354

अपि तु किमेतदापतितमित्युक्तिचातुर्येणेति । ननु च उपरीत्यनेन व्यवधानमुपात्तं दृष्टान्तेऽपि शब्द एव प्रतिफलति तत्कथं वक्रत्वमित्यत आह—विपर्ययेणेति । घनपटलं नपुंसकम्, फणी पुमान्, दयिता चैकवचनवती, ओषधयो बहुवचनालिङिगताः । घनपटलं पूर्वं दार्ष्टान्तिकमुपक्रम्य दृष्टान्तोक्तौ न पूर्वं फणी निर्दिष्टः । ततो लिङ्गसंख्यानां विपर्ययो भवति, तदयमर्थेन शब्दत एवोपरि पर्यवस्थानं दूरत्वं च दृष्टान्तयोः प्रतीयते; शिरसि हिमवतीत्येताभ्यामन्यथाकारं बोधितत्वात् । फलतस्तु स एवार्थ इति वक्रतैवेति ।

सममृजु यथा—

‘याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम् ।
सद्यो राजविरुद्धानां दर्शयन्ती दुरन्तताम् ॥ ८८ ॥’

अत्र राजविरुद्धानामिति श्लिष्टपदेन दर्शयन्तीति वर्तमानकाललक्षणात्सद्य इति तद्धितेन च समकालमेव दृष्टान्तदार्ष्टान्तिकयोः शब्दतो ऋजूक्त्यैवोक्तत्वादिदमृजु समं च निदर्शनम् ।

यतीति । राजा चन्द्रो नृपतिश्च । तदनयोः श्लिष्टोक्तिविषयतया न पूर्वापरभावो विभाव्यते । चन्द्रांशुपराभूतध्वान्तराजीनृपतिविरुद्धदुरन्तयोरपि दर्शयन्तीति शत्रा, सद्य इति तद्धितेन च समत्वम् । किंतु ध्वान्तराजी परभवं यातीति दृष्टान्तोक्तौ सत्यां मध्ये राजविरुद्धानामिति दर्ष्टान्तिकमुक्त्वा पुनरपि दृष्टान्तविशेषणं दर्शयन्तीत्युक्तम् । अतएवोक्तिकवलीकृतत्वाद्दृष्टान्तदार्ष्टान्तिकयोः समत्वमित्याशयवान्व्याचष्टे—अत्र राजविरुद्धानामिति ।

तदेव वक्रं यथा—

‘ण उण वरकोअण्डदण्डए युतिमाणुसेवि एमेअ ।
गुणवज्जिएण जाअइ वंसुप्पण्णे वि टङ्कारो ॥ ८९ ॥’
[न पुनर्वरकोदण्डदण्डके पुत्रि मानुषेऽप्येवमेव ।
गुणवर्जितेन जायते वंशोत्पन्नेऽपि टङ्कारः॥]

अत्र न केवलं कोदण्डदण्डके मानुषेऽप्येवमेवेतीतरेतरयोगवद्वक्रतया युगपदभिधानं गुणवर्जितवंशोत्पन्नेऽपि टङ्कारो न जायत इति