ध्वनिमत्तेति । ध्वननं ध्वनिर्व्यञ्जनात्मा व्यापारः । स द्विविधः—शब्दध्वनिः 065 अर्थध्वनिश्च । येन शब्द एव ध्वन्यते स शब्दध्वनिरभिमत इति केचित्, तन्न । शब्दस्यैव ध्वन्यतानङ्गीकारात् । नाभ्यां पुण्डरीकधारणमित्यादि व्याख्याग्रन्थभङ्गप्रसङ्गाच्च । तस्माच्छब्दाश्रितं ध्वननं शब्दध्वनिरर्थाश्रितं चार्थध्वनिरिति वक्तव्यम् । प्रभूतध्वनिसंबद्धपदकदम्बकस्य गाम्भीर्यम् । अथवा ध्वनयतीति ध्वनिः शब्दात्मको यत्रास्ति पदसमुदायस्तद्गाम्भीर्यम् । तथा हि पुण्डरीकपदप्रस्तावात्सितच्छत्रे नियताभिधानशक्तिकं कांस्यतालानुस्वानस्थानीयां सिताम्भोजव्यक्तिमुपजनयच्चोपलभ्यते । अनेकार्थनियताभिधानशक्तिकत्वाच्च । तदाह—‘अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृव्द्यापृतिरञ्जनम् ॥’ इति । एवं विक्रमादिषु । तथापि विक्रमः पौरूषं परिशिष्टः पादविक्षेपश्च । चक्रं चक्रवर्तिचिह्नं रेखासंनिवेशलक्षणमायुधविशेषश्च । अभ्युद्धरणं सम्यग्लाभपालनप्रापणमुत्थापनं च । लक्ष्मीः संपद्देवताविशेषश्च । ज्यायान् प्रशस्यतरो वयोज्येष्ठश्च । इदमेवाभिसंधाय दिवौकस्पतेरित्यन्तं व्याचष्टे—अत्रेति । तदपीत्यपिशब्देन विरोधद्योतिना हरिभावमाचरन्निति प्रतीयते पुण्डरीकधारणादेरुभयतुल्यत्वान्मौलावित्यादिविरुद्धम्, अतस्तद्विपरीतस्थानीयं विष्णौ ध्वनयत्प्रसिद्धिबलान्नाभ्यादिकमेव ध्वनयति । प्रसिद्धिरपि हि विशिष्टार्थप्रतिपत्तौ कारणमेवेत्यभिप्रेत्य शब्दध्वनिप्रस्तावेऽप्यन्यव्द्याख्यातवान् । अन्यथा तु प्रकृतासंगतिशङ्कया न वाच्यार्थपुष्टिः स्यात् । सोऽयं विरोधरूपमूलः प्रतीयमानव्यतिरेको वाक्यार्थः शब्दध्वनिश्चात्र जीवभूतः । विश्वान्तःकरणैकचोर इत्यनेन त्रिभुवनमनोहरता । दिवानिशमन्तःकरणानि चोरयन्नभ्यासकौशलादिवात्यन्तप्रसिद्धानि नारायणचिह्नानि गोपायसीति प्रतीयमानोत्प्रेक्षा । ननु वस्तुध्वनिं शब्दशक्तिमूलमेके न मन्यन्ते । कथं तर्हि ‘पन्थिअ न एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे । उन्नअपओहरं पेक्खिअ उण जइ वससि ता वससु ॥’6 इत्यादौ वस्तुवर्णनं? न ह्यत्र श्लेषन्यायो न वा समासोक्तिन्यायः संभवति । किं चालंकार ध्वनावपि शब्दशक्तिरेवोपयुक्तेत्यक्षुण्णः शब्दध्वनिः । ये तु वदन्ति शब्दस्याभिधाव्यतिरिक्ता वृत्तिरेव नास्तीति, लक्षणापि तैरनङ्गीकरणीया स्यात् । न चानङ्गीकर्तव्येति वाच्यम् । "गङ्गायां घोषः" इत्यत्र सप्तम्यनन्वयापत्तेः । प्रकृत्यनुगतस्वार्थाभिधानं हि विभक्तीनां व्युत्पन्नमिति घोषप्रतियोगिकाधिकरणभावयोग्यः कश्चिदर्थो गङ्गापदस्य वक्तव्यः । तथा च कान्या नाम लक्षणा । एवं पुण्यत्वादि-066 प्रतीतिस्तत एव भवन्ती ध्वननमुपस्थापयतीत्यादिकमस्माभिः काव्यप्रकाशविवरणे प्रपञ्चितम् । इह तु ग्रन्थगौरवभिया विरम्यते ॥
- ‘पथिक नात्र स्रस्तरमस्ति मनाक्प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रेक्ष्य पुनर्यदि वससि तद्वस ॥’ इति च्छाया↩