362
हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमारोपयन् शंभोरद्भुतसाहसैकरसिकः कैर्न श्रुतो रावणः ॥ १०५ ॥’

अत्र योऽयं दशवदनेन स्वयं छिन्नैः शिरोभिर्भगवतः शंभोरर्चनाप्रकार उपक्रान्तस्तत्र मूले पञ्च ततश्चतुष्टयमिति शिरोविरचनाप्रपञ्चोबुद्धिपूर्वकोऽदैवकृतः क्रियमाणोऽस्य कर्मणः समाप्तौ सहकारिकारणतामासादयतीत्ययमदैवकृतो बुद्धिपूर्वकः समाहितभेदः ॥

मूले पञ्चेति । अधोऽधः स्थूलपुष्पस्य संनिवेश उपर्युपरि तनुरिति दूर्वापूजाप्रकारः प्रसिद्धः । अन्यतमालोकननिमित्तैरारोपितैः । अत्र लोकप्रसिद्धपूजाप्रकारः कार्यभूतः । उपर्युपरि तनुसंनिवेशनिष्पादनं सहकारि । इदं च रावणप्रयत्ननिष्पाद्यत्वाददैवकृतं बुद्धिपूर्वं च भवतीत्यन्यतमेन मूर्ध्नान्यतमस्यारोपणं न नवमच्छेदपर्यन्तमासीत् । पूजास्वरूपेणैव भगवांस्तुष्यति न तथा विदितेनेत्यभिप्रायवतो निस्तरङ्गा भक्तिस्तेन साहसस्याद्भुतत्वम् ॥

आकस्मिकी बुद्धिपूर्वा दैवकृता यथा—

‘सा कौमुदी नयनयोर्भवतः सुजन्मा तस्या भवानपि मनोरथबन्धबन्धुः ।
तत्सङ्गमं प्रति सखे नहि संशयोऽस्ति यस्मिन्विधिश्च मदनश्च कृताभियोगौ ॥ १०६ ॥’

अत्र योऽयं माधवस्य मालतीं प्रति समागमाभिलाषस्तत्रेयं मालत्या आकस्मिकी बुद्धिपूर्वा च तथा प्रवृत्तिः सोभय्यपि दैवकृता च सहायाप्तिः समाहितभेदः ॥

अत्र योऽयं माधवस्येति । विधिश्च मदनश्च कृताभियोगावित्यनेन मालत्याः पृर्वानुभावाः कथ्यन्ते । ते च द्विधा भवन्तीत्याकस्मिकी दैवपूर्वा सहायसंपत्तिः ॥

आकस्मिकी बुद्धिपूर्वा चादैवकृता यथा—

‘दृष्टिर्वन्दनमालिका स्तनयुगं लावण्यपूर्णौ घटौ शुभ्राणां प्रकरः स्मितः सुमनसां वक्रप्रभा दर्पणः ।