368

अत्र गङ्गाम्भःप्रतिफलितां रजनिकरकलामालोकयतो वासुकेर्येयं शफरीभ्रमेण मुकुलीकुर्वन् फणालीं शफरीयमित्यध्यासिता विपर्ययबुद्धिः सोऽयं भ्रान्त्यतिशयो नाम भ्रान्तेरेव भेदः ॥

जिघृक्षतितमामिति । ‘तिङश्च ५।३।५६’ इति तमपि ‘किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ५।४।११’ इत्याम् ॥

भ्रान्त्यनध्यवसायोऽपि द्विधा—सालम्बनो निरालम्बनश्च । तयोः सालम्बनो यथा—

134‘विरहिणिहिअअकअन्तहिं णिण्णाअइ तक्खणि छाइज्जइ अलिणिवहेहिं चैत्तेण चूअवणी ।
अह तासु वि मअरन्दहिं संदाणिअइ जह ण कलम्ब ण अम्ब ण जम्बू जाणिअइ ॥ ११८ ॥’
[विरहिणीहृदयकृतान्तैर्निर्णीयते तत्क्षणे छाद्यतेऽलिनिवहैश्चैत्रेण चूतवनी ।
अथ तास्वपि मकरन्दैर्वध्यते यथा न कदम्बो नाम्रो न जम्बूर्ज्ञायते ॥]

न कदम्बो नाम्रो न जम्बूरिति ज्ञायत इति त्रयाणामेवावलम्बनभूतत्वात्सालम्बनो नामायं भ्रान्त्यनध्यवसायो भ्रान्तिभेदः ॥

भ्रान्तेरनध्यवसायोऽनिर्धार्यमाणविषयता । विरहिणीजणण इति । विरहिणीजनस्य । ‘अधीगर्थ-२।३।५२।’ इत्यादिना कर्मणि षष्ठी । दअन्तेण दयमानेन रक्षता । णावइ प्रतिभाति । तक्खणि तत्र क्षणे । छाइज्जइ अलिणिवहेहिं छाद्यतेऽलिनिवहैः करणभूतैः । चैत्तेण चैत्रेण कर्त्रा । चूअवणी चूतवनी । तह तथा । तासु वि तस्या अपि । संदाणिअइ बध्यते । अनिर्धारितविषयतया कथमालम्बननिरालम्बनयोर्भेद इत्यत आह—त्रयाणामेवावलम्बनभूतत्वादिति । उक्तिभङ्ग्या विषयोपादानादित्यर्थः ॥

  1. अत्र श्लोके—‘विरहिणीजणण’ इति, ‘दअन्तेण’ इति, ‘णावइ’ इति, ‘चैत्तेण’ इति टीकाकारसंमतः पाठः.