवर्जितौ ॥

वर्णा एव भवन्त्वेते वाचकाः केनचिद्वृथा930

पदं वर्णसमूहोऽस्तू वाक्यं च पदसंहतिः ॥

भवन्तु भवदाख्याताः पदवाक्यादिकल्पनाः ।

पदार्थानां तु संसर्गे मार्गः क इति कथ्यताम् ॥

असंसृष्टा हि गौरश्वः पुरुषो हस्ती इति पदार्थाः न वाक्यार्थ
भावमधिरोहन्ति । अन्त्यपदार्थज्ञानानन्तरभाविनां हि स्मरणेन, अनु
II.202 व्यवसायेन वा विषयीक्रियमाणास्तु यथावगता एव विषयीक्रियन्ते ।
संसर्गावगमस्तु कुतस्त्य इति चिन्त्यम्—उच्यते—अस्त्यत्र विवादः ।
केचिदाचक्षते अन्विता एव पदार्थाः पदैरभिधीयन्ते, अन्यथा पदानां
वाक्यत्वायोगादिति ॥


अन्ये तु मन्यन्ते—शुद्धानामेव पदार्थानां पदैरभिधानम् । ते तु
तथाऽभिहिताः सन्तः परस्परमाकाङ्क्षासन्निधियोग्यत्वपर्यालोचनया संसर्ग
मधिगमयन्तीति ॥


अन्विताभिधानाभिहितान्वयवादौ


तत्रेदं विचार्यम्—व्युत्पत्तिर्बलीयसी, न हि शब्दो व्युत्पत्तिनिरपेक्षो
ऽर्थमवगमयति । व्युत्पत्तिश्च किं वाक्यस्य वाक्यार्थे, पदस्य वा पदार्थे
इति ॥


931यदि वाक्यस्य वाक्यार्थे व्युत्पत्तिः, तदाऽन्विताभिधानम् । पदस्य
पदार्थे व्युत्पत्तौ अभिहितान्वय इति ॥


अभिहितान्वयवादवर्णनम्


किं तावत्प्राप्तम् ? अभिहितान्वय इति, पदार्थप्रतिपत्तिपूर्वकत्वा
द्वाक्यार्थप्रतिपत्तेः । न ह्यनवगतपदार्थस्य वाक्यार्थसंप्रत्ययो दृश्यते,
पदार्थविभागश्च गम्यते—अस्य पदस्य जातिरर्थः, अस्य द्रव्यं, अस्य गुणः,
अस्य क्रियेति । स चैवमवकल्पते, यदि तावत् सोऽर्थः पदैरभिधीयते ।
पदान्तौरार्थोपरक्ते तु—तस्मिन्नभिधीयमाने तदर्थेयत्तैव नावधार्यते, कदम्बा
कारार्थप्रतीतेः ॥


II.203

अन्विताभिधाने विभक्तपदार्थज्ञानासंभवः


आवापोद्वापाभ्यां तदवधारणमिति चेत्—मैवम्—आवापोद्वाप
परीक्षावसरेऽपि कदम्बप्रतीत्यनपायात् । न ह्येकमेव किंचिद्वाक्यमन्विता
भिधायिपदग्रथितम्, 932अन्यत्र तु शुद्ध एव पदानामर्थः; किन्तु सर्वत्र
कदम्बकरूपादुपायात् कदम्बकरूपमुपेयं प्रतीयत इति दुरवगमः पदार्थ
विभागः ॥


ततश्च पदार्थानामनपेक्षणे गामानयेति वाक्यात् अश्वानयननियोगः
प्रतीयेत, गां बधानेति वाक्यादश्वबन्धननियोगः प्रतियेत933 । अपेक्ष्यते
तु पदानामर्थः । सोऽपेक्ष्यमाणः इयानिति नियतोऽवधारयितव्यः ।
तदवधारणं शुद्धाभिधायिषु पदेष्ववकल्पते । तस्मात् पदपदार्थयोरौ
त्पत्तिकः934 संबन्ध इष्यते ॥


व्यवहाराच्छक्तिग्रहः पदविषयक एव


वृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः पदपर्यन्ता भवति ।
इतरथा हि प्रतिवाक्यं व्युत्पत्तिरपेक्ष्येत । सा चानत्त्यात् दुरुपपादेति
शब्दव्यवहारोच्छेदः स्यात् । दृश्यते च पदार्थविदामभिनवकविश्लोका
दपि वाक्यार्थप्रतीतिः । सा पदतदर्थव्युत्पत्त्याऽवकल्पते । वाक्यवाक्यार्थ
योस्तु व्युत्पत्तावपेक्षमाणायां सा न स्यादेव । तस्मान्नान्विता
भिधानम् ॥


II.204


तदुपरंजकद्वितीयपदार्थावगतिः सिद्धैव । तदपि पदमन्यानुरक्तस्वार्थ
वाचीत्यनेनैव न्यायेन एकमेव पदमखिलपदाभिधेयार्थवाचि संपन्नमिति तेनैव
व्यवहारोऽस्तु ॥


न चासौ संपद्यते । गौरित्युक्ते सर्वगुणक्रियाऽवगमात् न ज्ञायते
किमुपादीयतामिति । सर्वावगमो ह्यनवगमनिर्विशेष एव, व्यवहारानु
पपत्तेः । हि 935रसविदां पूर्णोऽप्यब्धिः मेरोरतिरिच्यते, सलिलकार्या
निर्वृत्तेः । नियतगुणक्रियानुरक्तस्वार्थप्रतिपादने तु गोशब्दस्य न हेतुमुत्प
श्यामः ॥


पदान्तरसन्निधानमात्रान्नान्वयभानम्


पदान्तरसन्निधानं नियमहेतुरिति चेत्, किं स्वरूपमात्रेण, अर्थ
प्रतिपादनेन वा ?


स्वरूपमात्रेण जपमन्त्रपदानामिव सन्निधानं भवदपि असन्निधानान्न
विशिष्यते, अनुहीतसंबन्धस्य तत्कृतोपकारादर्शनात् ॥


अर्थप्रतिपादनेन तु पदान्तरं यदि नियमहेतुः, सोऽयमभिहिताना
मर्थानामन्वय उक्तो भवति936 । तस्मात् स एव श्रोयान् पदेभ्यः प्रतिपन्ना
निष्कृष्टास्तावदर्था आकांक्षासन्निधियोग्यत्ववशेन परस्परमभिसंबध्यन्ते ।
II.205 येनाकाङ्क्षितः, यश्च सन्निहितः, यश्च संबद्धुं योग्यः, स तेन
संबध्यते; नातोऽपरः ॥


अन्वयशून्यवाक्यनिदर्शनम्


अत एव अङ्गुल्यग्रे हस्तियूथशतमास्ते इति नास्ति संबन्धः,
योग्यत्वाभावात् । अन्विताभिधानवादिनां तु अनन्वितस्यानभिधानात्
तत्राप्यन्वयः प्राप्नोति । स च नास्ति । तस्मात् अभिहितानामेव
पदार्थानामन्वय इति युक्तम् । तदुक्तं—पदानि हि स्वं स्वमर्थमभिधाय
निवृत्तव्यापाराणि । अथेदानीमर्थाः अवगता वाक्यार्थं संपादयन्ति

इति ॥


अन्विताभिधानवादिभिः अभिहितान्वयदूषणम्


एवं प्राप्ते अभिधीयते—न व्युत्पत्तिनिरपेक्षो दीप इव937 शब्दोऽर्थ
मवगमयति । व्युत्पत्तिश्च वृद्धव्यवहारात् । वृद्धानां च व्यवहारो
वाक्येन, न पदेन; केवलपदस्याप्रयोगात् ॥


938अर्थप्रकरणप्राप्यपदार्थान्तरवेदने ।

पदं प्रयुज्यते यत्तत् वाक्यमेवोदितं भवेत् ॥

वक्ता वाक्यं प्रयुङ्क्ते च संसृष्टार्थविवक्षया ।

तथैव बुद्ध्यते श्रोता तथैव च तटस्थितः ॥

सेयं वाक्यस्य वाक्यार्थे व्युत्पत्तिः ॥


II.206

वाक्यस्वरूपम्


वाक्यं च किमुच्यते ? संहत्यार्थमभिदधन्ति पदानि वाक्यमिति
वाक्यविदः । तत्रायं पदसमूह एवार्थो भवति । एवं न संहत्यार्थमभि
दध्युः पदानि, यद्येकैकस्य पदस्य सर्वत्र व्यापारः । यथा हि बाह्यानि
कारकाणि काष्ठादीनि सर्वाण्येव पाके व्याप्रियन्ते, यथा च शिविकाया
उद्यन्तारः सर्वे शिबिकामुद्यच्छन्ति, यथा त्रयोऽपि ग्रावाण 939उखां बिभ्रति
—तथा सर्वाण्येव पदानि वाक्यार्थमवबोधयन्ति । तदिदमन्विताभिधा
नम् । अन्यानन्वितनिष्कृष्टस्वार्थपर्यवसायित्वे हि सति न सर्वेषां वाक्यर्थे
व्यापारस्स्यात् ॥


अन्विताभिधानवादे पदान्तरं न व्यर्थम्


ननु ! एवमेकैकस्य कृत्स्नकारित्वे सत्येकस्मादेव कृत्स्नसिद्धेः
पदान्तरोच्चारणं व्यर्थमित्युक्तम्—नैतत्—पदान्तरेण विनैव एकस्मात्
कृत्स्नकार्यसंपत्त्यभावात् । न तर्ह्येकं कृत्स्नकारीति चेत्—मैवम्—
एकैकस्य कृत्स्नफलपर्यन्तव्यापारतितत्वात् एकैकस्मिन् सति कृत्स्नफल
पर्यन्तो व्यापारो निर्वर्तते, एकैकेन विना न निर्वर्तत इत्येवमेकैकं कृत्स्न
कारि भवति ॥


ननु ! एवं तर्हि समुदाय एव कर्ता भवतु, किं समुदायिभिः ?
ततश्च तदेवायातं निरवयवौ वाक्यवाक्यार्थाविति—नैतद्युक्तम्—सङ्घात
कार्यवत् स्वकार्यस्यापि दर्शनात् ॥


अर्थ किं सङ्घातकार्यम् ? किंच तत् स्वकार्यम् ?


II.207

वाक्यार्थप्रतिपत्तिः सङ्घातकार्यम् । स्वकार्यं तु पदार्थप्रतिपत्तिः ।
यथा पाकः सङ्घातकार्यम् । स्वकार्यं ज्वलनभरणादि काष्ठस्थाल्या
दीनाम् ॥


अन्विताभिधाने दूषणोद्धारः


ननु ? यदि पदानां पदार्थप्रतिपादनम् स्वकार्यम्, शुद्धस्तर्हि पद
स्यार्थः940—न शुद्धः पदार्थः । सङ्घातकार्यमकुर्वतां शुद्धानां पदानामदृ
ष्टष्वात् । न ह्येषां स्वकार्ये सङ्घातकार्ये च पृथक् प्रयोगोऽस्ति, सर्वथा
सङ्घातकार्य एव प्रयोगात् । 941तत्र प्रयुक्तानामप्येषां स्वकार्यं न नाव
गम्यते । अत एव न निरचयवं वाक्यमिष्यते, स्वकार्यप्रत्यभिज्ञानात् ॥


संहतास्ते संघातकार्यं कुर्वन्तो दृश्यन्ते, न संघात एव संहतेष्वपि
कुर्वत्सु स्वकार्यं पृथक्पृथगुपलभ्यते । यथा शकटांगानां अयमंशोऽनेन
कृतः, अयमनेनेति न पृथक्पृथक् प्रयुज्यमानानि शकटांगानि मनागपि
शकटकार्यं कुवन्तीत्येवं न केवलं पदं प्रयुज्यते, प्रयुक्तमपि वा न तत्कार्या
ङ्गम् । पदान्तरेण तु सह व्यापारात् तदन्वितार्थकार्येव पदमिति—
युक्तम् । तदिदमुक्तं—संहत्यार्थमभिदधन्ति पदानि वाक्यम्, एकार्थः
पदसमूहो वाक्यम्
इति ॥


तदेवमवयवकार्योपलम्भात् न वैयाकरणवन्निमित्तान्यपि निह्नुमहे942
कृत्स्नफलसिद्ध्यवधि व्यापारपरिनिश्चयाच्च नान्यमीमांसकवत् शुद्ध
पदार्थाभिधानमुपगच्छामह इति ॥


II.208

अन्विताभिधानवादे दूषणोद्धारः


यत्पुनरभ्यधायि—प्रतिवाक्यं व्युत्पत्तिरपेक्षणीया, अन्यथा नवकवि
श्लोकादर्थः पदार्थविदो न प्रतीयेतेति—तदिदं व्युत्पत्त्यनभिज्ञस्य चोद्यम्—
न ह्येवं व्युत्पत्तिः गोशब्दस्य शुक्लान्वितोऽर्थः इति । स हि व्यभिचरति,
कृष्णान्वितस्य दर्शनात् । नापि सर्वान्वितस्तदर्थः, आनन्त्येन दुरवगमात् ।
किन्त्वाकाङ्क्षितयोग्यसन्निहितार्थानुरक्तोऽस्यार्थ इति943


एतां च व्युत्पत्तिं वाक्यान्यावापोद्वापाभ्यां रचनावैचित्र्यभांजि
संजनयन्ति । पदार्थपर्यन्तापि भवन्ती व्युत्पत्तिः ईदृशी दृश्यते, न शुद्ध
पदार्थविषया, पदेन व्यवहाराभावादित्युक्तम् । तथापि न न ज्ञायते—
इयान् पदस्यार्थ इति शकटाङ्गवदावापोद्वापाभ्यां तत्कार्यभेदस्य
दर्शितत्वात् ॥


तदित्थं न प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते । सन्निहितयोग्याकाङ्क्षि
तार्थोपरक्तस्वार्थाभिधायित्वेन हि क्वचिद्गृहीतसंबन्धः सर्वत्र गृहीतो
भवति । ततश्च नवकविश्लोकादप्यर्थप्रतिपत्तिरुपपत्स्यते । पदपदा
र्थयोस्तु न व्युत्पत्तिः, उपायाभावादित्युक्तम् ॥


अन्विताभिधानेऽपि पदान्तरसार्थक्यम्


यदपि पदान्तरोच्चारणमफलमिति, तदपि परिहृतम्—पदान्त
रसन्निधाने हि सर्वाणि पदानि कृत्स्नकारीणि भवन्तीत्युक्तत्वात् ।
944 II.209 पदान्तरसन्निधानेन क्रियत इति चेत्; सर्वकारकेष्वपि तुल्योऽयमनुयोगः ।
संहत्य तु सर्वाणि कारकाणि कुर्वन्तीत्युच्यन्ते । तथा पदान्यपि अर्थाभि
धानेनापि चोपकुर्वत्सु पदेषु नाभिहितान्वयः, अनन्वितेऽर्थे व्युत्पत्त्यभा
वात् । अनुपगमे वा दुरुपपादः पदार्थानामन्वयः, उपायाभावात् ॥


अन्वयस्य आकांक्षाद्यधीनत्वासंभवः


ननु आकांक्षासन्निधियोग्यत्वान्यभ्युपाय इत्युक्तम्—न युक्तमुक्तम् ।
कस्येयमाकाङ्क्षा ? शब्दस्य, अर्थस्य, प्रमातुर्वा ? शब्दार्थयोस्तावद
चेतनत्वात् नाकाङ्क्षायोगः । फलत इयं तु तत्र तत्र वाचोयुक्तिः शब्दः
शब्दान्तरमाकांक्षति, अर्थोऽर्थान्तरम्
इति । प्रमातुः पुनः स्वतन्त्रस्या
कांक्षा न प्रमाणम्, पुरुषेच्छया वस्तुस्थितेरघटमानत्वात् । शब्दाख्य
प्रमापृष्ठभावेन तु पुरुषस्याकाङ्क्षा भवन्ती भवत्यर्थानां संसर्गहेतुरित्येवं
शब्दस्यायमियानिषोरिव दीर्घदीर्घो व्यपारः । उपरतव्यापारे तु शब्दे
पुरुषाकाङ्क्षामात्रं न संबन्धकारणम् ॥


अशाब्दत्वं च वाक्यार्थप्रतीतेरित्थ945मापतेत् ।

व्यवधानमयुक्तं च साक्षाच्छाब्दत्वसंभवे ॥

तस्मादन्विताभिधायीनि पदानीति स्थितम् ॥


अन्विताभिधानवादसमर्थनम्


एष एव हि संसर्गप्रतीतेः पन्थाः—


व्यतिषक्तार्थबुद्ध्या हि व्यतिषङ्गोऽवगम्यते ।

अपरं तु न संसर्गप्रतीतेरस्ति कारणम् ॥

II.210
न खल्वानय गां शुक्लां संसर्ग इति कथ्यते ।

व्यवहारे क्वचिद्वृद्धैः, 946पदं संसर्गवाचकम् ॥

प्रयुज्यमानमप्येतत् बालिशेन हि केनचित् ।

अनन्वितार्थमेव स्यात् दशदाडिमवाक्यवत् ॥

तस्मादन्वितानामेवाभिधानं युक्तम् ॥


अनन्वितवाक्ये गतिप्रदर्शनम्


आह—


अङ्गुल्यग्रादिवाक्येषु कथं तव समन्वयः ?

उच्यते—


उक्तानामपि संसर्गे कथं तव समन्वयः ॥

आह—


नन्वत्र योग्यताभावादसंसर्ग उपेयते ।

आकाङ्क्षादित्रयाधीनः संसर्गो हि मयेष्यते ॥

उच्यते—


मयाऽपि योग्यासन्नादिसंसृष्टस्वार्थवाच्यता ।

पदानां दर्शिता सा च तेषु नास्तीत्यनन्वयः ॥

आह—अन्विताभिधानवादी हि भवान् । ततश्च—


भवतोऽनभिधानं947 स्यादन्वयासंभवादिह ॥

II.211

अहं त्वभिहितान्वयवादी । तेन—


मम त्वनभहितत्वेऽपि नाभिधानं विरुध्यते ॥

उच्यते—


कष्टं 948मीमांसकेनापि भवता सूक्ष्मदर्शिना ।

नाद्यापि शब्दव्यापारपरमार्थोऽवधारितः ॥

प्रकाशकत्वं शब्दस्य व्यापारो हि निसर्गतः ।

पुंसस्तु गुणदोषाभ्यां तस्मिन् सदसदर्थता ॥

क्रियाकारकसंसर्गबुद्धिरत्रापि949 शब्दजा ।

तादृश्येवायथार्था तु नरबुद्धिप्रमादतः ॥

तदुक्तं—प्रमाणान्तरदर्शनमत्र बाध्यते इति ॥


अत एव प्रमाणत्वं शब्दे निष्प्रतिमं स्वतः ।

शब्दे कर्मणि तत्रापि बाधकानुपसर्पणात् ॥

तेनाङ्गुल्यग्रवाक्येऽपि शाब्दोऽस्त्येव समन्वयः ।

आधाराधेयक्रियादिनिर्देभानस्यात्र प्रतीयमानत्वात ॥ ?

वस्तुतोऽसंभवो यस्तु तुल्य एव स आवयोः950

अयोग्यत्वेन संसर्गप्रतीत्यर्थनिबर्हणात् ॥

अन्वितभानमेवौत्सर्गिकम्


यदि तु शादोऽन्वयो न भवेत्, कचतटपादिवर्णनिर्देशमात्रमिदं स्यात्;
दशदाडिमादिप्रलापतुल्यं वा स्यात् । अनन्विताभिधानात् वाक्यत्वमेव
II.212 न भवेत् । अस्ति तु वाक्यत्वम् । तेन मन्यामहे अस्ति शाब्दोऽन्वय इति
अत्रापि अन्विताभिधानं न विरुद्धम् । बाधकस्त्वन्यविषय951 एव, न
शब्दसंसर्गविषय इत्युक्तम् । अत एव स्वसामर्थ्यसिद्धनिर्निबन्धबोधकत्व
व्यापारे शब्दे स्वतो वेदप्रामाण्यमनाकुलं निर्वक्ष्यति, अपौरुषेयतया विप्ल
वासंभवात् । स्वव्यापारस्य च स्वत एव शुद्धत्वमित्यलमतिप्रसङ्गेन ॥


इत्यन्विताभिधानेन वाक्यार्थज्ञानसंभावात् ।

व्युत्पत्तिरहितः प्राज्ञैः प्रहेयोऽभिहितान्वयः ॥

अन्विताभिधानवादखण्डनम्


तदेतदपि नानुमन्यते—यदुक्तं वृद्धव्यवहारात् व्युत्पत्तिरिति—तत्
सत्यम् । वाक्येन व्यवहार इत्येतदपि सत्यम् । शिबिकोद्यंचन्नृव
सर्वाणि पदानि कार्ये संहत्य व्याप्रियन्त इत्येतदपि सत्यमेव ॥


व्युत्पत्तिश्चिन्त्यताम्—किमेकघटनाकारसङ्घातकार्यनिष्ठैव सा ?
किं वा पदार्थपर्यन्ता ? इति । पूर्वस्मिन् पक्षे प्रतिवाक्यं व्युत्पत्तिरपरि
हार्या । सा च बहुप्रमादेत्युक्तम्952 । पदार्थपर्यन्तायां तु व्युत्पत्तौ नूनं
निर्धारणीयं इयान् पदस्यार्थः इति । भवद्भिरपि शकटावयवदृष्टान्त
वर्णनेन पदव्यापारनिर्धारणमङ्गीकृतमेव । इतरथा हि पदार्थनियमान
पेक्षणे गामानयेतिविवक्षावान् अश्वपदमपि नित्तितयोपाददीत । न हि
भवतामनपेक्षितपदार्थ एव वैयाकरणानामिव, वाक्यार्थप्रत्ययः । तदसौ
यावानावापोद्वापपर्यालोचनया गोपदस्यार्थो निर्धार्यते, तावानेव सङ्घात
कार्येऽपि व्याप्रियमाणस्य तस्यार्थः ॥


II.213

अभिधात्रीशक्तिः पदार्थ एव


ननु आकाङ्क्षितयोग्यसन्निहितार्थोपरक्तस्तस्यार्थ इत्युक्तम्—नैत
द्युक्तम्—सर्वदा संहत्यव्याप्रियमाणमेतत्पदं पश्यतस्तवायं भ्रमः । अर्थः
तावानस्य, यावत्यभिधात्री तस्य शक्तिः ॥


कियति तस्याभिधात्री शक्तिः ? कियति तस्यानभिधात्री शक्तिः ?
यावत्तमर्थं अन्योन्यमाकाङ्क्षितैश्च सन्निहितैश्च संयुज्यमानं न मुंचति ॥
कियन्तं च न मुंचति, गोत्वमात्रं, तद्वन्मात्रं वा ? इत्यतस्तावत्येवाभि
धात्री शक्तिरन्वयव्यतिरेकाभ्यां अस्य निर्धार्यते ॥


अतः परमेकस्य पदस्याप्रयोगात् सर्वदा सङ्घातकार्यरहितकेवल
स्वकार्यचातुर्यानवधारणात् प्रधानकार्ये 953तात्पर्यशक्तिरस्य व्याप्रियते, नाभि
धात्री । तां च पृथगविवेचयता भवता अन्विताभिधानमभ्युपगतम् ।
तच्च न युक्तम्—तर्वत्र अभिधात्र्याः शक्तेरविशेषात् । पदार्थनियमानव
धारणं पदान्तरोच्चारणवैफल्यमित्यादिदोषाणामनपायात् ॥


अन्विताभिधाने विरोधप्रदर्शनम्


येनान्वितमर्थमभिदधाति गोशब्दः, तदनभिधाने, तदन्वितानवग
मात् येन सह संसर्गः, स न गृह्यते, तत्संसृष्टश्च गृह्यते इति विप्रतिषिद्धं
स्यात् । तदभिधाने वा तद्वत्सर्वाभिधानमिति एकमेव गोपदं सर्वार्थं
भवेत् । तस्मान्न 954सर्वत्राभिधात्री शक्तिः पदस्योपपद्यते इति नान्विता
भिधानम् ॥


II.214

अन्विताभिधाने शब्दानामर्थासंस्पर्शित्वप्रसंगः


अन्विताभिधानपक्षे च कथमङ्गुल्यग्रवाक्येऽपि नान्वयः स्यात् ?
शाब्दोऽस्त्येव समन्वय इति चेत्; अर्थासंस्पर्शी शब्दः प्राप्नोति, बहिर
न्वयाभावात् । प्रकाशकत्वमात्रं व्यापार इति चेत्—बाढम्—तत्त्वन्वि
तानन्वितविषयं वेदितुं युक्तम्, न पुनरन्वितविषयमेवेति शक्यते निय
न्तुम् । दशदाडिमादिवाक्यमनन्वितार्थप्रतिपादकमपि दृश्यते यतः ।
न तत् वाक्यमिति चेत्, अङ्गुल्यग्रवाक्यमपि न वाक्यमेव । आधा
राधेयक्रियासंसर्गप्रतीतिस्तु भ्रममात्रम् । तस्मात् अन्वितमर्थमभिदधति
पदानीत्यसमीचीनम् ॥


अभिहितान्वयेऽपि क्लेशः


955त्किमयश्शलाकाकल्पाः परस्परमसंसृष्टा एव पदार्थाः पदैरुच्य
न्ताम् ? एतदपि नास्ति । तथाविधव्यवहाराभावात् । पश्चादन्वयस्य च
दुरवगमत्वात्, विरम्यव्यापारस्य चासंवेदनात् । तस्मात् पक्षद्वयमपि
न क्षेमाय । तदुक्तम्—


मतद्वयमपीदं तु नास्मभ्यं रोचतेतराम् ।

कुतोऽन्विताभिधानं वा कुतो वाऽभिहितान्वयः ॥

उक्तोभयवादमध्यस्थो वादः


अन्या तु वाचो युक्तिः कैश्चित्कृता—अन्वीयमानाभिधानं, अभिधी
यमानान्वयश्चेति956 । साऽपि न हृदयङ्गमा ॥


II.215
न हि द्वे अनुभूयेते क्रिये एते पृथक्स्थिते ।

अभिधानक्रिया चान्या वाच्यस्था चान्वयक्रिया ॥

ते हि क्रमेण वा स्याताम्, युगपद्वा ? क्रमपक्षे पूर्वमन्वयक्रिया चेत्,
तदिदमन्विताभिधानमेव, नान्वीयमानाभिधानम् । पूर्वं चेदभिधानक्रिया,
सोऽयमभिहितान्वय एव, नाभिधीयमानान्वयः । युगपत्तु क्रियाद्वयसंवेदन
नास्ति । अर्थगतायाः क्रियायाः शब्दप्रयोगकालेऽनुपलम्भात् ॥


अभिधानक्रियैवैका तदभिज्ञैः परीक्ष्यते ।

अन्वीयमानताऽर्थानां अभिधानाद्विना कुतः ॥

गौः शुक्ल इति जातिगुणयोरेकद्रव्यसमवेतयोरपि शब्दमन्तरेण
कुतोऽन्वयमवगच्छामः ॥


क्तेर्नूतनतैवेयं न पुनर्वस्तु नूतनम् ।

न चात्रापि निवर्तन्ते दोषाः पक्षद्वयस्पृशः ॥

अन्विताभिधाने पज्ञान्तरम्


अन्ये मन्यन्ते—957सामान्येनान्विताभिधानम्, विशेषतश्चाभिहितान्वय
इति । गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रिया958सामान्यान्वितमभिधत्ते,
तावत्यन्विताभिधानम् । शुक्लादिगुणविशेषसबन्धस्तु पदान्तरादवगम्यते ।
सोऽयं विशेषोऽभिहितान्वय इति—एतदपि तादृगेव ॥


दोषोऽन्विताभिधाने यः सामान्येऽपि स तादृशः ।

दोषस्तुल्यो विशेषेऽपि यश्चोक्तोऽभिहितान्वये ॥

II.216

न चेदमपूर्ववस्तु वर्णितम् । अभिहितान्वयवादिनः विशेष एवाभि
हितान्वयमिच्छन्ति । सामान्येऽपि हि पदं वर्तते, विशेषे वाक्यम् ।
वाक्यार्थप्रतीतये च अभिहितान्वय आश्रीयते इति प्राक्तन एवेष्टः पन्था
वेदितव्यः ॥


पदानां संहत्य कारित्वम्


कथं तर्ह्याभिधानिकी व्यवहारः ? सङ्कुलमिवैनं पश्यामः,
सर्वत्र दोषसंभवात्—उच्यते—न कदाचिदत्र सङ्कुलता । संहत्य
कारीणि हि पदानीत्युक्तम् । समुदितैः पदैरेको वाक्यार्थः प्रत्याय्यते ।
स च गुणगुणिभूतेतरपदार्थसंसृष्टः कश्चित्पदार्थ एवेति किमत्र
सङ्कुलम् ॥


पदानामन्वयज्ञापकत्वम्


ननु किमयमन्विताभिधानपक्षः पुनरुत्थापयितुमिष्टः ? मैवम्—
नेदमन्विताभिधानम् । कथं तर्हि संहत्यकारिता पदानाम् ? उच्यते—
संहत्यकारिताऽप्यस्ति, न चान्विताभिधानम् । 959अन्वितमर्थं पदानि—
संहत्य संपादयन्ति, न त्वन्वितमभिदधति । किमिदानीं कुर्वन्ति
वाक्यार्थं पदानि, घटमिव मृदादीनि—एतदपि नास्ति—ज्ञापकत्वात्तेषाम् ।
का तर्हियं वाचोयुक्तिः, संहत्यकारीणि पदानि, न चान्वितमभिद
धतीति ? इयं वाचोयुक्तिः । पदान्यन्वितं प्रत्याययन्ति, नान्वित
मभिदधति ॥


अन्वये शक्त्यसम्भवः


नाभिधात्री शक्तिरन्वितविषया, किन्त्वन्वयव्यतिरेकानुगतनिष्कृ
ष्टस्वार्थविषयैव । तात्पर्यशक्तिस्तु तेषामन्वितावगमपर्यन्ता सह
II.217 व्यापारात्, व्यापारस्यैतदीयस्य निराकाङ्क्षप्रत्ययोत्पादनपर्यन्तत्वात् ।
तथा हि—


अन्यथैव प्रवर्तन्ते प्रत्यक्षाद्युद्भवा धियः ।

अर्थं पूर्णमपूर्णं वा दर्शयन्त्यः पुरः स्थितम् ॥

अन्यथैव मतिश्शाब्दी विषयेषु विजृम्भते ।

प्रतिपत्तुरनाकाङ्क्षप्रत्ययोत्पादनाविधिः ॥

अत एव पदं लोके केवलं न प्रयुज्यते ।

न हि तेन निराकाङ्क्षा श्रोतुराधीयते मतिः ॥

शक्तेरभावेऽपि संसर्गभानसंभवः


ननु अभिधानव्यतिरिक्तः कोऽन्यः शब्दस्य कृत्स्नफलपर्यन्तः प्रत्या
यनात्मा व्यापारः ? अस्ति कश्चित्, यः सर्वैरेव संसर्गवादिभिर
प्रत्याख्येयः । न हि संसर्गोऽभिधीयते, प्रतीयते च वाक्यात् ॥


ननु संसृष्टाभिधाने सति संसर्गः प्रतीयेत, नान्यथा—नैतदेवम्—
संहत्यकारित्वादेव संसर्गावगतिसिद्धेः । न हि संहत्यकरणम्, असंसृष्टं च
कार्यं क्वचित् दृश्यते ॥


अपि च प्रकृतिप्रत्ययौ परस्परापेक्षमर्थमभिदधाते । न च प्रकृत्या
प्रत्ययार्थीऽभिधीयते, नियोगस्याधातुवाच्यत्वात् । न च प्रत्ययेन प्रकृ
त्यर्थोऽभिधीयते, नियोगादेः लिङ्वाच्यत्वानुपपत्तेः । न च तौ पृथक्पृथक्
स्वकार्यं कुरुतः960 । एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्यं
करिष्यन्ति । न च परस्परमर्थमभिधास्यन्ति वाक्यान्यपि प्रकरणपतिता
न्येवमेव । तदुक्तम्—


II.218
प्रकृतिप्रत्ययौ यद्वत् अपेक्षेते परस्परम् ।

पदं पदान्तरं तद्वत् वाक्यं वाक्यान्तरं तथा इति ॥

अयमेव पक्षः श्रेयान् यत् संहत्यकारित्वं पदानां, असंकीर्णा
र्थत्वं च ॥


निरपेक्षे प्रयोगेऽयश्शलाकाकल्पना भवेत् ।

तदन्विताभिधाने तु पदान्तरमनर्थकम् ॥

संहत्यकारिपक्षे तु दोषो नैकोऽपि विद्यते ।

तेनायमुपगन्तव्यः मार्गो विगतकण्टकः ॥

अभिधात्री मता शक्तिः पदानां स्वार्थनिष्ठता ।

तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः ॥

तेनान्विताभिधानं हि नास्माभिरिह मृष्यते ।

961अन्वितप्रतिपत्तिस्तु बाढमभ्युपगभ्यते ॥

संहत्यकारकत्वाच्च पदानां न स्वार्थाभिधित्सयैव समुच्चारणम्,
अपितु प्रधानं कार्यमेव कर्तुम् । तदुक्तम्—


वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।

पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् इति ॥

वाक्यार्थबोधविचारोपसंहारः


सेयं व्युत्पत्तिमूला पदविसरसमुद्भिद्यमानाङ्कुरश्रीः

संस्कारोदारपत्रा कुसुमचयवती प्रोल्लसद्भिः पदार्थैः ।

II.219
प्रज्ञावल्ली विशाला फलति फलमिदं स्वादु वाक्यार्थतत्त्वं

नैराकांक्ष्यं तु सान्द्रे हृदय उपगते यान्ति यस्मिन् पुमांसः ॥

आह च—


पदात्प्रभृति या चैषा प्रज्ञा ज्ञातुर्विजृम्भते ।

पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति ॥

तस्मादनया नीत्या संसर्गप्रत्ययो भवति साधुः ।

संसृष्टाश्च पदार्थाः वाक्यार्थ इति न्यवेदि प्राक् ॥

यश्चैष लोकव्यवहारसिद्धिः

प्रादर्शि वाक्यार्थमितावुपायः ।

स एव वेदेऽप्यवधारणीयः

तत्रापि तान्येव पदानि तेऽर्थाः ॥

—इति वाक्यार्थविचारः


वेदार्थावधारणप्रकारविचारोपक्षेपः


आह—लोके प्रमाणान्तरपरिच्छेद्यत्वात् वाक्यार्थस्य तदवगमोपायत्वं
शब्दानां योजयितुं शक्यते । वेदार्थस्तु—अतीन्द्रियः । न च रागादि
दोषकलुषमनसामस्मदादीनां अतीन्द्रियपदार्थदर्शनकौशलमस्ति । तददर्शने
च तत्र वृद्धव्यवहारात् व्युत्पत्तिरेव न संभवति । सोऽहमद्य वेदार्थं बुभुत्स
मानो वेदविदं कंचिदाचार्यमभिगच्छेयम् । सोऽप्यतीन्द्रियार्थदर्शी न
भवतीति तस्यापि तथैव व्युत्पत्त्यभाव इति तेनाप्यन्यः कश्चिदभिगन्तव्यः ।
सोऽप्यन्यमित्यन्धपरम्परा प्राप्नोति । न च वेद एव, वृद्धिरादैच् इति
962 II.220 पणिनिरिव, मस्त्रिगुरुः इति ब्रुवन् पिङ्गल इव, हस्त करः पाणिः
इति कथयन्नभिधानमालाकार इव स्वयमुपदिशति—एषोऽस्य मामकस्य
शब्दस्यार्थः
इति । तस्मात्सर्वथा दुरवगमो वेदार्थः तदाह—


स्वयं रागादिमात्रार्थं वेत्ति चेत्तस्य नान्यतः ।

न वेदयति वेदोऽपि वेदार्थस्य कुतो गतिः इति ॥

अथ निगमनिरुक्तव्याकरणवशेन पदार्थकल्पना क्रियते; तर्हि नाना
मतित्वात् उपदेष्टॄना963, अनेकार्थत्वाच्च धातूनां नाम्नां, उपसर्गनिपातानां
च न नियतः कंचिदर्थो व्यवस्थापयितुं शक्यते । अन्यथा तत्कल्पनासंभ
वात् । आह च—प्र-वा-1-320


तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ ।

खादेच्छवमांसमित्येषः नार्थ इत्यत्र का प्रमा इति ॥

वैदिकशब्पा आपि लौकिका एव


तदेतत् बधिरस्य रामायणं वर्णितमस्माभिः, यू एवमपि श्रुत्वा
वेदार्थपरिगमाभ्युपायं मृगयते । अनेन हि पवक्तिन वाक्यार्थपरिगमोपाय
प्रकटनेन सर्वमपाकृतं भवति । उक्तं हि—नाभिनवाः केचन वैदिकाः
शब्दाः । रचनामात्रं वेदे भिद्यते, न तु पदानि । सर्गात्प्रभृति च
प्रवृत्तोऽयं वेदविदांव्यवहारः । तत एव दीर्घप्रबन्धप्रवृत्तात् अद्यत्वे वयसि
व्युत्पद्यामहे । व्युत्पद्यमानाश्च तं तमर्थं प्रतिपाद्यामहे ॥


वेदार्थावगमसहकारीणि


किंच वेदार्थस्य परिज्ञानौपयिकानि व्याकरणमीमांसादिशास्त्राणि
क्व गतानि ? यदेषु जीवन्मु न वेनार्थोऽवधार्यते ॥


II.221

अपि च, रे मूढ ! स्वयं रागादिमान्नार्थं वेत्ति ? वेदस्य कोऽर्थो
रागादिमतः ? प्रत्यक्षमतीन्द्रियेऽर्थे मा प्रवर्तिष्ट, न तु रागादिमान् अग्नि
होत्रं जुहुयात् स्वर्गकामः
इतिवाक्यादपि अग्निहोत्राख्यं कर्म स्वर्गसाधन
मिति नावगच्छेत् ॥


अतीन्द्रियेऽर्थे नियता कुतोव्युत्पत्तिरिति चेत्, उक्तमत्र, वेदवत्त
द्व्यवहारस्य तदर्थपरिगमोपायस्य सुचिरप्ररूढत्वात् । वेदार्थश्च, तदव
गमश्च, तदुपायश्च, तदनुष्ठ नं च नाद्यत्वे प्रवृत्तानि । त नि केषां
ऽनादीन्येव । अस्मन्मते तु जगत्सर्गात्प्रभृति प्रवृत्तानि । कस्तेष्वद्य पर्यनु
योगावसरः ? सेयमनेन पापकारिणा खादेच्छवमांसं इत्याद्यपभाषणेन
केवलमवीचिकेदारकुटुम्बिनमानं 964कर्तुं वेदनिन्दैव मन्दमतिना कृता, न
दूषणमभिनवं किंचिदुत्प्रेक्षितमिति ॥


वेदार्थव्युत्पत्त्यसंभवः


अथापर आह—किमेष तपस्वी पराणुद्यते ? कियनेनापराद्धम् ?
किमनेन विरुद्धमभिहितम् ? न हि लोकतो वेदार्थे व्युत्पत्तिरवकल्पते ॥


कोऽयं लोको नाम ? किं यः कश्चित् प्राकृतः, उत वैयाकरणः
संस्कृतमतिः ? इति ॥


तत्र शाकटिकाः साधुशब्दप्रयोगानभिज्ञमनसो निसर्गत एवाक्षत
कण्ठाः वराकाः संस्कारबाह्यैः गाव्यादिभिरेव शब्दैर्व्यवहरन्ति । तैश्च
व्यवहरन्तः कथमिव वैदिकेषु शब्देषु व्युत्पत्तिमवाप्नुयुः ?


यद्यपि चास्ति एषि एमि इति कश्मीरेषु, गच्छ इति दर्वाभि
सारेषु, करोमि इति मद्रेषु कतिपये साधुशब्दा पामरैरपि प्रयुज्यन्ते;
II.222 तथाप्यतीव प्रविरलसंचारोऽसौ व्यवहार इत्यनुपादेय एव वैदिकशब्द
व्युत्पत्तेः ॥


व्याकरणेनापि वेदार्थावधारणासंभवः


अथ व्याकरणस्य वेदाङ्गत्वात् ततः साध्वसाधुशब्दप्रविभागमव
गच्छन्तः साधुभिर्भाषितव्यं, असाधुभिर्न इति विधिनिषेधनियमितमतयः
साधुभिरेव शब्दैर्व्यवहरन्तो विद्वांसः तनीयसैव क्लेशेन वैदिकेष्वपि शब्देषु
व्युत्पत्तिमासादयेयुरिति कथ्यते—तदपि न चतुरश्रम्—इतरेतराश्रय
प्रसङ्गात् । वेदे हि सिद्धप्रामाण्ये तदङ्गभूतव्याकरणाभ्याससमासादित
साध्वसाधुशब्दप्रविवेक वृद्धव्यवहारपरिचयपुरस्सरा वैदिकशब्देषुव्युत्पत्तिः,
तद्व्युत्पत्तौ च सत्यां बोधकत्वादप्रतिपादकत्वलक्षणमप्रामाण्यमपोज्झतो
वेदस्य प्रामाण्यमिति ॥


प्राकृतव्याकरणस्य वेदाङ्गत्वापत्तिः


अथ वेदाङ्गमिदमिति श्रद्धावधूय यदृच्छाधीतेनैव व्याकरणेन
पूर्वोक्तकार्यसिद्धेर्नेतरेतराश्रयमिति वर्ण्यते—किमिदानीं नाटकप्रकरणादि
काव्योपयोगिसंस्कृतभाषाविशेषपरिज्ञानायैव प्राकृतलक्षणवद्व्याकरण
मध्येतव्यम् ? तथाऽभ्युपगमेवाऽनङ्गत्वाविशेषात्—प्राकृतलक्षणप्रसिद्ध
शब्दव्यवहारानुसारेण वैदिकशब्दव्युत्पत्तिरापाद्यत इति सुतरां दुस्स्थत्वं ॥


अपि च सत्यपि व्याकरणाधिगमे, श्रुतेऽपि साधुभिर्भाषितव्यम्
इत्युपदेशे, 965सत्यं वदत ! वेदार्थानुष्ठानपरायणोऽपि कृतबुद्धिरपि
निषिद्धाचरणपराङ्मुखोऽपि श्रोत्रियोऽपि श्रद्दधानोऽपि यदि कश्चित् केवलैः
II.223 साधुभिरेव शब्दैर्व्यवहरन् दृष्ट एकाकी ? तैश्च नानार्थक्रियासाधनभूत
भूरिव्यवहारं निर्वहन् तदनुचरः परिज्ञातो न भूयः केवलसाधुशब्दप्रयोग
कुशलः कल्पनीयः । कुतश्चासौ लभ्यते ? तस्मान्न वृद्धव्यवहाराद्वेदार्थ
व्युत्पत्तिरुपपद्यते ॥


व्याकरणस्य वेदार्थानिर्णायकत्वम्


अथ व्याकरणमेव वेदार्थव्युत्पत्तौ उपायतां प्रतिपत्स्यते इति
मन्यसे; तदपि कथमिति चिन्त्यम् । न हि 966विवरणकार इव पाणिनिर्वेदं
व्याचष्टे । व्याचक्षाणो वा परिमितदर्शिनि अस्मादृशे, द्वेषादिदोषकलु
षितमनसि तस्मिन् अस्मदादीनां वेदार्थं बुभुत्समानानां किदृशी
विस्रम्भः ? किं यथैव व्याचष्टे, तथैव वेदार्थः, अन्यथा वेति ॥


यदि तु साध्वसाधुशब्दविवेककरणद्वारेण व्याकरणं कारणं वेदार्थ
व्युत्पत्तेरित्युच्यते—तत्रापि—स्वातन्त्र्येण वेदस्येव व्याकरणस्य शास्त्र
त्वानुपपत्तेः । अङ्गत्वप्रसिद्धेश्च वैदिकविध्यपेक्षितार्थसंपर्कित्वमस्य नू
मेषितव्यम् । तत् कस्य विधेः शेषतया व्याकरणमवतिष्ठेतेति वाच्यम् ।
साधुभिर्भाषितव्यं, असाधुभिर्नेत्यनयोरेव विधिनिषेधयोरिति चेत्;
नन्वेतावेव विधिनिषेधौ तावद्विचारयामः । किं क्वचित्प्रकरणे पठितौ ?
किमनारभ्याधीतौ ? कॢप्ताधिकारी, कल्प्याधिकारी वा ? इति ॥


साध्वसाधुशब्दविभागसंभवाक्षेपः


आस्तां चेदम् ! वितता खल्वियं चिन्ता । साध्वसाधुशब्दस्या
प्रसिद्धत्वात् किंविषयाविमौ विधिनिषेधौ स्यातामितीदमेव चिन्त्यताम् ।
II.224 ब्रीहिभिर्यजेत' न कलंजं भक्षयेत् इति ब्रीहिकलंजस्वरूपस्य लोकतो
ऽवगतौ तद्विषयविधिनिषेधावबोधो न दुर्घटः । इह तु ब्रीहय इव कलंज
मिव न साध्वसाधुशब्दस्वरूपं लोके प्रसिद्धम्; प्रत्यक्षादिप्रमाणातीत
वात् । प्रत्यक्षं तावत् साध्वसाधुशब्दप्रविवेकेन लोकतोऽवगम्यते ।
कृतश्रमश्रवणयुगलकरणिकासु प्रमितिषु शब्दस्वरूपमेव केवलं विषयता
मुपयाति । न जातु तद्गतं साधुत्वमसाधुत्वं वा । न हि शब्दत्वादि
जातिवत्, उदात्तादिधर्मवच्च साध्वसाधुतायां कस्यचिदपि श्रैत्रः प्रत्ययः
प्रसरति । प्रत्यक्षप्रतिषेधे च सति तत्पूर्वकसंबन्धग्रहणासंभवात् अनुमान
मपि निरवकाशमेव । शब्दस्तु द्विविधः पुरुषप्रणीतः, वैदिको वा । तत्र
पुरुषप्रणीतः प्रत्यक्षानुमानविषयीकृतार्थप्रतिपादनप्रवण एव भवति इति
तदपाकरणादेव पराकृतः । वैदिकस्तु संप्रति चिन्त्यो वर्तते । स हि
सिद्धे साध्वसाधुत्वे तद्विधिनिषेधे व्याप्रियते । न पुनः तत एव
तत्सिद्धिर्युज्यते । तथाऽभ्युपगमे वा दुरुत्तरमितरेतराश्रयत्वमवतरति—
विधिनिषेधसिद्धौ साध्वसाधुशब्दसिद्धिः, साध्वसाधुशब्दसिद्धौ च विधि
निषेधसिद्धिरिति ॥


साधुत्वमपि दुर्वचम्


किंचेदं साधुत्वं नाम ? यदि वाचकत्वम्, गाव्यादयोऽपि सुतरां
वाचका इति तेऽपि कथं न साधवः ? अर्थावगतिसाधनाद्धि साधुत्वम् ।
तच्च यथा गाव्यादिषु झटित्येव भवति, न तथा गवादिष्विति प्रथमं त
एव साधवः ॥


एवं च यदाहुः—

असाधुरनुमानेन967 वाचकः कैश्चिदिष्यते

इति; तदत्यन्तमसांप्रतम्; सोपानान्तरप्रतीतिप्रसक्तेःविपर्ययस्य
च लोके प्रसिद्धत्वात् ॥


II.225

यस्तावदनधिगतव्याकरणसरणिः पामरादिः, सः गाव्यादिशब्दश्रवणे
सति तावत्येव जातसन्तोषः तत एवार्थमवगच्छन् गवादिशब्दानुमानव्यव
धानमनारुह्यैव व्यवहरति । हेमगिरिमुत्तरेण यादृंशि मादृशैरनुभूतानि
तरुकुसुमफलानि, तथाविधास्तस्य साधुशब्दा इति सर्वात्मनाऽनवधारि
तसंबन्धः स कथं तावदनुमातुं प्रभवेत् ?


येऽपि व्याकरणार्णवकर्णधाराः चिराभ्यस्तसूक्तयः सूरयः, तेऽपि
गाव्यादिभिर्व्यवहरन्तोऽनुमानक्रममननुसरन्त एव तेभ्योऽर्थं प्रतिपद्यन्त,
इति प्रत्यात्मवेदनीयमेतत् । तस्मात् वाचकत्वमेव साधुत्वम् । एतच्च
गवादिष्विव गाव्यादिषु दृश्यत इति तेऽपि साधवः स्युः ॥


असाधुत्वमप्यवाचकत्वमुच्यते । तच्च वायसवाशितादिषु व्यवस्थितं
न वर्णात्मकेषु व्यक्तवागुच्चार्यमाणेषु शब्देष्विति न तेऽसाधवः ॥


साध्वसाधुशब्दयोः विलक्षणबोधजनकत्वं नास्ति


ब्रूयात्—नार्थप्रतीतिसाधनत्वमात्रं साधुत्वम्, धूमादिभिरतिव्याप्तेः ।
अपि तु 968विशिष्टक्रियाकरणत्वम् । तच्च गवादिष्वेवास्ति, न गाव्यादि
ष्विति न ते साधव इति—एतदप्यसमीक्षिताभिधानम्—अभिधानक्रिया
कारणत्वं हि वाचकत्वमिति पूर्वमेव सुनिपुणमुपपादितम् । तच्च गवा
दिषु गाव्यादिषु च समानमिति सर्व एव साधवः ॥


साध्वसाधुत्वे न शास्त्रगम्ये


अथ 969लक्षणानुगतत्वं, तद्बाह्यत्वं च साधुत्वमसाधुत्वं च वर्ण्यते—
तदयुक्तम्—पारिभाषिकत्वप्रसङ्गात् । न चान्यत्किमपि साध्वसाधु
II.226 लक्षणमतिसूक्ष्मयाऽपि दृष्ट्या शक्यमुत्प्रेक्षितुम् । अतो वाचकावाचकावेव
साध्वसाधू इति स्थितम् ॥


तेन तयोः प्रवर्तमानौ 970विधिनिषेधाविमौ व्यथौ भवेताम् ।
कथम् त-वा-1-3-18


साधुभिर्भाषणं तावत् प्राप्तत्वान्न विधीयते ।

971अवाचकनिषेधश्च नाप्राप्तेरवकल्पते ॥

न हि सलिलं पिबेत् अनलं न पिबेत् इति विधिनिषेधौ संभवतः ।
सलिलपानस्य स्वतः प्राप्तत्वात्, अप्राप्ते च शास्त्रस्यार्थवत्त्वात् ।
ज्वलनपानस्य च कस्यांचिदप्यवस्थायां अप्राप्तेः प्रतिषेधानर्थक्यात् ।
प्राप्तिपूर्विका हि प्रतिषेधा भवन्ति । न हि ग्रीष्मे ज्वालायमानमारव
मार्गभ्रमणोज्झृम्भिततृषातिशयतनूकृततनुरपि तनूनपातं पातुं लवणोप
योगोपनीततृङ्विकारः करभोऽपि यतेतेति ॥


साध्वसाधुशब्दयोः पुण्यपापहेतुत्वमपि दूर्वचम्


तत्रैतत्स्यात्—गवादेर्गाव्यादेश्च वाचकत्वाविशेषेऽपि साध्वसाधुशब्दो
च्चारणकरणकपुण्यपापप्राप्तिपरिहारप्रयोजननियमविधानाय शास्त्रसा
फल्यं भविष्यति । तदुक्तम् वा-प-3-3-30


वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः इति—

एतदपि दुर्घटम्—प्रतिपदमशक्यत्वात्, वर्गीकरणनिमित्तस्य चासं
भवात् । अवश्यं हि विधिं वा निषेधं वा विधित्सतां प्रविषेध्यांश्च निषे
II.227 ध्यांश्च शब्दानुपदर्श्य, नियमो विधातव्यः एभिर्भाषतव्यं, एभिर्न
इति । तत्र यद्युभये ते शब्दाः प्रतिव्यक्ति नामग्रहणपरिगणनपुरस्सर
मुपदर्श्येरन्, तदयमर्थः कल्पशतजीविनः भगवतः परमेष्ठिनोऽपि न विषयः,
प्रविततवनसहस्रसंकुलमूर्तेरनन्तस्यापि न गोचरः, वाचस्पतेर्न भूमिः,
सरस्वत्या अतिभारः, तेषामानन्त्येन दर्शयितुमशक्यत्वात् ॥


साध्वसाधुशब्दवर्गींकरणासंभवः


अथ किंचिदुपलक्षण972मवलम्य तेषां वर्गीकरणमुपेयते—हन्त तर्हि
दृश्यताम् ! न च तत्संभवति ॥


अविभक्ता हि शब्दत्वजातिः शब्दापशब्दयोः ।

न चावान्तरसामान्ये केचिद्वर्गद्वये स्थिते ॥

न हि साधुत्वसामान्यं इतरेषु व्यवस्थितम् ।

इतरेष्वप्यसाधुत्वसामान्यमुपलभ्यते973

तदनुपलम्भादसंभवति वर्गीकरणकारणे कथमेष नियमो विधीयेतेति
नावधारयामः ॥


साधुशब्दभाषणनियमासंभवः


किंच नियमार्थेऽपि शास्त्रे वक्तव्यं—कीदृशो नियमार्थ इति—किं
साधुभिरेव भाषितव्यम्, भाषितव्यमेव नाधुभिरिति । उभयथा च
प्रमादः । आह हि त-वा-1-3-18


II.228
यदि साधुभिरेवेति नासाधोरप्रसङ्गतः ।

नियतं भाषितव्यं चेत् मौने 974दोषः प्रसज्यते इति ॥

न च वाचकत्वादन्यत् साधुत्वमित्युक्तम्, अवाचकस्य प्रयोगप्रसङ्ग
एव नास्तीति ॥


अपशब्दप्रयोगप्रतिषेधोऽपि न शक्यः


अथ प्रमादाऽशक्तिकृतापशब्दप्रयोगप्रतिषेधाय नियम आश्रीयते—
तत्रापि—


प्रमादाऽशक्तिजाः शब्दाः यदि तावदवाचकाः ।

तेषु प्रसङ्गो नास्तीति तन्निवृत्तिश्रमेण किम् ॥

अथ वाचकता तेषां अप्रमादोत्थशक्तिवत् ।

न तर्हि प्रतिषेधः स्यात् अप्रमादोत्थशक्तिवत् ॥

ननु ! अस्ति तावदपशब्दानामशक्यनिह्नवः परिदृश्यमानो लोके
प्रयोग इति तन्निवृत्तिफल एष प्रयोगनियमः कथं न भवेत्—


यद्येवं अक्षिनिकोचहस्तसंज्ञादेरपि प्रचुरः प्रयोगो दृश्यत इति तद्व्यु
दासफलोऽप्येष नियमः स्यात् ॥


अपि च विधिफलः सर्वत्र नियमो भवति, ऋतावुपेयात् इत्यादि975
निषेधफला तु परिसंख्या पंच पंचनखा भक्ष्याः इति । तदयमपशब्दे
प्रयोगप्रतिषेधफलश्च नियमश्चेति व्याहतमभिधीयते ॥


II.229

परिसंख्या तर्हि भविष्यतीति चेत्—न—शब्दापशब्दयोर्युगपत्प्राप्त्य
भावात् । तत्र चान्यत्र च प्राप्तौ परिसंख्याऽभिधीयते इति न्यायात् ॥


साध्वसाधुशब्दयोः पुण्यपापहेतुत्वमपि न


यदपि पुण्यपापफलत्वं सुशब्दापशब्दयोरिति गीयते—तदपि न
पेशलम्—परिदृश्यमानं अविवादसिद्धं अर्थप्रत्ययोपजननमपहाय परोक्षस्या
दृष्टस्य पुण्यपापात्मनः कल्पनानुपपत्तेः ॥


अर्थवादवाक्यत्वं तद्विधेः


यश्चायं 976स्वर्गे लोके कामधुग्भवति इति साधुशब्दस्तुत्यर्थवादः,
यश्च 977स वाग्वज्रो यजमानं हिनस्ति इत्यपशब्दे निन्दार्थवादः, तत्र
पदार्थस्य विस्पष्टदृष्टत्वात् अर्थवादमात्रपर्यवसितौ च द्रव्यसंस्कारकर्ममु
परार्थत्वात् फलश्रुतिरर्थवादः स्यात्
इति न्यायात् न फलार्थतेति ॥


तदेवं साधुभिर्भाषितव्यं, असाधुभिर्न इति विधिनिषेधयोरना
रभ्याधीतयोः श्रूयमाणयोरपि दौस्थित्यात् तन्मूलतया लब्धप्रमाणभावा
व्याकरणस्मृतिः अंगतामेष्यति वेदस्येति दुराशैव । प्रकरणविशेषपाठे
तु तयोस्तदुपयोगादेव न सार्वत्रिको नियमार्थतेति सर्वथा न तन्मूलत्वं
व्याकरणस्य ॥


व्याकरणाध्ययनस्य वैफल्यशङ्का


आह—तर्हि निष्कारणः षडङ्गो वेदोऽध्येयो ज्ञेयश्च इति विधेः
शिक्षाकल्पसूत्रनिरुक्तच्छन्दोज्योतिश्शास्त्रवत् व्याकरणमपि वेदाङ्गत्वा
II.230 दध्येयमित्यवगम्यते—नैतदप्यस्ति—शिक्षादीनां इतरेतरसाध्यसंकीर्ण
विविधविध्यपेक्षितवेदोपकारनिर्वर्तकत्वेन तदङ्गता सुसंगता । व्याकर
णस्य तु सुदूरमपि धावनप्लवने विदधतः साधुशब्दप्रयोगनियमद्वारकमेव
तदङ्गत्वं संभाव्यते, न मार्गान्तरेण । स च नियमो दुरुपपाद इति
दर्शितम् । अतो नांगान्तराणि स्पर्धितुमर्हति व्याकरणम् ॥


व्याकरणं न षङ्गान्तर्गतम्


निष्कारणषडङ्गवेदाध्ययनविधौ च निष्कारणग्रहणं यथा प्रयोजन
शैथिल्यं सूचयति, न तथा प्रयोजनवत्ताम् । श्रुतिलिङ्गाद्यङ्गत्वप्रमा
णापेक्षया षडङ्गता वर्णयिष्यते ॥


वाक्यानि च न व्याकरणविषयानि


एतेन तस्माद्ब्राह्मणेन न म्लेच्छित वे नापभाषित वै, म्लेच्छो ह
वा एष यदपशब्दः
इति एकः शब्दः सम्यक् ज्ञातः सुप्रयुक्तः स्वर्गे लोके
कामधुक् भवति
इति, आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सार
स्वतीमिष्टिं निर्वपेत्
इति तस्मादशेषा व्याकृता वागुच्यते इत्यादिवच
नान्तरमूलताऽपि व्याकरणस्मृतेः प्रत्युक्ता978


शिष्टत्वमपि दुर्वचम्


शिष्टप्रयोगमूला तर्हि व्याकरणस्मृतिरस्तु, 979वैद्यकस्मृतिरिवान्वयव्य
तिरेकमूलेति चेत्—के शिष्टा इति पृष्टो वक्तुमर्हसि । किं तदभिमतग
वादिसाधुशब्दव्यवहारिणः, गाव्याद्यशिक्षितापशब्दवादिनाः, द्वये वा ?


II.231

आद्ये पक्षे दुरुत्तरमितरेतराश्रयत्वम्—शिष्टप्रयोगमूलं व्याकरणम्,
व्याकरणविदश्च शिष्टा इति । न ह्यशिक्षितव्याकरणाः तत्संस्कृतगवा
दिशब्दप्रयोगकुशला भवन्ति ॥


मध्यमपक्षे गाव्यादिव्यवहारिणः शाकटिकाः शिष्टाः, तत्प्रयोगमूलं
गवादिशब्दसंकारकारि व्याकरणमिति व्याहतमिव लक्ष्यते ॥


तृतीये तु पक्षे गोगाव्यादिशब्दप्रयोगसांकार्यात् किंफलं व्याकरणं
भवेत् । वैद्यस्मृतेस्तु युक्तमन्वयव्यतिरेकमूलत्वं, तथा दर्शनादिति ।
तदनयाऽपि दिशा न प्रयोजनवत्तामुपयाति व्याकरणम् ॥


व्याकरणस्य फलवत्वं सूत्रे नोक्तम्


अतश्च निष्प्रयोजनं व्याकरणम्, तत्सूत्रकृता स्वयं प्रयोजनस्यानु
क्तत्वात् । न हि अथातो धर्मजिज्ञासा प्रमाणादिज्ञानात्, साधर्म्या
दिज्ञानद्वा निःश्रेयसाधिगमः, इतिवत् तत्र सूत्रकारः प्रयोजनं प्रत्यपी
पदत् ॥


सुज्ञानत्वान्न प्रत्यपादयदिति चेत्—किमुच्यते सुज्ञानत्वम् ? यदद्यापि
निपुणमन्वेषमाणा अपि न विद्मः, यत्र चाद्यापि सर्वे विवदन्ते ॥


व्याकरणाध्ययनस्यापुरुषार्थत्वम्


किंच धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थाः । तेषामन्यतमः किल
व्याकरणस्य प्रयोजनमाशङ्क्येत ॥


तत्र न तावद्धर्मस्तस्य प्रयोजनम् । स हि यागदानहोमादिस्वभावः,
तज्जनित980संस्कारापूर्वरूपो वा वेदादेवावगम्यते । चोदनैव धर्मे प्रमाण
II.232 मिति हि तद्विदः । चोदनामूलमन्वादिस्मृतिसदाचारपुराणेतिहासगमयो वा
स कामं भवतु । व्याकरणस्य तु स्वतस्तदुपदेशसामर्थ्यासंभवात् अङ्ग
समाख्यातत्वाच्च न तत्प्रयोजनता युक्ता ॥


प्रयोगनियमद्वारकस्तु धर्मः तस्याप्रयोजनतया निरस्त एव ॥


अर्थप्रयोजनता तु वार्तादण्डनीत्योः प्रसिद्धा, न व्याकरणस्य ।
अधीतव्याकरणाः अपि दरिद्राः प्रायशो दृश्यन्ते इति न तस्य अर्थः
प्रयोजनम् ॥


कामस्तु वात्स्यायनप्रणीतकामशास्त्रप्रयोजनतामुपगतः न व्याकरण
साध्यतां स्पृशति ॥


मोक्षे तु द्वारमात्मादिपरिज्ञानमाचक्षते क्लेशप्रहाणं चाध्यात्मविदः ।
षत्वणत्वपरिज्ञानं पुनरपवर्गसाधनमिति न साधीयान् वादः । तदेवं
धर्मादिचतुर्वर्गादेकोऽपि न व्याकरणसाध्य इति स्थितम् ॥


व्याकरणं न वेदाङ्गम्


अथोच्यते—सकलपुरुषार्थसार्थसाधनोपदेशविधेः वेदस्य व्याकरण
981मवलग्नकमङ्गम् । अतस्तत्प्रयोजनेनैव प्रयोजनवदिदमिति न पृथक्
प्रयोजनान्तरमाकांक्षतीति—तदपि परिहृतम्—यया हि साधुशब्देतरो
पदेशदिशा तस्य तदङ्गता, सा व्युदस्तैव । न चाङ्गस्यापि सतस्तस्य
तत्सेवा982द्वारमपरमस्तीति नष्प्रयोजन्यमेव । न चेदृशमनुपकारकमप्यङ्गं
भवितुमर्हति । न हि तत् प्रधानेनाङ्गीक्रियते । नियोगगर्भो हि
विनियोग इति न्यायविदः ॥


II.233

रक्षोहादिकमपि न व्याकरणफलम्


यान्यपि रक्षादीनि प्रयोजनानि व्याकरणस्य व्याख्यातृभिरभि
हितानि, तेषामन्यतोऽपि सिद्धेः न व्याकरणशरणता मुक्ता ॥


रक्षा तावदध्येतृपरम्परात एव सिद्धा । मनागपि स्वरतो वर्णतो
वा प्रमाद्यन्तं कचिदधीयानं अन्येऽध्येतारः मा विनीनशः,983 श्रुतिमित्थ
मुच्चारय
इत्याचक्षाणाः शिक्षयन्तीति रक्षितो भवति वेदः ॥


ऊहस्तु त्रिविधः मन्त्रसामसंस्कारविषयः । तत्र सामविषयः
ऊहः कशास्त्रादवगम्यते, याज्ञिकप्रयोगप्रवाहाद्वा । मन्त्रविषयोऽप्येवम् ।
प्रोक्षणादिसंस्कारविषये तु तस्मिन् व्याकरणमपि किं कुर्यात् ?


आगमस्त्वनन्तरमेव परीक्षितः । आगमगम्यं च प्रयोजनं भवति,
न चागम एव प्रयोजनम् ॥


लाघवं तु किमुच्यते ? वाल्यात्प्रभृति बहुषु बहत्स्वपि वत्सरेषु
यन्नाधिगन्तुं शक्यते व्याकरणम्, स चेल्लधुरुपायः कोऽन्यस्ततो गुरु
भविष्यति ॥


सन्देहोऽपि न कश्चिद्वेदार्थे व्याकरणेन पराणुद्यते । प्रतिवाक्य
मुपप्लवमाननानाविधसन्देहसहस्रविस्रंसनफला मीमांसा हि दृश्यते, न
व्याकरणम् । तेन रक्षोहागमलध्वसन्देहाः प्रयोजनम् इति यदुच्यते तन्न
साधु व्याहृतम् ॥


यान्यपि प्रयोजनान्तराणि भूयांसि—तेऽसुरा हेलयो हेलयः इत्युदा
हरणदिशा दर्शितानि, तान्यपि तुच्छत्वात् आनुषङ्गिकत्वाच्चोपेक्षणी
यानि । तदुक्तम् त-वा-1-3-18


II.234
अर्थवत्त्वं न चेज्जातं मुख्यैर्यस्य प्रयोजनैः ।

तस्यानुषङ्गिकेष्वाशा कुशकाशाबलम्बिनी इति ॥

व्याकरणेन शब्दसंस्कारः न संभवति


अथ कथ्यते—किं प्रयोजनान्तरपर्येषणया ? शस्दसंस्कार एव
व्याकरणस्य प्रयोजनमिति—तदपि व्याख्येयम्—कः शब्दस्य संस्कारः ?
तेन वा कोऽर्थ इति । न हि ब्रीहीणामिव प्रोक्षणम्, आज्यस्ये
वावेक्षणम्, अग्नीनामिवाधानं शब्दस्य कश्चन व्याकरणकारितः संस्कारः
संभवति ॥


नैयायिकादिपक्षे च क्षणिकाः वर्णाः । तेषामुच्चारितनष्टानां कः
संस्कारः ? शरादेरिव न वेगः, नात्मन इव भावना, न शाखादेरिव
स्थितस्थापक इति ॥


वर्णानां नित्यत्वपक्षेऽपि क्षणिकाभिव्यक्तिकत्वमपरिहार्यम् । अत
स्तेष्वपि कः संस्कारः ?


व्याकरेण वर्णादिसंस्कारासंभवः


संस्कारश्च वर्णस्य वा, पदस्य वा, वाक्यस्य वेति विकल्प्यमानः न
कस्यचिद्व्यवस्थापयितुं शक्यः । वैयाकरणानां तु निरवयववाक्यवादिनां984
पदवर्णयोः संस्कारः सुतरामनालम्बनः ॥


अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिकं अन्यान्येव पदानि संस्क
रिष्यन्त इति चेत्—न—असतां संस्कार्यत्वानुपपत्ते । आह च—


II.235
वाक्येभ्य एव परिकल्पनया विभज्य

संस्कर्तुमिच्छति पदानि महामतिर्यः ।

द्धृत्य सौरभविभूषितदृशि कस्मात्

आकाशशाखिकुसुमानि न संस्करोति इति ॥

व्याकरणस्याध्येयत्वं नापि विधिसिद्धम्


न च शब्दसंस्कारकर्तव्यतोपदेशी कश्चिदनारम्याधीतो वा प्रकरण
पठितो वा विधिरुपलभ्यते, यमनुरुध्यमानाः शब्दस्योपयुक्तरय चात्वं ले
कृष्णविषाणं प्रास्यति
इतिवत् उपयोक्ष्यमाणस्य वा, ब्रीहीन् प्रोक्षति
इतिवत् कंचनसंस्कारमनुतिष्ठेम । स्वाध्यायोऽध्येतव्यः इति तु
विधिः अभिमुखीकरणेन माणवकस्य वा ग्रन्थस्य वा 985संस्कारमुपदिशतीति
महती चर्चैषा तिष्ठतु । सर्वथा नायं व्याकरणनिवर्त्यप्रत्ययागमवर्ण
लोपादेशादिद्वारकशब्दसंस्कारोपदेशशङ्कामपि जनयतीत्यास्तामेतत् ॥


न च शब्दप्रयोगोपायस्य स्थानकरणादेः कोष्ठस्य मातरिश्वनो वा
श्रोत्रेन्द्रियस्य वा तदुपलब्धिकारणस्य प्रयोक्तुरात्मनो वा बुद्धेर्वा कश्चित्
व्याकरणेन संकारलेशः शक्यक्रिय इति तद्वारकेऽपि संस्कारेऽनुपाय एव
व्याकरणम् ॥


न च स्थूलपृषतीत्यादिकतिपयशब्दव्युत्पादनमेव व्याकरणप्रयोजन
तया वक्तव्यम्; तस्यापि कल्पसूत्राद्युपायान्तरलभ्यत्वात् ॥


शब्दतत्त्वज्ञानं न व्याकरणाधीनम्


यश्चाह—तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते त. वा.
1-3-18
इति—तस्य सोपहासमुत्तरं वार्तिककार एव दर्शितवान् ॥


II.236

तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियादृतेत-वा-1-3-18
इति ॥


सूत्रेऽप्यसंस्कृत शब्दप्रयोगः


अपि च व्याकरणेन कृतेऽपि शब्दसंस्कारे तदुपदिष्ट संस्कारबहिष्कृत
शब्दप्रयोगान् विदधतः तत्रतत्र पूर्वेऽपि दृश्यन्ते । सूत्रकारस्तावत् जनि
कर्तुः प्रकृतिः
तत्प्रयोजको हेतुश्च इति तृजकाभ्यां कर्तरि इति प्रतिषिद्धं
षष्ठीसमासं, तथा निकर्तुः इति धातुनिर्देशैकर्विषयं जनिशब्दं अर्थनिर्दे
शेऽपि प्रयुक्तवान् ॥


वार्तिकेऽसंस्कृतशब्दप्रयोगः


वार्तिककारोऽपि दम्भेर्हल्गृहणस्य जातिवाचकत्वात् सिद्धम् इति
तथैव प्रयुक्तवान् । अन्यभाव्यं तु कालशब्दव्यवायात् इति च क्लेशेन
समाससंज्ञया गुणवचनसंज्ञाबाधितत्वात् अगुणवचनत्वात् ब्राह्मणादिगण
पठितत्वात् गुणवचनब्राह्मणादिभ्यः इत्यप्राप्तमेव ष्यञं कृतवान् ॥


भाष्येऽसंस्कृतशब्दप्रयोगः


भाष्यकारोपि अविरविकन्यायेन इति द्वन्द्वगर्भे तत्पुरुषे प्रयुयुक्षिते
सुपो धातुप्रातिपदिकयोः इति प्राप्तमपि लोपं न कृतवान् । अन्यथा
कृत्वा चोद्यं, अन्यथा कृत्वा परिहार इति चात्रचान्यथैवं कथं प्राप्तमपि
णमुलमुपेक्ष्य त्त्काप्रत्ययं प्रायुङ्क्त ॥


तदिदं त्रिमुनिव्याकरणस्य त्रयोऽपि च मुनयः स्खलन्तीति986 कमुपाल
भेमहि !


II.237

मन्वादिस्मृतिष्वसंस्कृतशब्दप्रयोगः


मन्वादिग्रन्थेष्यपि क्रियन्तोऽपशब्दा गण्यन्ते ? ज्ञातारस्सन्तिमे इति
मनुना, अक्षिणी आज्य इत्याश्वलायनेन, मूर्धन्याभिजिघ्रणं इति गृह्य
कारेण, तदनन्तरं तुभ्यं च राघवस्य इति वाल्मीकिना, जन्मे जन्मे
यदभ्यस्तम्
इति द्वैपायनेन प्रयुच्तम् ।


आह च त-वा-1-3-18


अन्तो नास्त्यपशब्दानामितिहासपुराणयोः 987इति ॥

अथवा किमनेन पुराणपुरुषपरिवादेन । सर्वथाऽयं वस्तुसंक्षेपः—
988क्षामोऽपि कश्चिदुपयोगो न लोके वेदे वा व्याकरणस्य विद्यत इति ॥


व्याकरणस्य विफलत्वं वैयकरनै रप्युक्तम्


किंचान्यत्—अथ शब्दानुशासनम् इत्युपक्रम्य केषां शब्दनाम्
इति पृष्ट्वा, लौकिकानां वेदिकानां च इति प्रतिज्ञाय—न लौकिकास्सर्वे
व्याकर्तुं पारिताः शब्दाः । नापि वैदिकाः । तथाहि—तेषां व्याक्रिया
प्रतिपदं वा विधीयते ? लक्षणतो वा ? प्रतिपदं तावदनुशासनमघटमानं
आनन्त्याच्छब्दानाम् । तथा चाहुः—बृहस्पतिरि द्राय दिव्यं वर्षसहस्रं
प्रतिपदं विहितान् शब्दान् प्रोवाच, न चान्तं जगाम्' इति ॥


नापि लक्षणतः, तदसंभवात् । न हि सकलसाधुशष्दवर्गानुगतं
अपशब्देभ्यश्च व्यावृत्तं गोत्वादिवदिह किंचिल्लक्षणमस्तीत्युक्तम् ॥


II.238

सूत्रानुगुणत्वं साधुत्वमित्यपि न युक्तम्


तत्रैतत्स्यात—न जात्यादिरूपमिह लक्षणमभिधित्सितम् । अपि तु
कथमनुशासनमिति प्रश्नपूर्वकमुक्तं प्रकृत्यादिविभागकल्पनया, सामा
न्यविशेषतता लक्षेणेनेति च । तथा हि—कर्मण्यण् इति सामा
न्यलक्षणं—कर्मण्युपपदे धातुमात्रादण्प्रत्ययो भवतीति । आतोऽनुपसर्गे
कः
इति विशेषलक्षणम् आकारान्ताद्धातोः उपसर्गरहितात् कर्मण्युपपदे
कप्रत्ययो भवतीति । तेनानेन सामान्यविशेषवता लक्षणेन कुम्भकारः
नगरकारः इत्यादयः, गोदः कम्बलद इत्यादयो भूयांसः शब्दाः अक्लेशेनैव
व्याकरिष्यन्त इत्युच्यते प्रकृत्यादिविभागकल्पनयेत्यत्र यद्वक्तव्यं, तत्प्रागेव
सविस्तरमभिहितम् । सामान्यविशेषवता लक्षणेतेति तु संप्रति
निरूप्यते । तदपि व्यवस्थितं लक्षणं न दृश्यते—तथा हि—धातोः परे
प्रत्यया भवन्तीति लक्षणं कुर्वता वक्तव्यम्—कः पुनरयं धातुर्नामेति ॥


धातुस्वरूपमपि दुर्वचम्


ननु भूवादयो धातवः इत्युक्तमेव तत्स्वरूपं—केचन शब्दाः कया
चित्परिपाट्या पठिताः, ते धातुसंज्ञया लक्ष्यन्ते । तेभ्यः परे तिङः
कृतश्च प्रत्यया भवन्तीति—सत्यमुक्तमेतत्—किन्तु एवं पाठे कृतेऽपि न
धातुस्वरुपनिर्णय उपवर्णितो भवतिं । तथा च गण्डतीत्यपि प्राप्नोति,989
धातोस्तिङ्प्रत्ययविधानात् । घट चेष्टायां इति धातुः अस्ति च घट
इति प्रातिपदिकम् । अमो रोगे इति धातुः अनुबन्धत्यागात्990 अम् इति
भवति; अस्ति च द्वितीयाविभक्तेरेकवचनमिति । भू शब्दो धातुः;
अस्ति च भूप्रातिपदिकम् । यती प्रयत्ने इति लुप्तानुबन्धः यत
II.239 इति धातुः; अस्ति च यत् इति सर्वनाम । तत्र च पाठप्रसिद्धरूपमात्रा
विशेषात् अधातोरपि घट-भू-यच्छब्दरूपात् परे तिङ्प्रत्यया भवेयुः ॥


क्रियावचनत्वमपि न धातुलक्षणम्


क्रियावचनो धातुरिति चेत्—भवति तिष्ठति इत्येवमादीनाम
धातुत्वं प्रप्नोति, गण्डेश्चानर्थकः पाठः ॥


उभयं तर्हि धातुलक्षणं 991पाठः, क्रियावचनता चेति—न भवितुमर्हति ।
तदपि हि व्यस्तं वा लक्षणं, समस्तं वा ? व्यवस्तपक्षे प्रत्येकममिहिते
दोषस्तदवस्थ एव । समस्तपक्षेऽपि भवत्यादौ क्रियावचनत्वस्य द्वितीय
लक्षणस्य चाभावादधातुत्वमेव स्यादिति । एवं धातोः प्रकृतेरनिर्णीत
त्वात् कुतः परे तिङश्च कृतश्च प्रत्यया उत्पद्येरन्


तिङर्थोऽपि दुर्वचः


किंच केचन तिङ्प्रत्ययाः कालाद्युपाधयः न तद्वचनाः । अनुक्तेषु
च कालादिषु तत्पूर्वकं वर्तमाने लट्, भविष्यति ऌट्, भूते लुङ् इति
नियमनिरूपणमशक्यम् ॥


उच्यतां तर्हि तिङ्भिः कालादय इति चेत्—न—भाष्यविरोधात् ।
उक्तं हि भगवता भाष्यकारेण भूते धात्वर्थ इति । न च धात्वर्थेनैव
धात्वर्थो व्यवस्थापयितुं शक्यते । लिङादयश्च सुतरामनधिगम्यमान
विषयाः । ते हि विध्यादावर्थे विधीयन्ते । स च बिधिरूपोऽर्थः स्वरूप
तश्च उपाधितश्च न शक्यो निर्णेतुमिति992


II.240

कारकप्रकरणस्य दुःस्थत्वम्


तथा कारकानुशासनमपि दुस्स्थम् । ध्रुवमपाये अपादानम् इत्यु
च्यते । तत्र ध्रुवस्य वृक्षादेः—वृक्षात् पतितो देवदत्तः इति पतनक्रियायां
अचलतः कृशमपि न कारकत्वमुत्पश्यामः । क्रियायोगि हि कारकम् ।
सा च वृक्षे नोपलभ्यत इति ॥


सार्थाद्धीनःरथात्पतितः इति सार्थरथयोः क्रियोपलभ्यते, न
वृक्षवन्निश्चलत्वमिति चेत्—सत्यम्—स्वरसप्रवृत्ता तयोरस्ति क्रिया ।
हाने याने च पादपनिर्विशेषावेव सार्थरथौ । न च यदेकस्यां क्रियायां993
कारकं, तत् सर्वासु क्रियासु कारकं भवति, अतिप्रसङ्गात् ॥


द्वितीयानुशासने दोषः


कर्मणा यमभिप्रैति स संप्रदानम् इत्यत्र कर्मशब्दः क्रियावचनो
वा स्यात्, ईप्सिततमकारकवाची वा ? आद्ये पक्षे क्रियया सर्वकारका
ण्यभिप्रेयन्त इति क्रियासु कारकाणि संप्रदानतां प्रतिपद्येरन् । न चोपा
ध्यायस्य किचिदभिप्रीयमाणस्य व्यापारमुत्पश्याम इत्यसावकारकमेव तत्र
स्यात् । प्रतिग्रहस्तु क्रियान्तरमेव । तत्र चोक्तं क्रियया चाभिप्रेयमाणं
फलं भवति, न कारकमिति वक्ष्यामः ॥


द्वितीयस्तु पक्षः—कर्मणा कारकेण गवादिना यमभिप्रैतीति सुतरां
संकटः । क्रियासंबन्धितया हि कारकं कारकं भवति, न कारकसंब
न्धितया, करोतीति कारकमिति व्युत्पत्तेः ॥


II.241

करणलक्षणमपि न युक्तम्


साधकतमं करणम् इति तमबर्थानवधारणात् अनुपपन्नम् । अनेक
कारकसंदर्भसन्निधाने कार्यमात्मानं लभते । तेषामन्यतमव्यपगमेऽपि न
लभ्यत इति ततः किमिव कारकमतिशयखचितवपुरिति, यं तमर्थं मङ्गल
कलशेनाभिर्षिचामः । प्राचुर्येण हि प्रधानसंपत्तिपर्यन्तव्यापारयोगित्व
मित्यादि सर्वसाधारणं न काष्ठैकनिष्ठमिति काष्ठैः पचति इति कथं
तेषामेव करणत्वम् ?


अधिकरणलक्षणे दोषः


आधारोऽधिकरणम् इति यदुच्यते, तत्र वक्तव्यम् । कस्याधार
इति; क्रियायाः, कारकस्य वा ? यदि क्रियाधारत्वं अधिकरणलक्षणम्,
अशेषकारकाणामधिकरणसंज्ञा प्रसज्येत, क्रियायोगाविशेषात् ॥


अथ यत्र स्थाल्यादौ कर्माश्रितं तण्डुलादि तदधिकरणम्; समे देशे
पचति
इति न स्यात्, अप्सुपचति इति स्यात् । कटे स्थितो भुङ्क्ते इति
चापभ्रंशो भवेत् । कर्तुर्हि तत् अधिकरणं, न कर्मणः । कर्तृकर्मणोः क्रिया
श्रययोः धारणमधिकरणत्वेन कारकमिति चेत्, उभयधारत्वं न कटस्य,
न स्थाल्या इति द्वयोरप्यधिकरणता हीयेत । एकैकाधारत्वे तु तल्लक्षणे
परस्परापेक्षया पुनस्तत्स्वरूपसांकर्यं भवेत् । यदि तु सकलकारकाधारत्वं
अधिकरणलक्ष्णं, स्थाल्यां ओदनं पचति इति न स्यात्, सकलकारकान
धिकरणत्वात् । स्थाल्या अधिकरणस्य994 चाकारकत्वप्रसक्तिः । न
ह्यधिकरणमधिकरणाश्रितं भवति । 995मध्याह्ने स्नाति, रात्रावश्नाति,
II.242 पूर्वस्यां दिशि विहरति इति कालादीनामव्यापात्वात् अकारकत्व
मेव भवेत् । तथा च सति एते प्रयोगा असाधवः स्युः ॥


कर्मत्वमपि दुर्वचम्


कर्तुरीप्सिततमं कर्म इति साधकतमवदिहापि न वाचकोऽयमति
शायनः, सर्वकारकाणां क्रियार्थितया कर्तुरीप्सिततमत्वात् ॥


अथ यदर्था क्रिया, तदर्थं कर्तुरीप्सिततमं; तदर्थं त्वन्यत् इति तत्र
तमप्प्रत्य इत्युच्यते—तर्हि तस्य कारकत्वमेव न युक्तम् । क्रिया
संपादकं हि कारकमुच्यते, न क्रियासंपाद्यम् । क्रियासंपाद्यं तु फलं
भवति, न कारकम् । कारकं च, क्रियया चाप्तुमिष्टतमं इति च विप्रति
षिद्धम् ॥


क्रियानिर्वर्तकत्वं न कारकत्वम्


अथाभिधीयते क्रियोपयोगयोग्यतानिबन्धनोऽयं कारकव्यपदेशः ।
स च विचित्रः क्रियोपयोगः । अन्यथा करणस्य, अन्यथाऽधिकरणस्य,
अन्यथा संप्रदानादेः । इह च क्रियासाध्यत्वेऽपि ओदनस्य तत्क्रियोपयोगि
त्वमनिवार्यम्, तमनुद्दिश्य क्रियायाः प्रवृत्त्यभावात्—इतीत्थमनेन रूपेण
तस्य क्रियासाधनत्वात् कारकत्वमिति—नैतदेवम्—कारकत्वव्यपदेशो हि
न पारिभाषिकः, कितु क्रियासंबन्धनिबन्धनः । क्रियासंबन्धश्च ईदृशः—
यदुपेया क्रिया, तदुपायः कारकमिसि । विपर्यये तु कीदृशः कारक
वः ?


996 II.243

कर्मत्वविशेषः


अस्तु तर्हि तण्डुलान् पचति इति, मा च भूत् ओदनं पचति इति,
ओदनस्य फलदशानुप्रवेशादिति—उक्तमत्र—तण्डुलेष्वपि तमबर्थो न
वाचकः, तेषामपि फलसाधनोपयोगाविशेषादिति ॥


कर्तृत्वमपि दुर्वचम्


स्वतन्त्रः कर्ता इति किमिदं स्वातन्त्र्यं क्रियासंपाद्यं ? यदि
च्छातः प्रवर्तनमिति चेत्; कूलं पतति इति चैतन्यशून्यतया कूलस्ये
च्छानुपलम्भात् अकर्तृत्वं भवेत्997


कारकान्तरप्रेरकत्वादिकमपि न कर्तृत्वम्


अथ यद्व्यापाराधीनः कारकान्तरव्यापारः स कर्तेत्युच्यते, सर्वकार
कनिर्वर्त्यत्वात् क्रियायाः न विद्मः किंव्यापाराधीनः कस्य व्यापार इति,
समग्रकारकग्रामस्य परस्परापेक्षत्वात् ॥


अथ यः कारकान्तराणि प्रयुङ्क्ते, तैश्च न प्रयुज्यते, स कर्तेति—
तर्हि पुनरचेतनानामकर्तृत्वप्रसङ्गदोषस्तदवस्थ एव ॥


अथ धातुनाऽभिधीयमानव्यापारः कर्तेति, तत्रापि न विद्मः कस्य
धातुनाऽभिहितो व्यापारः, सकलकारकवाचित्वात् पचेः998 । अन्यथा हि
सकलव्यापारानभिधायिनि धातौ, तदर्थसाधने सर्वेषां सङ्गतिरेव न
स्यात् । तथा च सति सर्वकारकणि कर्तृत्वमेव स्पृशेयुः ॥


II.244

प्राधान्यमपि न कर्तुः


अथ मतं अगुणतो धातुनाऽभिधीयमानव्यापारः कर्तेति,—तदप्यसत्
सकृदुच्चरितो धातुः अनेकस्मित् कारकचक्रे कस्यचिद्गुणत्वेन कस्य चित्प्रा
धान्येन व्यापारं कथमिव कथयितुं शक्ष्यतीति । तत्प्रयोजको हेतुश्च
इति प्रयोज्येनैव व्याख्यातम् । एवं कारकानुशासनस्याव्यवस्थानात्
तदधीनप्रसक्तविभक्तिविधानमपि प्रत्युक्तम्, अपादाने पंचमी सप्त
म्यधिकरणे च
इत्यादिविषयनिरूपणपूर्वकत्वात् तद्विधानस्येति ॥


समासत्वस्य दुर्वचत्वम्


किंच—यदपि कृत्तद्धितसमासानुशासनं, तत् सामर्थ्यनियमपूर्वकम्,
समर्थानां प्रथमाद्वा समर्थः पदविधिः इति परिभाषणात् । तदत्रापि
वक्तव्यम्—सामर्थ्यं नाम किमुच्यत इति । एकार्थान्वयित्वमिति चेत्;
तत् कुतोऽवगम्यते ? तद्धितसमासप्रयोगप्रतिपत्तिभ्यामेवेति चेत्, तर्हि
ताभ्यां सामर्थ्यावगमः, सामर्थ्ये सति तयोः प्रवृतिरितीतरेतराश्रयम् ॥


अपि च सामर्थ्यमन्तरेणापि क्वचित् प्रयुजते समासम्, अश्राद्धभोजी,
दधिघटः, गोरथः,999 इति । तथा, सत्यपि सामर्थ्ये तद्धितप्रयोगं परिहरन्ति
अङ्गुल्या खनति, वृक्षमूलादागत इति, आङ्गुलिकः वार्क्षमूल इति
वक्तारो भवन्तीति एतदप्यसमंजसमनुशासनम् ॥


प्रातिपदिकत्वमपि दुर्वचम्


तथा अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति संज्ञालक्षणमति
व्यापकम्, वाक्यस्यापि प्रातिपदिकसंज्ञाप्रसंगात् ॥


II.245

अथ कृत्तद्धितसमासाश्च इति सूत्रान्तरे समासग्रहणम् विधिशेष
त्वेन वर्ण्यमानं तदितप्रतषेधफलं भवतीति ततो वाक्यनिवृत्तिः
सेत्स्यति—यद्येवं अधातुरप्रत्ययः इति न वक्तव्यम्; धातुप्रत्यपयोरपि
तत एव प्रतिषेधसिद्धेः ॥


अथ एकार्थतया समानशीलस्य वाक्यस्यैव प्रतिषेधे प्रभवति
समासग्रहणं, न धातुप्रत्यययोरिति—तदपि दुराशामात्रम्; वाक्य
समासयोरपि वावचनानर्थक्यकथनेन पार्थगर्थ्यव्यवस्थापनादिति ॥


तदेवं प्रातिपादिकसंज्ञाविषयस्यानिश्चयात् तत्प्रकृतिकानां ङ्याप्प्रा
तिपदिकात्
इत्यधिकृत्य स्वादिप्रत्ययानां विधानमनुपपन्नमित्यलं
प्रसङ्गेन ॥


सर्वथा दुर्व्यवस्थितं शब्दानुशासनम् ॥

व्याकरणे न्यूनताः


यश्च व्याख्यातॄणां उक्तानुक्तदुरुक्तनिरीक्षणप्रयत्नः, यश्च वाचक
मात्रा वार्णाधिक्यमिषपुरस्सरलक्षणपरिचोदनप्रकारः, यच्चेदं व्याख्यातृ
वचनं इह न भवत्यनभिधानात् इति, यच्च पदे पदे बहुलवचनं—तत्
सर्वं सुतरामपरिशुद्धिमनुशासनस्य दर्शयतीति ॥


अपशब्दभूयिष्टत्वं व्याकरणस्य


अन्ये तु, 1000शोभेति, चीर्णमिति, न याति प्रतिभेत्तुमिति, मातुरनुहरतीति
फलिनबर्हिणं 'बलवानो ह्यद्यासेति, कांदिशीक इति, भ्राजिष्णुरिति, गणेय
इति, वरेण्य इति लक्ष्यसंग्रहबहिष्कृतस्मृतिसंदेहविपर्ययप्रतिपादकत्वलक्षण
II.246 स्खलितं विप्लुतं च पाणिनितन्त्रं इति मन्यमानाः तत्र महान्तमाक्षेपमता
निषुः—स तु स्थूलोदरप्राय इति इह ग्रन्थगौरवभयान्न लिख्यते ॥


व्याकरणस्य शोधनमप्यशक्यम्


ननु ! यदि लक्षणस्य प्रणेता पाणिनिः असम्यग्दर्शी, तत्र विवरण
काराश्च नातिपुणदृशः, काममन्यः सूत्रकृत् कृतबुद्धितरो भविष्यति,
वृत्तिकाराश्च प्रौढतरदृष्टयो भविष्यन्ति । तेभ्यश्च शब्दलक्षणमविप्लुत
मवभोत्स्यामह इति—नैतदस्ति—तेषामपि अभियुक्तराः केचिदुत्प्रेक्षन्त एव
दोषं, तेषामपरे, तेषामप्यपरे । तदेवमनवस्थ प्रसङ्गान्नास्ति निर्मल
मनुशासनमिति क्लेशायैव व्याकरणाध्ययनमहाव्रतग्रहणम् । तथा चाह1001
बृहस्पतिः प्रतिपदमशक्यत्वात्, लक्षणस्याप्यव्यवस्थानात्, तत्रापि स्खलित
दर्शनात् अनवस्थाप्रसङ्गाच्च मरणान्तो व्याधिर्व्याकरणमित्यौशनसा
इति । इहाप्युक्तम्—


दुष्टग्रहगृहीतो वा भीतो वा राजदण्डतः ।

पितृभ्याभिशप्तो वा कुर्यात् व्याकरणे श्रमम् ॥

अन्यैरप्युक्तम्—


वृत्तिः सूत्रं तिला माषाः 1002टन्दी कोद्रवोदनः ।

अजडाय प्रदातव्यं जडीकरणमुत्तमम् इति ॥

एवं व्याकरणावगाहनकृतोद्योगोऽपि विद्वज्जनः

व्युत्पत्तिं लभते न वैदिकपदग्रामे मनुष्योक्तिवत् ।

अन्यत्किंचन तत्प्रतीतिशरणं नास्तीति च व्याकृतं

तस्मादप्रतिपत्तिमन्थरमुखे वेदाः प्रमाणं कथम् ॥

II.247

व्याकरणस्यावश्याध्येयत्वम्


अत्राभिधियते—यत्तावदिदमवादि—गवादिशब्दवत् अनादिप्रबन्ध
सिद्धमेव गाव्यादेरपि वाचकत्वमिति—तत्रामुं पक्षं संशयदशामेव ताव
दारोपयापः । पूर्वपाक्षिकोक्तयुक्तिसमुत्थापितस्थिरतरविपर्ययज्ञानसम
नन्तरं सहसैव सम्यग्ज्ञानोत्पादनातिभारात् भारैकदेशावतरणन्यायेन
संशयस्तावदुपपद्यते । ततः तर्कात् परिशोधितेऽध्वनि सुगमे सुखं विह
रिष्यति सम्यङ्निर्णयोपायो न्याय इति तदुच्यते । यदि गाव्यादीनां
गवादीनामिव शब्दानां प्रयोगे गतिरन्या न काचित् संभावनाभूमिमध्येति,
तत् सत्यमादिसत्तायाः कल्पने कोऽवसरः ॥


यथाहि स्वाध्यायाध्ययनसमये यादृशमेव शब्दं यथोदितमात्रानु
स्वारस्वरादिस्वरूपसमुत्थं तमुच्चारयत्याचार्यः, तादृशमेव तं शिष्यः
प्रत्युच्चारयति । प्रमाद्यन्तं वा गुरुरेवैनमनुशास्ति । आ तदुच्चारण
सामर्थ्योपजननं तावत् न मुंचति, शिक्षयति । सोऽपि शिष्टः यदा
गुरुर्भवति, तदा स्वशिष्यं तथैव शिक्षयिष्यति । आचार्योऽपि यदा शैशवे
शिष्य आसीत्, तदाऽन्येन गुरुणा शिक्षितोऽभूत् । सोऽपि तदन्येन ।
सोऽपि तदन्येनेत्येवमनादित्वं 1003जैमिनीयपक्षे, आ जगत्सर्गात्प्रभृति प्रवृत्तत्वं
वा नैयायिकपक्षे वेदस्य व्यवस्थितम् ॥


साधुशब्दव्यवस्थाप्रदर्शनम्


इत्थमेव यदि गाव्यादीनां गवादिवदप्रमादकृतः सुपरिरक्षितः प्रयोगः,
तथैव चैतेभ्योऽर्थप्रतिपत्तिपूर्वको व्यवहारः तदाऽनादिगवादिशब्दसमान
विषया एव गाव्यादय इति तदा कस्य किं ब्रूमः । अस्ति त्वत्रापरः
II.248 प्रकारः । न ह्येकान्तेन यादृगेव वक्त्रा शब्दः प्रयुज्यते तादृगेव 1004श्रोत्रा
प्रत्युच्चार्यते । किन्तु प्रमादालस्यादिविविधापराधविधुरकरणोच्चार्य
माणोऽपभ्रंशतां स्पृशन् दृश्यत इत्यस्ति संशयावसरः ॥


अपभ्रंशोत्पत्तिक्रमः


अपभ्रंशतयाऽपि ये स्थिताः, स्थास्यन्ति वा शाकटिकभाषाशब्दाः,
तानपि गोपालबालाबलादिषु प्रयुंजाना जरठपामराः प्रयत्नेनापि न यथो
च्चारितानेव तान् पाठयिक्तुं शक्नुवन्तीति अशक्तिजशब्दप्रयोगबाहुल्य
दर्शनात् संशयाना कुशाग्रबुद्धेरपि बुद्धिः भवितुमर्हति 'किमेते गवादि
शब्दा एवानादिसिद्धवाचकशक्तिभाजः, तेभ्योऽन्ये विगुणकरणप्रयोज्या
प्रमादप्रभवाः अपभ्रंशाः ? किं वा सर्व एव तुल्यकक्ष्या इति । र्वेषांस
तुल्यकक्ष्यत्वे, य एतेऽद्यत्वेऽपि प्रमादतः प्रमदादासदारकादिवदनेष्वप
भ्रष्टा अभ्यधिकतरामपभ्रंशदशां स्पृशन्तः तेऽपि तामेव गवादिशब्दधुरा
भधिरोहेयुः ॥


अपभ्रंशानां न साधुशब्दतौल्यम्


न चैवमस्त्विति शक्यमभ्यनुज्ञातुम्, इदनीमेव भ्रश्यतां तेषां प्रत्य
क्षत उपलब्धेरिति । तस्मादवश्यं तावत् अद्यत्वे परिदृश्यमानाऽपभ्रंशदृशा
दुर्बलबालाबलादिशब्दाः न गवादिशब्दान् स्पर्धितुर्महन्ति । ते चेन्न
स्पर्धन्ते तदधुना गाव्य दयोऽपि प्रकारान्तरोपपत्तिसंभावनाभङ्गुरप्रभावाः
सन्तः न गवादिशब्दसमानविधित्वमध्यवसातुं शक्नुयुविति तर्कयामः ॥


तदुक्तं भगवता जैमिनिना शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागि
त्वम्
जै. सू. 1-3-25 इति । भाष्यकारेणापि तद्व्याख्यातम् महता
II.249 प्रयत्नेन शब्द उच्चारितो वायुः नाभेरुत्थितः उरसि विस्तीर्णः कण्ठे
विवर्तितः मूर्धानमाहत्य परावृत्तः वक्त्रे चरन् विविधान् शब्दानभिव्य
नक्ति । तत्रापराध्येताऽप्युच्चारयिता—यथा शुष्के पतिष्यामीति कर्दमे
पतति, सकृदुपस्पृक्ष्यामीति द्विरुपस्पृशति
इत्यादिना ॥


अपभ्रंशशब्दानामनादित्वासंभवः


आह—विशेषे तर्हि प्रमाणं वक्तव्यं—यदेते गाव्यादयः प्रमादाद्य
पराधनिबन्धना एव, न गवादिशब्दसमानविधय इति—उच्यते । भवतु,
सिद्धं नस्समीहितं—संशयदशां तावदानीतोऽयं अनादिगाव्यादिशब्दवाची
महापुरुषः संबोध्यते 'भो महात्मन् ! इत्थं पूर्वोक्तनीत्या संशये सति,
चिन्त्यताम् ! किमेते गाव्यादयो गवादिसमानयोगक्षेमा एव हस्तः करः
पाणिरितिवत् भवन्तु । किंवाऽपराधसंभावनया मार्गान्तरमालाम्बन्ता
मिति ॥


अपभ्रंशपदानां साधुपदपर्यायत्वाभावः


तत्रैकस्मिन् वाच्ये बहवस्तुल्यकक्ष्या वाचका इति नैष न्यायः ।
कथम् ? प्रत्यर्थं शब्दनिवेशात् । तेनैव सम्बन्धकरणसौकर्यात् ।
न्यथा च संबन्धे यत्नगौरवप्रसङ्गात् । प्रत्यर्थं शब्दनिवेशे हि सति
परस्परमव्यभिचारिणौ शब्दार्थो भवतः, स शब्दः तस्य वाचकः, सोऽर्थः
तस्य वाच्य इति । अनेकशब्दवाच्यस्त्वेकोऽर्थः तं वाचकं शब्दं विजह्या
दपि, 1005तमन्तरेण शब्दाभिधेयतामपि प्रतिपद्यते इतिव्य भिचारः ॥


II.250

गोगाव्यादिपदवैलक्षण्यम्


अनेकार्थवाचिनि चैकस्मिन् वाचके इष्यमाणे शब्दोऽर्थ व्यभिचरेत्,
तस्येवार्थान्तरस्यापि ततः प्रतिपत्तेरिति इत्थमनियमोऽयमुपप्लवेत । हस्तः
करः पाणिरित्यादौ । अक्षाः, पादाः, माषा इत्यादौ तु किं क्रियते ?
गतिरन्या नोपलभ्यते । तेनानेकशब्दत्वं अनेकार्थत्वं दैवबलवत्तयाऽङ्गी
कृतम् ॥


प्रथमः पुनरेष ऋजुः पन्थाः, यदेकस्य वाचकस्यैको वाच्योऽर्थ इति ।
इह च गत्यन्तरमतिस्पष्टमस्ति प्रमादप्रभवत्वं नाम । तस्मिन् सति
किमिति प्रथमप्राप्तोऽयं प्रतिवाच्यं वाचकनियमक्रमो लङ्घ्यते । तेन
प्रमादापराधनिबन्धना गाव्यादयः, न गवादिसमानमहिमान इति युक्तम् ॥


गाव्यादिपदेषु शक्तिग्रहासंभवः


किंच वाचकशक्तिर्नाम सूक्ष्मा परमपरोक्षा अर्थापत्तिमात्रशरणा
वगमा, न तन्मन्दतायां । 1006अन्यतः कुतश्चिदवगन्तुं पार्यते । सा चेयमन्यथा
ऽप्युपपद्यमाना गवादिभ्योऽर्थप्रत्ययादिव्यवहारे मन्दीभवति । तेषु शक्ति
कल्पनायामर्थापत्तिः । एवं च गवादय एव वाचकशक्तेराश्रयाः न—
गाव्यादयः ॥


अपभ्रंशैः व्यवहारनिर्वाहक्रमः


कथं तर्हि बहूनामनधिगतव्याकरणतन्त्राणामेभिरविच्छिन्नो व्यव
हारः ? यथैव म्लेच्छभाषाभिः अक्षिनिकोचहस्तसंज्ञादिव्यवहारिणां वा
स्वैः स्वैरुपायैः ॥


II.251

अपभ्रंशेषु शक्तिभ्रमादेव बोधः


किमक्षिनिकोचादीनां अन्त्यजनपदवाचां नास्ति शक्तिः ? ओमित्यु
च्यते । कथं तर्हि तेभ्योऽर्थप्रतिपत्तिर्नैसर्गिकी ? तेषां शक्तिर्नास्तीति ब्रूमः ।
तत्स्वरूपस्याव्यवस्थितत्वेन सांसिद्धिकशक्तिपात्रतानुपपत्तेः । प्रतिपत्तिस्तु
स्वकृतसमयमात्रनिबन्धना तेभ्यः ॥


साधुशब्देषु शक्तिग्रहमूलम्


ननु ! नैयायिकानां वा न समयः प्रतिपत्त्युपायः ? सत्यम्—स
त्वीश्वरप्रणीतः प्रथमसर्गात् प्रभृति प्रवृत्तः मीमांसकाभ्युपगत 1007नैसर्गिक
शक्तिसोदर्य एव; न मादृशरचितपरिमितविषयसमयसमानः । स च
गवादिशब्देष्वेव प्राप्तप्रतिष्ठः, न गाव्यादिषु । ते तु वर्णसारूप्यच्छायया
गवादिशब्दस्मृतिमादधानाः तदर्थप्रतिपत्तिहेतुतामुपगच्छन्ति ॥


साध्वसाधुशब्दपरिज्ञानोपायः


ननु ! अनवधृतस्वरूपाणां कथं गवादिशब्दानां स्मरणम् ? तदव
धारणे वा कोऽभ्युपायः ? 1008अभियोगविशेष इति ब्रूमः । कः पुनरभि
योगः ? को वा तस्य विशेषः ? व्याकरणाध्ययनं अभियोगः । तदभ्या
सानुसारेण लक्ष्यनिरीक्षणं तस्य विशेषः । व्याकरणेन च प्रतिपदमपर्यव
सितमार्यजनप्रयोज्यसाधुशब्दसार्थसङ्ग्रहतः तद्विसदृशबर्बरपुरन्ध्रिप्राय
प्राकृतगोचरापशब्दपरिहारप्रकारव्युत्पादनमुपक्रम्यते, यदानन्त्यात् किल
कल्पशतैरपि नावकल्पते ॥


II.252

किन्तु व्यपनीतातिव्याप्त्यादिदोषोपनिपातत्रासत्रिमुनिपरीक्षितलक्षण
द्वारकस्तदुपदेशः श्रूयते । तेन च वेदेनव धर्माधर्मयोः, ब्रह्मावतारेणेव
सत्यानृतयोः, नीतिशास्त्रेणेव हिताहितयोः, मन्वादिवचनेनेव भक्ष्या
भक्ष्ययोः, दिव्येनेव शुद्ध्यशद्धयोः सिध्यत्येव साध्वसाधुशब्दयोरधिगम
इति सर्वलोकसाक्षिकमेतत् कथमपनीयते ?


दृश्यते ह्यद्यत्वेऽपि व्याकरणकोविदानामितरेषां च कृषीबलादीनां
अतिमहान् वचसि विशेष इत्येवं प्रमादादिमूलगाव्याद्यपशब्दप्रयोगसंभवात्
अनेकशब्दगतवाचकशक्तिकल्पनागौरवप्रसङ्गात् अभियोगविशेषसाध्यमान
साध्वसाधुशब्दाधिगमसौकर्याच्च गवादीनामेव वाचकत्वं, न गाव्यादीना
मिति स्थिते पूर्वपक्षोपन्यस्तः समस्त एव परीवादः परिहृतो वेदितव्यः ॥


शब्दसाधुत्वस्य प्रमाणगम्यत्वप्रदर्शनम्


तथाहि । यत्तावदभ्यधायि साधुत्वनिश्चये प्रमाणं नास्तीति—


साधुत्वं नेन्द्रियग्राह्यं लिङ्गमस्य न विद्यते ।

शास्त्रस्य विषयो नैष प्रयोगो नास्त्यसंकरः ॥

इति—तत्रायं प्रतिश्लोकः—


साधुत्वमिन्द्रियग्राह्यं लिङ्गमप्यस्य विद्यते ।

शास्त्रस्य विषयो ऽप्येवं प्रयोगोऽप्यस्त्यसंकरः ॥

इति । श्रौत्रे हि प्रत्यये 1009ग्रस्तनिरस्तरोमशाम्बूकृतादिदोषरहितो
दात्तादिधर्मसंबन्धप्रसिद्धानुपूर्वीकवर्णगणात्मकपदप्रतिभासस्तावदस्ति । स
च न संदिग्धः, न बाधकविधूतधैर्यः, नाशुद्धकरणजन्मा, न कल्पनामात्र
II.253 स्वरूप इति तत्र परिस्फुरत्स्फुटक्रमवर्णात्मकपदग्रहणमेव साधुत्वग्रहणम्,
तद्विपरीतयथानिर्दिष्टदोषकलुषितशब्दग्रहणमेव च असाधुत्वग्रहणमिति
प्रत्यक्षम्ये एव साधुत्वासाधुत्वे इति ॥


साधुत्वासाधुत्वयोः ऐन्द्रियकत्वम्


ननु ! यदि श्रोत्रकरणकेनैव प्रत्ययेन साधुत्वासाधुत्वे प्रतिपत्तारः
प्रतिपद्यन्ते, व्याकरणाध्ययनवन्ध्यबुद्धयोऽपि प्रतिपद्येरन् । न च प्रति
पद्यन्ते । तस्मान्न ते इन्द्रियविषये इति—नैष दोषः । वैयाकरणोपदेश
सहायकोपकृतश्रोत्रेन्द्रियगाह्यत्वाभ्युपगमात् । यथा हि ब्राह्मणत्वादि
जातिः उपदेशसव्यपेक्षचक्षुरिन्द्रियग्राह्यापि न प्रत्यक्षगम्यतामपोज्झति ।
यथाऽऽह न हि यत् गिरिशृङ्गमारुह्य1010 गृह्यते तदप्रत्यक्षम् इति ।
यथा वा सविकल्पकप्रत्यक्षप्रामाण्यसिद्धौ शब्दानुविद्धबोधेऽपि प्रामाण्यमुप
पादितमादौ ॥


किल संज्ञोपदेशिना पनसोऽयमिति वृद्धवचसा चक्षुरिन्द्रियेण पन
सज्ञानमुत्पद्यते, सङ्केतकरणकाले तदुभयजमिति अव्यपदेश्यपदेन व्यप
नीतम् । व्यवहारकाले तु पुनः पनसादिज्ञानमुपदेशस्मरणापेक्षचक्षुर्जनित
मपि चाक्षुषमेवेति वर्णितम् । एवमिहापि व्याकरणकोविदोपदेशसचिव
श्रवणेन्द्रियग्राह्ये अपि साधुत्वासाधुत्वे न प्रत्यक्षतामतिवर्तेते ॥


ब्राह्मणत्वादेः आचारगम्यत्वेऽपि प्रत्यक्षत्वम्


यथा च ब्राह्मणत्वादिजातिप्रतीतौ कारणान्तरमुक्तं—क्वचिदाचारत
श्चापि सम्यग्राजानुपालितादिति मन्वादिदर्शितानवद्यवर्त्मानुसरणनिपुण
II.254 तरभूपतिपरिपाल्यमानवर्णाश्रमाणां शङ्कितकृतककपटार्यवेषदुष्टशूद्रता
व्यभिचारे देशे विशिष्टाचारगम्यापि ब्राह्मणत्वादिजातिर्भवति—एवमि
हापि विशिष्टशब्दश्रवणानन्तरकालप्रवृत्तव्यवहारावगमार्थप्रतिपत्तिसहितं
शब्दानुशासनशास्त्रोपदिष्टप्रकृतिप्रत्ययविकरणवर्णलोपागमादेशादिलिङ्ग
मव्यभिचारि तत्स्वरूपावधारणे कारणं भविष्यति । यदेवंलक्षणकमर्थ
प्रत्यायकं च शब्दस्वरूपं, तत साधुतयाऽवधृतमिति व्याप्तिग्रहणोपपत्तेः ॥


शब्दसाध्वसाधुत्वयोः शास्त्रमपि प्रमाणम्


शास्त्रमपि श्रुतिस्मृतिरूपं अदुष्टशब्दप्रयोगोपनतक्रतूपकारकरणक
स्वर्गादिफलसंयोगमुपदिशत् अपशब्दभाषणप्रभवप्रत्यवायप्रतिपादकं च
वाग्योगविद्दुष्यति चापशब्दैः इत्यादि साधुत्वेतरपरिच्छेदे प्रमाणतां
प्रतिपद्यत एव ॥


शास्त्रेण साध्वसाधुशब्दनिर्णयः


ननु ! ब्रीहिकलंजवत् तत्स्वरूपसिद्धौ सत्यां तद्विधिप्रतिषेधयोः
शास्त्रं क्रमते; न तु तत्स्वरूपमेव विधत्ते, स्वरूपस्याभावार्थत्वेन1011
विधिविषयत्वायोगात् इत्युक्तम्—सत्यम्—किन्तु श्रुतिस्मृतिशास्त्रयोः
धर्मोपदेशिनोः यथोपवर्णितेनैव प्रकारेण साध्वसाधुविषयविधिनिषेध
परत्वम् । तत्स्वरूपप्रतिपत्ति1012कर्तव्यतापरं तु विध्यपेक्षितव्याकरणस्मृति
रूपमेव शास्त्रं वेदितव्यम् । मूलविध्यपेक्षितसाधुत्वान्वाख्यानपरत्वाच्च
व्याकरणस्य मूलशास्त्रमपि तत्र सोपानव्यवहितं प्रमाणीभवत्येव ॥


II.255

साधुत्वासाधुत्वयोः शास्त्रगम्यतम्


यदि वा पाणिन्यादिष्टस्मृतिद्रढिम्ना मूलभूतमाचमनादिविधिवद्वै
दिकमपि तथाविधं विधिवाक्यं कल्पयितुं शक्यमिति1013 शास्त्रस्यापि ना
विषयः साधुत्वम् ॥


वैयाकरणानां प्रयोगस्य उपादेयत्वम्


शब्दवित्प्रयोगश्च सङ्कररहित एव । तथा हि—अन्या एव निर
वद्यवर्णक्रमोदीरणोदारगम्भीरगतयः सूक्तयः सूरिजनस्य । अन्या एव
दुःश्रवाः कुस्सितसङ्कीर्णवर्णविभागविनिहितहृदयोद्वेवाः ग्राम्या गिरः
इति प्रत्यक्षमुपलभ्यते ॥


स चायमसङ्करः प्रयोगः व्याकरणसहायकं प्रतिपद्यमानः साधुत्वा
वगमोपायतां भजत एवेति सर्वथा नाप्रामाणकः साध्वसधुशब्दविभाग
इति ॥


एवं च ब्राह्मणेन न म्लेच्छित वै नापभाषित वै म्लेच्छो हवा एष
यदपशब्दः
इत्याद्यागमशब्दान्यपि तदुपयोगीनि व्याख्यातानीव भव
न्तीति ॥


विधेः नियमकरणसंभवः


यत्पुनर्नियमशास्त्रे साधुभिर्भाषितव्यम्, असाधुभिर्न इत्यस्मिन्नप
भाषितं, तदपि न पेशलम्—न हि नीरपानोपदेशवत् कृशानुपाननिषेधवद्वा
ऽनवकाशमिदं शास्त्रं; अपशब्दानामनार्यजनवदनप्रतिष्ठानां यथातथाऽ
र्थप्रतीत्युपायत्वदर्शनपूर्वकप्रयोगप्रसङ्गानपायेन प्राप्तौ सत्यां प्रतिषेधस्याव
II.256 काशसंभवात् । साधुभिरेव भाषणस्य 1014भोजनप्राङ्मुखतादिवत् नियमा
दृष्टसाफल्यात् ॥


साध्वसाधुशब्दोपदेशसंभवः


यदपि साध्वसाधुस्वरूपानवधारणात् प्रतिपदोपदेशाद्यशक्यत्वं
आशङ्कितं—तदपि प्रतिविहितम्—यादृगिदं प्रत्यक्षानुमानगम्यं साध्व
साधुशब्दस्वरूपं व्याख्यातं, तदबलम्बनपुरस्सरनियमकरणस्य सुश
कत्वात् ॥


अत एव साधुत्वं नाम किमुच्यते इति यद्विकल्पितं—तत् प्रतिविहित
मेव भवति । यतः व्याकरणलक्षणानुगमविशेषितं वाचकत्वं साधुत्वमि
त्युक्तम् । तच्च सर्वानुगामिगोत्वादिवत्सामान्यं वा भवतु । पाच
कत्वादिवत् असत्यपि सामान्येऽवच्छेदकं भवतु । सर्वथा 1015तत्कृतो
निर्वहति सर्वो व्यवहारः । वर्गीकरणे हि तदेव कारणमिति ॥


अथवा पुनरस्तु वाचकत्वमेव साधुत्वम्; तथापि तत्र नियमशास्त्रं
साधुभिरेव भाषितव्यमिति प्रवर्तितुमर्हत्येव ॥


साधुशब्दभाषणविधेर्नियमविधित्वसंभवः


यद्यप्यसाधोरवाचकत्वात् प्रयोगप्रसङ्गोनास्ति—तथापि साधुस्मरण
सरणिसमुपारूढवाचकत्वशङ्कोपप्लवमानप्रसङ्गनिवृत्तये नियमसाफल्यं
भविष्यति । विधिफलत्वेन नियमस्य फलतः परिसंख्याकार्यं असाधु शब्द
निवृत्तिः स्थास्यतीति सोऽपि न दोषः ॥


II.257

साध्वसाधुशब्दप्रयोगस्य पुण्यपापहेतुत्वम्


यदपि 1016परार्थत्वात् फलश्रुतिमर्थवादीकुर्वता पुण्यपापफलत्वं दूषितम्,
तदपि न सांप्रतम्—अर्थप्रतीतिपारार्थ्ये सत्यपि प्रयोगनियमापूर्वद्वारकपुण्य
पापफलत्वसंभवात् । पर्णमय्यादिष्वपि तथा प्रसंग इति चेत्—भवतु को
दोषः ? नैयायिकैः एकाकार 1017निरबलम्बनार्थवादपदोपदेशानभ्युपगमात्
शब्दशक्तितात्पर्यपर्यालोचनमपि तैरन्यथा क्रियत इति प्राग्विचारित
आह्निक ४ मिति तिष्ठत्वेषा कथा । तेन कामधुग्भवति इत्यादिवच
नान्यपि व्याकरणाध्ययनफलप्रकटनपटूनि तथैव नेतव्यानि ॥


सूत्रे प्रयोजनाकथननिदानम्


यदपि सूत्रकृता स्वयं प्रयोजनं किमिति न व्याहृतमिति व्याहृतं—
तदप्यदूषणमेव—व्याकरणं हि वेदांगमिति प्रसिद्धमेतत् आ हिमवतः, आ च
1018कुमारीभ्यः । वेदश्च यदि निष्प्रयोजनः—स्वस्ति प्रजाभ्यः, समाप्तानि
दृष्टादृष्टफलानि सर्वकर्माणि, जितं चातुर्वर्ण्यबाह्यैः अन्त्यजनपदवासिभिः
म्लेच्छैः ॥


अथ सप्रयोजनो वेदः सोंऽगवत्त्वात् अंगैः सहैव सप्रयोजनतां भजत
इति कोऽर्थः प्रयोजनान्तरचिन्तया । न हि दर्शपूर्णमासप्रयोजनादन्यत् प्रया
जादिप्रयोजनमन्विष्यत इति मन्वानः स्वयं सूत्रकृत् प्रयोजनं नाख्यत् ॥


व्याख्यातारस्तु मुख्यानुषंगिकभेदभिन्नप्रयोजनप्रपंचप्ररोचनातिशय
व्युत्पादनद्वारकश्रोतृजनोत्साहपरिपोषसिद्धये दर्शितवन्त इति न कश्चि
दुपालभ्यः ॥


II.258

व्याकरणस्य वेदाङ्गत्वसमर्थनम्


कथं पुनरंगता व्याकरणस्य ? कमुपकारमावहत इति । कस्यैष
पर्यनुयोगः ? वेदवत् अंगानामनादित्वात् ईश्वरप्रणीतत्वाद्वा पर्यनुयोजना
नुपपत्तेः । संक्षेपविस्तरविवक्षया हि पाणिनिपिंगलपराशरप्रभृतयः तत्र
तत्र कर्तारः प्रसिद्धिं गताः । परमार्थतस्तु वेद इव तदर्थोऽपि, तदर्था
वगमोपायोऽपि हि सर्व एवानादयः, प्रजापतिनिर्मिता वेत्येवमपर्यनुयोज्या
एव । अत एव वेदैस्तदङ्गैश्च सह चतुर्दश विद्यास्थानानि गण्यन्ते—


अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।

पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश इति ॥

भाट्टोक्तशब्दसंस्कारादिपक्षः


येऽपि शब्दसंस्कारादिविकल्पाः कृताः—तेऽपि बहुभाषित्वापस्मार
निर्मिता एव, न वस्तुस्पृशः । शिष्टा एवात्र प्रष्टव्याः । त एव च
जानन्ति—के संस्कृताः शब्दाः ? के वा तद्विपरीताः । कश्च तेषां
संस्कार इति । न च तावता शिष्टप्रयोगमूलमेव व्याकरणं ब्रूमः, वेद
वदनादित्वस्य दर्शितत्वात् । अन्धपरम्पराप्रसङ्गदोषपरिजिहीर्षया तु
शिष्टप्रयोगमूलत्वमभिधीयते । वैद्यकस्मृतेरिव अन्वयव्यतिरेकमूलत्वात् ।
ये हि व्याकरणस्मृतौ साधव इत्यनुशास्यन्ते शब्दाः ते शिष्टैस्तथैव प्रयुज्य
माना दृश्यन्ते, हरीतकीभक्षणादिवारोग्यम् । न तु शिष्टेभ्यः शब्द
समाम्नायमधिगम्य पाणिनिः ग्रन्थं प्रणीतवात् । न चान्वयव्यतिरेकाभ्य
द्रव्यशक्तीरवगम्य चरकं 1019प्रणीतवानिति विद्यानामनादित्वाभि
धानात् ॥


II.259

एतेनेतरेतराश्रयमपि प्रत्युक्तम्, न हि शिष्टेभ्यो व्याकरणस्य
प्रभव इति ॥


शिष्टप्रयुक्तापशब्दानां गमनिका


यत्तु शिष्टानामपि प्रमादित्वमुपवर्णितम्—किल पुराणैर्मुनिभिरपि
बहुभिरपशब्दाः प्रयुक्ता इति—तत्राभियुक्तैः तदपनयनमार्गः 1020प्रदर्शित
एव । स तु ग्रन्थविस्तरत्रा सादिह न प्रतन्यते ॥


पाणिन्याद्युक्तिषु दोषशङ्कापरिहारः


यदपि पाणिनितन्त्रे धातुप्रातिपदिककारकाद्यनुशासनविसंष्ठुलत्वमने
कशाखमाख्यापितं—तदपि निपुणमतिभिः1021 प्रतिसमाहितमेव । न च
तेषामपि दोषोत्प्रेक्षणसंभवादनवस्था, निपुणदर्शितमार्गे विप्लवकारवैत
ण्डिकपण्डित तस्करावकाशानुपपत्तेः ॥


शोभादिशब्दानां साधुत्वम्


एतेन शोभा-चीर्ण-वर्ण-वरेण्य-गणेय-भ्राजिष्णु-कान्दिशीकादिशब्दा
संग्रहस्मृतिसंदेहविपर्ययादिदूषणान्यपि कैश्चिदुत्प्रेक्षितानि प्रतिक्षिप्तानि
मन्तव्यानि, तानि च तैरेव समाहितानीति ॥


बृहस्पतिवचनस्य गतिप्रदर्शनम्


बार्हस्पत्यमपि सूत्रं असूत्रमेवेत्यलंस्वमनीषिकाकल्पितानल्पदुर्विकल्प
डंबरोत्तर्भितालीकपाण्डित्यगर्वगलग्रहणगद्गदगिरामुद्वेगकारिणानेन वस्तु
II.260 विचारेण । सर्वथा प्रकृतिनिर्मलमत्युदारं व्याकरणाम्बरमेवंप्रायैः परि
वादपांसुपातैः न मनागपि धूसरीकर्तुं पार्यत1022 इति सिद्धम् ॥


तस्मात् पवित्रात् सर्वस्मात् पवित्रं आर्यजनबहुमतं अधिगतचतुर्वर्ग
अग्राम्यमात्मानं कर्तुं अध्येतव्यं व्याकरणम् ॥


व्याकरणस्यावश्याध्येयत्वोपसंहारः


आह च—


आपः पवित्रं प्रथमं पृथिव्यां

अपां पवित्रं परमा हि मन्त्राः ।

तेषां च सामर्ग्यजुषां पवित्रं

महर्षयो व्याकरणं निराहुः ॥

व्याकरणाध्ययनप्रशंसा


इहाप्युक्तम्—


रूपान्तरेण देवास्ते विहरन्ति महीतले ।

ये व्याकरणसंस्कारपवित्रितमुखा नराः ॥

किंच—


वरं हि जातास्तिमयो1023 गभीरे

जलाशये पङ्किनि नित्यमूकाः ।

न मानवा व्याकरणाभियोग—

प्रबुद्धसंस्कारविहीनवाचः ॥

II.261

मनुना च 1024पङ्क्तिपावनत्वेनाधिगतव्याकरणः मीमांसकश्च स्वस्मृतौ
पठितौ—


यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्

इति । पुष्पदन्तो ऽप्याह—


भ्रष्टः शापेन देव्याः शिवपुरवसतेर्यद्यहं मन्दभाग्यः

भाव्यं वा जन्मना मे यदि मलकलिले मर्त्यलोके सशोके ।

स्निग्धाभिर्दुग्धधारामलमधुरसुधाबिन्दुनिष्यन्दिनीभिः

कामं जायेय वैयाकरणभणितिभिःतूर्णमापूर्णकर्णः ॥

व्याकरणेन वेदसहकारः


एवं व्याकणाभियोगसुलभप्रौढोक्तिभिः पण्डितैः

अक्लेशेन विचित्रवैदिकपदव्युत्पत्तिरासाद्यते ।

अन्यैरप्युपबृंहिते दृढतरैरङ्गैः निरुक्तादिभिः

वेदे स्वार्थधियं वितन्वति कुतः प्रामाण्यभङ्गो भवेत् ॥

1025अङ्गभावनिरपेक्षयैव नः

प्रत्ययो1026 यदि ह शब्दविद्यया ।

वैदिकार्थविषयो विधीयते

त्कुतस्त्यमितरेतराश्रयम् ॥

II.262

पाणिनिव्याकरणवैशिष्ट्यम्


आदृतमस्खलितव्यवहारैः

1027भोगिमतं श्रुतसङ्गिभिरार्यैः ।

व्याकरणं कथमेतदनादि

प्राकृतलक्षणसाम्यमुपेयात् ॥

शब्दप्रामाण्यनिगमनम्


एवं मृषात्वमुदगीयत येन येन—

च्छिद्रेण कल्पितपिशाचरवैरनार्यैः ।

तत्तत्समग्रमपसारितमित्यतश्च

प्रामाण्यमप्रतिहतं स्थितमागमानाम्1028

प्रमाणविचारनिगमनम्


इति प्रमाणानि यथोपदेशं

एतानि चत्वारि परीक्षितानि ।

प्रवन्वतां संव्यवहारमेभिः

सिध्यन्ति सर्वे पुरुषार्थसार्थाः ॥

इति जयन्तभट्टकृतौ न्यायमञ्जर्यां षष्ठमाह्निकम्

  1. बीजं—कारणम् । पदस्वरूपस्य, वाक्यस्वरूपस्य, तेषां अर्थप्रत्यायन प्रकारस्य च दुर्निरूपत्वात् शब्दप्रामाण्यं दुरवस्थमेवेत्यर्थः ॥

  2. शब्दनित्यत्ववत् स्फोटनित्यत्वादिकमपि न वेदप्रामाण्योपपादकम् । इतर व्यावृत्तमीश्वरोपदिष्टत्वमेव तदुपपादकं भवेत् । वेदप्रामाण्यसमर्थनमेव हि न्याय शास्त्रस्य परम उद्देशः ॥

  3. वर्णानां नित्यत्वं सर्वगतत्वं चात्र हेतुः ॥

  4. कारकत्वं—अज्ञातत्वेऽपि स्वरूपत एव कार्यनिर्वर्तकत्वम् ॥

  5. शाब्दबोधस्य ज्ञानरूपस्य आत्ममनस्संयोगादिरेव कारकहेतुः । वर्णस्तु ज्ञातस्सन्नेव हेतुः ॥

  6. प्रतीतिः—वर्णनां ग्रहणम् ॥

  7. वासना—संस्कारः । कारणानां संत्काराणामनेकत्वे सति तज्जन्यस्मृतेः एकत्वं कथं संभवेदित्याशयः ॥

  8. संकलनाज्ञानं—तावद्वर्णविषकमेकं समूहालम्बनात्मकं, समुच्चयात्मकं वा ज्ञानम् । सदसत् इति तत्कालदृष्ट्या ॥

  9. विपरीतेत्यादि—विपरीतक्रमेण वर्णानामुच्चारणेऽपि समूहालम्बनात्मकज्ञाने सर्वेषां वर्णानां विषयत्वात् वाचकत्वापत्तिः ॥

  10. प्रयोज्यवृद्धस्य प्रवृत्तिं पश्यन् बालः तस्य प्रवृत्तिं प्रयोजकवृद्धवाक्यार्थ ज्ञानमूलिकां जानन् हि व्युत्पद्यते ॥

  11. अर्थावगतिरूपात् कार्यात् तत्कारणस्य स्फोटस्यानुमानम् ॥

  12. वर्णस्यावगतिहेतुत्वपक्षस्य क्षेपणे—निरसने दक्षाणां दूषणानां पात्रताम् ॥

  13. उपपन्नः—स्फोटस्य शब्दत्वात् । संस्कारस्यार्थप्रतिपादकत्वे त्त्विदमनुपपन्नमेव ॥

  14. स्मृतिविषयास्सन्तः ते—इत्यर्थः ॥

  15. वाक्यस्फोटस्य एकत्वात् ॥

  16. शब्दकार्यं—अर्थप्रतीतिः ॥

  17. एवं सति—श्रोत्राग्राह्यत्वेऽपि अर्थप्रतीतिजनकत्वमात्रात् शब्दपद वाच्यत्वे ॥

  18. अथ गौरित्यत्र कः शब्दः ? गकारोत्तरौकारोत्तरविषर्जनीया इत्युपवर्षः इति शाबरभाष्यम् 1-1-5

  19. इदं—वर्णानां अर्थप्रत्यायकत्वम् ॥

  20. पदस्फोटवाक्यस्फोटाद्यभिव्यक्त्यर्थं श्रुतचराणां तेषां संस्कारस्य हेतुत्वं कल्पनीयम् । पुनस्तैः स्फोटः, ततः शब्दबोधः । एवंचेत् संस्कारा एव शब्दबोधजनिका भवन्तु, तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन इतिन्यायात् ॥

  21. स्फोटस्य अखण्डत्वात् प्रथममेवाभिव्यज्यते ॥

  22. चकारात् वर्णपरिग्रहः । परन्तु वर्णाः अपरमार्थाः, स्फोटस्तु परमार्थः । मणिकृपाणाद्यभिव्यङ्ग्ये मुखे सत्यत्वं, श्यामदीर्घतादावसत्यत्वमिति एकाभिव्यञ्जकव्यङ्यत्वेऽपि विशेषः स्पष्टः ॥
  23. दुर्भगाः—दौर्भाग्यवन्तः । सुभागः—सौभाग्यवान् ॥
  24. दुर्भगाः—दौर्भाग्यवन्तः । सुभागः—सौभाग्यवान् ॥
  25. पूर्वोक्तप्रत्येकसमुदायविकल्पदुष्टत्वात् ॥

  26. वाक्यस्फोटः, पदस्फोटः, वर्णस्फोटः इत्यनुक्रमश्चेत् वर्णपक्षेऽपि इदं समानमेव । अतश्च पूर्वोक्तकल्पनाद्वयानतिपातः ॥

  27. न सन्ति इत्याकर्षः ॥

  28. न हि पदेन व्यवहरन्ति, अपि तु वाक्येन ॥

  29. अवयवः—पदादिरूपः ॥

  30. तदंशावगमः—तदंशतया प्रतीतिः ॥

  31. करितुरगादौ गच्छति रेणुरुत्तिष्ठति । तत्रैव मार्गें अकस्मात् पिपीलिकाऽपि गच्छति । अत्र पिपीलिकापि रेणूद्गमहेतुस्स्यात् ॥

  32. अलिदंशभ्रमः खलु सत्य एव । रेखा अपि सत्या एव ॥

  33. येन—रेखात्वेन । येन च—वर्णत्वेन ॥ अलिदंशभ्रमेऽपि, भ्रमत्वेनं न तस्य मरणहेतुत्वम् । अपि तु प्रमात्त्वभ्रान्त्यैव ॥

  34. भव इव आचरति भवति इति क्विप् ॥

  35. भवति इति तिङन्तमपि, भवच्छब्दः सप्तम्यन्तमपि ॥

  36. प्रकरणं निर्दिष्टविषयकम् । शास्त्रं तु समग्रम् ॥

  37. विविधं प्रतीयते । विविधं परिणमत इति वा । वाक्यपदीये विवर्तपरिणामशब्दौ पर्यायता प्रयुक्तौ ॥

  38. विद्योपायः—ज्ञानसाधनम् । असत्यात्सत्यसिद्धेरिदं मूलम् ॥

  39. प्रत्यये—प्रतीतौ । न सोऽस्तिप्रत्ययो लोके यश्शब्दानुगमादृते इति हरिः ॥

  40. ज्ञानं जातमपि घटोऽयं इत्यादिप्रत्यवमर्शः यावन्न जातः, तावत् अर्थप्रकाशात्मकमपि तत् न तथा ज्ञायेत । व्यवहारानुगुण्यापादनमेव ज्ञानकृत्यम् ॥

  41. परासंज्ञकस्तु शब्दः अनिर्वचनीय इत्यदभिप्रायेणात्र नोक्तः ॥

  42. शून्यविवर्तवादः, विज्ञानविवर्तवादः, शब्दविवर्तवादः, ब्रह्मविवर्तवादश्चेति चत्वारो विवर्तवादाः प्रायः शब्दभेदमात्रे पर्यवस्यन्ति । निरूपणप्रक्रिया तु समाना ॥

  43. वाक्यमेव कल्पितं चेत् किमु वक्तव्यं प्रत्येकपदानां वर्णानां वा !

  44. अधस्ताद्दारुणि शिला, नासा दारूपरि स्थितम् इत्यमरः पुट-12 द्वारोपरितनशिला । इतरपार्श्वत्रयस्थितशिलाभिः यते ॥

  45. संस्था—धारणा । प्रकृते तदुपायः ॥

  46. पक्षद्वये—शुक्लपक्षकृष्णपक्षयोः । दर्शयागे त्रयः, पौर्णमास्यां त्रयश्च विहिताः ॥

  47. आग्नेयादिभिरवान्तरापूर्वनिर्वृत्तिर्वक्तव्या चेत्, आग्नेयाङ्गभूतब्रीह्यवहननादिक्रियाभिः प्रथमं किं कार्यं निर्वर्त्यत इति वक्तव्यम् । आहत्यावान्तरापूर्वनिर्वृत्तिश्चेत्प्रकृतेऽपि समानम् ॥

  48. स्वर्गसाधनत्वेन ज्ञात्वा तत्र प्रवर्तते, न तु अवान्तरापूर्वसाधनत्वेन ॥

  49. स्वर्गमात्रा—स्वर्गलेशः ॥

  50. एष दोषः—अबान्तरापूर्वपरमापूर्वयोर्लेशतोऽपि संबन्धानवगमरूपः ॥

  51. घण्टाताडनादौ दश, एकादशेत्यादि संख्यागणनायां अयमंशः स्पष्टः । उपरितनग्रन्थे अयमंशः व्यक्तः ॥

  52. स्मर्यमाणानुभूयमानवर्णविषयकत्वकल्पनाक्लेशः अस्मिन् कल्पे नास्ति । आहत्य सर्ववर्णविषयकं एकं मानसिकं ज्ञानमेव भवतु बोधजनकम् ॥

  53. तावताऽपि तस्य सर्ववर्णविषकत्वात् ॥

  54. शाब्दबोधात्पूर्वभाविन्यः ॥

  55. अनुभवः—शाब्दबोधात्मकः ॥

  56. तादृशः—अनुभवजन्यस्सन् अनुभवहेतुः ॥

  57. कार्यविशेषः अनुभवरूपः ॥

  58. प्रथमं एकवर्णविषयकः; ततः वर्णद्वयविषयः एवमुपचीयमानः ॥

  59. एषः—संस्कारः । एषः—स्फोटः ॥

  60. इदं च संस्कारस्यार्थप्रतीतिहेतुत्वकल्पनपक्षाभिप्रायेण ॥

  61. पूर्वपूर्वसंस्कारस्येति शेषः ॥

  62. सिद्धे वस्तुनि अतिरिक्तधर्ममात्रकल्पनमत्र, भवतस्तु धार्मिणोऽपि कल्पनम् । इदं सर्वं संस्कारस्यार्थप्रत्ययहेतुत्वपक्षे । स्मृतिहेतुत्वपक्षे त्वस्यापि नावकाशः ॥

  63. अपूर्वस्य—सूक्ष्मस्य स्फोटाख्यस्य ॥

  64. वाक्यस्येत्यध्याहारः ॥

  65. अल्पीयसा—एकवर्णोच्चारणानुकूलप्रयत्नेनोच्चारितः यदा एको वर्ण तदैव समग्रमपि वाक्यं मतिः गृह्णीयात्, अथवा कदापि वा न गृह्णीयात्, वाक्यस्फोटस्य निरवयवत्वात् ॥

  66. पराणुद्य—परित्यज्य ॥

  67. उच्चरितस्य वाक्यस्य श्रवणे इति अर्थसिद्धम् ॥

  68. प्रतीपं—यावन्तो यादृशाः इत्यस्य प्रतिकक्ष्यतया ॥

  69. क्रमविशिष्टा वर्णा वाचकाः ? अथवा वर्णानां क्रमः वाचकः ? इति पक्षद्वये क्रमस्य वर्णाश्रितत्वेनाप्रधानत्वात् प्रथमपक्ष एव साधीयान् ॥

  70. शब्दानां नष्टत्वात्, तत्संस्काराणामेव वाचकत्वं सिद्धं भवति ॥

  71. किन्तु प्रमाणाधीनेति शेषः ॥

  72. भवत्पक्षे हि संस्कारेणाचष्टे इति स्यात् ॥

  73. शब्दहेतुः, तत्कार्याणि वा श्रौत्रबुद्ध्या न विषयीक्रियन्ते ॥

  74. सत्ता—शब्दगतसत्तादिः ॥

  75. समानजातीयत्वं बहिरिन्द्रियत्वेन ॥

  76. मीमांसकैस्तु थ्वनेः वायुधर्मत्वमेव स्वीकृतम् ॥

  77. न हि प्रत्येकं वर्णेषु पदत्वस्य वाक्यत्वस्य वा प्रतिसन्धानं कस्यापि भवति ॥

  78. शब्दः इति शब्दः शब्दसामान्यमाचष्टे, तदेव किलशब्दत्वम् ॥

  79. प्राभाकरैः ॥

  80. अभिन्नं—अखण्डम् ॥

  81. एवं एकेनैव चक्षुषा घटोऽपि गृह्यते, पटोऽपि गृह्यते ॥

  82. एकत्वं अखण्डत्वम् ॥

  83. शब्दार्थयोरविनाभावात् ॥

  84. सावयवत्वं प्रत्यक्षसिद्धम् । निरंशत्वं तु युक्तिसिद्धम् । तत्र तु विप्रतिपत्तिः स्यात् । अतः निरंशत्वं कथमित्येव विचारणीयम् ॥

  85. त्वन्मत इति शेषः ॥

  86. त्वक् परिकरसुगन्धद्रव्यम् ॥

  87. वाक्यार्थस्याखण्डस्य खण्डिततत्वादिति हेतुः ॥

  88. वाक्यार्थस्य पदार्थातिरिक्तत्वे, अखण्डत्वे च वाक्यशक्तिग्रहः अशक्य एव ॥

  89. प्रत्येकमिति शेषः ॥

  90. पदोपजननापायौ—पदेन साकमन्वयव्यतिरेकौ ॥

  91. अन्वयव्यतिरेकौ हि ज्ञापकौ । न तु कारकौ । अन्वयव्यतिवेकाभ्यां नोत्प द्यत इत्यन्वयः ॥

  92. अन्यथा करितुरगादीनामपि तद्धेतुत्वे न स्यादित्यर्थः ॥

  93. ओषधिविशेषेऽपि अश्वकर्णसादृश्यादेव तत्प्रयोग इति न सर्वथाऽर्थशून्यत्वम् ॥
  94. सृगतौ—इतिधातोः उत्तमपुरुषबहुवचने आख्यानस्यान्तोदात्तत्वम् । बहुव्रीहित्वे आद्युदात्तत्वम् । अन्यत्र उदात्तत्वम् ॥
  95. खण्डिका—वेदभागः, अनुवाकवत् ॥

  96. रेखायामिति शेषः ॥

  97. उल्लिखन्ती बुद्धिः इत्यन्वयः ॥

  98. विषयप्रकाशके ज्ञाने जाते, तत्र शब्दस्य परामर्शः स्यात् न वा न तत्र निर्बन्धः । परन्तु शब्दाविषयकत्वमात्रात् विषयाविषयकत्वं न भवेत् । शब्दाननुविद्धा प्रतीतिः स्यादेव ॥

  99. जडत्वं—घटादिवन्निर्विषयत्वम् ॥

  100. विततया—एवं विस्तरेण प्रतिपादितया रीत्या वर्णाः धिया विषयीकृताः पदतां, वाक्यतां वा दधति । न त्वतिरिक्तं पदं वाक्यं वा । कृताम् इति पाठे तत् पदतामित्यादेर्विशेषणम् ॥

  101. विधिहतः—दुर्भगः । असौ—स्फोटः ॥

  102. अनन्यथासिद्धौ ह्यन्वयव्यतिरेकौ कार्यकारणभावनिर्णायकौ ॥

  103. उभयं—पदार्थप्रतिपादनं, वाक्यार्थप्रतिदादनं च ॥

  104. अपचारः—अनवधानादिः ॥

  105. आ—इति ईषदर्थे । अस्पष्टरूपभिति यावत् ॥

  106. तथाच अनुगतरूपमन्तरा न तत्रान्वयव्यतिरेकाधीनकारणत्वं निश्चेतुं शक्यम् ॥

  107. संसृष्टः इति खले कपोतन्यायेन संसर्गस्य वाक्यार्थत्वपक्षे । इतर इत्यादि खण्डवाक्यार्थबोधपूर्वकमहावाक्यार्थबोधपक्षे ॥

  108. स्वविषयकज्ञानजनने ॥

  109. कार्यद्वयं—पदार्थप्रतिपादनम्, वाक्यार्थप्रतिपादनं च ॥

  110. कार्यं प्रति विशेषा एव कारणम्, न सामान्यम् । दण्डत्वादिकं हि घटादीन् प्रत्यन्यथासिद्धम् ॥

  111. तदा हि शाब्दबोधस्यानुमितित्वं स्यात् ॥

  112. तेषां—पदानाम् ॥

  113. धर्मे शब्द एव प्रमाणमिति मीसांसकाः ॥

  114. प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धय इति प्रमाणषट्कवादिनो हि भाट्टाः ॥
  115. अपचारः—अनवधानादिः ॥
  116. किन्तु पदजन्यैव ॥

  117. समयः—शक्तिः ॥

  118. शक्तिज्ञानादिरूपसामग्यां सत्यां, पदे श्रुतेऽपि पदार्थस्मृतिर्न भवतीति कथज्यते ?

  119. वेदग्रहणादौ, लङ्घनाभ्यासादौ वा ॥

  120. मीमांसकानां, शब्दविवर्तवादिनां च स सिद्धान्तः । तदङ्गीक्रियते चेत् न्यायशास्त्रस्य वैफल्यमिति नर्मोक्तिः ॥

  121. पदार्थज्ञानाभावादिति हेतुः । मध्ये पदार्थज्ञानाङ्गीकारे तु ज्ञानयौगपद्यम् ॥

  122. प्रतिपदं—एकैकपदश्रवणवेलायाम् । प्रतिक्षणं वा ॥

  123. मध्ये पदस्मरणं मा स्तु । मनसैव तावद्विषयकं ज्ञानं भवतु ॥

  124. अनुरागः—अनुरंजनम् । तावत्पदार्थविषयकविशष्टशाब्दबोधप्रयोजकसंस्कार विशेषः ॥

  125. अदृष्टविशेषोद्भूतसंस्काराधीनस्मरणेन साकम् ॥

  126. समयस्मृतेरेव—इत्यन्वयः । समयः—संकेतः ॥

  127. अत्यन्तव्यवहितत्वादेव ॥

  128. न तु विषयाधिक्यात् ॥

  129. अयं न्यायभाष्यटीकाकार इति चक्रधरः ॥

  130. कश्मीरे अरण्ये राज्ञा शङ्करवर्मणा चिरमसौ निक्षिप्त इति वार्तेति चक्रधरः ॥

  131. स्मृतेः अप्रमात्वं न तदभाववति तत्प्रकारकत्वरूपम् ॥ किन्तु प्रमात्वाभावमात्ररूपम् । तच्च प्रमालक्षणे अनुभवत्वनिवेशप्रयुक्तम् । अतश्च यथा संबन्धः, तथा ग्रहान्न शाब्दबोधस्याप्रामाण्यम् ॥

  132. तेन तावद्वर्णश्रवणपूर्वक इव बोधः भवति ॥

  133. तावद्वर्णविषयकं श्रौत्रऽत्यक्षभिव, तज्जन्यमिव च ज्ञानम् ॥

  134. प्रत्येकं अबोधका अपीत्यर्थः ॥

  135. वाक्यघटकसर्वपदानां युगपदन्वितत्वेनैव अभिधाने अन्विताभिधानम् । पदैरर्थाभिधानाननन्तरं अन्वयभाने अन्विताभिधानम् ॥

  136. अन्यत्र—वाक्याद्बहिः ॥

  137. वाक्यघटकप्रत्येकपदार्थज्ञानानपेक्षणात्, प्रत्येकं पदशक्तिग्रहणा संभवाच्च वाक्ये सर्वस्मात् पदात् सर्वोऽप्यर्थः प्रतीययेत ॥

  138. औत्पत्तिकः—सहजः ॥

  139. सरसामस्मि सागरःगी. 10. 24 इत्यभिप्रायेणेदम् ॥

  140. प्रथममर्थस्याभिधानात् ॥

  141. स्यरूपतस्सन् इति शेषः ॥

  142. अर्थः—प्रयोजनम् ॥

  143. पिठरस्स्थाल्युखा इस्यमरः ॥

  144. तथा चामिहितान्वयवाद एवासौ ॥

  145. तत्र—सङ्घातकार्ये ॥

  146. वाक्यशक्तिवादिनः खलु ते । तेन वाक्यशक्तिनिर्णयहेतुभूतपदशक्तेः शाब्दबोधे निमित्तत्वाभावः सिद्ध्यति ॥

  147. अन्वयोपस्थापन इति शेषः ॥

  148. कार्यान्विते शक्तिः, इतरान्विते शक्तिः, अन्विते शक्तिः इति अन्विताभिधानवादे कक्ष्यात्रयं वर्तते ॥

  149. इत्थं—शाब्दादनुपस्थितस्य शाब्दबोधविषयत्वे ॥

  150. पदं प्रयुज्यमानमपि—इत्यन्वयः ॥

  151. अनभिधानं—वाक्यघटकपदानां प्रत्येकार्थबोधाभावः ॥

  152. मीमांसकः—विचारकुशलः । मानेर्जिज्ञासायाम् इति वार्तिकम् ॥

  153. अत्रापि—अंगुल्यग्रवाक्यादौ ॥

  154. शब्दादर्थतीतिस्तु उभयोस्तुल्या । अन्यथाऽयोग्यत्वज्ञानं वा कथं भवेत् ॥

  155. अन्यविषयः—वस्तुविषयः ॥

  156. आवापोद्वापादिमूलकशक्तिग्रहणासंभवादिति हेतुः ॥

  157. कार्यं—आनयनादि ॥

  158. सर्वत्र—संसर्गाशेऽपि ॥

  159. दारुशलाकाः कदाचित् वज्रलेपसंसृष्टा वा भवेयुः ॥

  160. अन्वयार्हपदार्थाभिधानम्, पदार्थाभिधानेनान्वयाभिधानं च ॥

  161. सामान्येन—सामान्याकायेण—आपाततः ॥

  162. सामान्यं—जातिः ॥

  163. अन्वितं—वस्तुगत्याऽन्वयविशिष्टम् ॥

  164. परस्परापेक्षितार्थप्रतिपादनात् ॥

  165. अन्वितेति वस्तुस्थित्यभिधानम् ॥

  166. सान्द्रे—संसर्गज्ञानवति ॥
  167. प्रसिद्धं हि नैको ऋषिर्यस्य मतं प्रमाणम् इत्यादि ॥

  168. अवीची—नरकविशेषः । नरकक्षेत्रस्वामिन मित्यक्रोशोक्तिः । वेदनिन्दायास्तावदेव फलमित्यर्थः ॥

  169. सत्यं वदत—इति शपथवाक्यम् । व्याकरणादिपठनमात्रेण न कश्चित्तादृशो दृश्यत इति भावः ॥

  170. विवरणकारः—व्याख्यानकारः ॥

  171. अनुमानेन—साधुशदानुमानद्वारा ॥

  172. विशिष्टेति । विलक्षणेत्यर्थः ॥

  173. लक्षणं—पाणिन्यादिसूत्रम् । तच्चाग्रेस्पष्टीभविष्यति ॥

  174. विधिनिषेधौ—साधुभिर्भाषितव्यम्, असाधुभिर्नेति ॥

  175. अवाचकत्वरूपत्वात् असाधुत्वस्य ॥

  176. उपलक्षणं—परिचायकम् ॥

  177. न हि इत्यनुवर्तते ॥

  178. मौनं खलु शास्त्रविहितम् ॥

  179. ऋतावेव, उपेयादेवेति नियमस्यं सम्मतत्वात् ॥

  180. एकश्शब्दः सम्यग्ज्ञातः सुप्रयुक्तः इत्यादिः ॥

  181. मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।……यथेन्द्रशत्र स्वरतोऽपराधात् इत्याद्यन्तौ ॥

  182. तद्वाक्यानामर्थवादरूपत्वादिति हेतुः ॥

  183. अन्वयव्यतिरेकमूला वैद्यकस्मृतिरिवेत्यन्वयः ॥

  184. संस्कारः—पुरुषगतातिशयः । मतभेदेन विकल्पः ॥

  185. मध्यमं चाबलग्नं च इत्यमरः ।

  186. सेवा—सहकराः ॥

  187. अपस्वराध्ययने हि महाननर्थ उक्तः ॥

  188. वाक्यं अखण्डमिति ते वदन्ति ॥

  189. प्राभाकरभट्टमतभेदेन विकल्पः ॥

  190. यद्यपीदं सर्वं सुपरिहरम् । अथापि व्याकरणप्रणेतार एव एवं क्लिश्यन्ति चेत्, अन्येषां तेन को लाभः ?

  191. इदं सर्वं छान्दसमिति यद्यपि परिहरन्ति । परन्तु अपशब्दत्वं समान मेवेति भावः ॥
  192. इदं सर्वं छान्दसमिति यद्यपि परिहरन्ति । परन्तु अपशब्दत्वं समान मेवेति भावः ॥
  193. न चेष्टापत्तिः, नामपदानामपि धातुत्वप्रसङ्गात् ॥

  194. अनुबन्धः—इत् ॥

  195. पाठः—तथा परिगणनम् ॥

  196. विधिनिमन्त्रणादीनां भेदस्यात्यल्पत्वादिति हेतुः ॥

  197. सार्थ-रथयोः चलनवत्त्वेन गमनक्रियायां कारकत्वेऽपि पतनक्रियायां कथं कारकत्वम् ॥

  198. अधिकरणस्य—अधिकरणभूतायाः स्थाल्याः ॥

  199. यद्यपि सर्वाधारः काल उच्यते । परन्तु तदेवाक्षिप्यते ॥

  200. अतिशायने खलु तमप् ॥

  201. तथा च तत्र प्रथमा न स्यात् ॥

  202. विकॢप्त्यनुकूलव्यापारः खलु धात्वर्थः । स व्यापारः सकलकारकसाधारण एव ॥

  203. प्रथमे नञा सामर्थ्याभावः । समनन्तरयोः अपूर्णार्थत्वात् सामर्थ्याभावः ॥

  204. एते शब्दाः मूलधातुरूपापेक्षयाऽपशब्दा इव । तेषां साधुत्वं महता क्लेशेन संपाद्यते ॥

  205. बृहस्पतिरध्यापयिता । इन्द्रोऽध्येता । दिव्ये वर्षसहस्रमायुः । तथापि नान्तं जगामेति ॥

  206. कटन्दीति वैशेषिकभाष्यविशेष इति चक्रधरः ॥

  207. ते हि शब्दनित्यत्ववादिनः ॥

  208. उच्चारणानूच्चारणवेलायामिदम् ॥

  209. हस्तः, करः इत्यादिशब्दात्तु सूक्ष्मार्थभेदेन भिन्नधातुनिष्पन्नाः ।— गौः, गावि इत्यनयोस्तु न तथात्वमिति ॥

  210. तन्मन्दतायां—अर्थापेतः दुर्बलत्वे । अन्यथापि कार्यसिद्धौ ॥

  211. मीमांसकाः किलातिरिक्तशक्तिवादिनः ॥

  212. अभियौगः—अनुग्रहः । सहायता ॥

  213. लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् । अम्बूकृतं सनिष्ठेवम् इत्यमरः । रोमशः कर्कशः ॥

  214. उन्नतस्थानस्थितिर्हि क्वचित् प्रत्यक्षकारणं भवति ॥

  215. अभावार्थत्वेन—धात्वर्थत्वाभावेन ॥

  216. तथा च अधात्वर्थत्वेऽपि प्रतिपत्तिनियमविधिः संभवति ॥

  217. स्मृत्या श्रत्यनुमानस्य संप्रतिपन्नत्वात् ॥

  218. भोजनस्य रागप्राप्तावपि स्नानादिनियमार्थं विधानवत् नियमविधिरयम् ॥

  219. तत्कृतः—अवच्छेदकत्वकृतः ॥

  220. परार्थत्वत्—विधिप्रतिषेधार्थत्वात् ॥

  221. निरबलम्बनेति । निर्विषयेत्यर्थः ॥

  222. कुमारी—कन्याकुमारीप्रदेशाः ॥

  223. किन्तु अनादिकालप्रवृत्तगुरपरम्परोपदेशलब्धज्ञानेन । आदिम उपदेष्टा तु ईश्वर एव ॥

  224. छाब्दसत्वादिरूपः ॥

  225. पतञ्जलिभर्तृहरिप्रभृतिभिः ॥

  226. प्रत्युत प्रक्षेप्तुः शिरस्येव ते पतेरन् ॥

  227. तिमयः—जलचरप्राणिविशेषाः ॥

  228. एते पंक्तावुपविश्य भुञ्जानाः तत्रत्यान् सर्वान् पावयन्ति ॥

  229. व्याकरणाध्ययनवेलायां तस्य वेदाङ्गत्वज्ञानस्यानपेक्षितत्वान्नान्योन्याश्रयः ॥

  230. प्रत्ययः—विश्वासः ॥

  231. भोगी—शेषः—तदंशभूतः पतञ्जलिः ॥

  232. सर्वमप्येतद्धि वेदप्रमाण्मयसंरक्षणाय ॥