351

अत्र वारुण्या यदधराद्रागोऽपहृत्य चक्षुषोर्निक्षिप्तस्तेनेयं व्यत्ययवती, यच्च मुखामोदवासितया स्वामोदेन मुखामोदो विशेषितस्तेन विनिमयवती । तदियमुभयथापि मुख्यवृत्त्यैवोक्तेति मुख्येयमुभयवती परिवृत्तिः ॥

लोचनाधरेति । लोचनाधरयोर्यथासंख्यं कृत आहृतो रागो यया तेन लोचने कृतोऽधरादपनीत इति व्यत्ययः । वासिते आनने विशेषितो गन्धो यस्याः सा तथा । तेन तया मुखं वासितं मुखेन च सेति भवति विनिमयः । परगुणात्मगुणानामिति । परगुणानामिति परगुणानां व्यत्ययः, आत्मगुणानां विनिमय इति संबन्धः । कर्तृत्वमुत्प्रेक्षितं तदेतद्दर्शयति—अत्रेति ॥

उभयवत्यमुख्या यथा—

‘किं चत्रं यदि देवेन भूभृतः करदीकृताः ।
देवोऽपि दापितः किं तैर्न पुनः पृष्ठतः करम् ॥ ८३ ॥’

अत्र भूभृतामकरदानां यत्करप्रदानं जिगीषोश्च यत्पृष्ठे हस्तनिक्षेपः स एव द्रव्यगुणादीनां स्थानादिपरिवृत्तौ व्यत्ययो, यच्च देवेन भूभृतः करदीकृताः देवोऽपि तैः पृष्ठतः करं दापित इति सोऽयं दानप्रतिपादनलक्षणोऽपि विनिमय इत्येतदुभयमपीह श्लिष्टपदाभिधेयत्वादमुख्यवृत्त्यैवोच्यमानमुपलभ्यत इत्युभयवतीयममुख्या परिवृत्तिः ॥

एकत्र प्रतीतस्यान्यत्र प्रत्ययः परिवृत्तौ; तथा निदर्शनेऽपीति तदनन्तरं निद- र्शनं लक्षयति—

दृष्टान्तः प्रोक्तसिद्ध्यै यः सिद्धेऽर्थे तन्निदर्शनम् ।
पूर्वोत्तरसमत्वे तदृजु वक्रं च कथ्यते ॥ ३१ ॥

दृष्टान्त इति । प्रोक्तस्य प्राकरणिकस्य सिद्धिर्निश्चयः । नन्वनुमानाङ्गमपि दृष्टान्ताभिधानं पृथगलंकारः स्यादित्यत आह—सिद्धेऽर्थ इति । सिद्ध एवार्थे कंचिद्विशेषमावेदयितुं दृष्टान्तोक्तिर्निदर्शनम्, साध्ये त्वर्थेऽनुमानमिति विभागः । पूर्वं दार्ष्टान्तिकोक्तिं समाप्य पश्चाद्दृष्टान्तोक्तिरिति द्वितीयः । एकयैवोक्त्या दृष्टान्तदार्ष्टान्तिकयोरिति तृतीयः । तदाह—पूर्वोत्तरसमत्व इति । यत्र शब्दत