373

प्रतीयमानगुणेन यथा—

‘पि अदंसणेण सुहरसमुउलिअ जइसे ण होन्ति णअणाइम् ।
ता केण कण्णरइअं लक्खिज्जइ कुवलअं तस्सा ॥ १२७ ॥’
[प्रियदर्शनेन सुखरसमुकुलिते यद्यस्या न भवेतां नयने ।
तत्केन कर्णरचितं लक्ष्येत कुवलयं तस्याः ॥]

अत्र प्रियदर्शनसुखेन मुकुलितयोरेव लोचनयोस्तस्याः कर्णकुवलयं लक्ष्यते नत्वमुकुलितयोरिति वस्तुना वस्त्वन्तरतिरस्कारः प्रतीयमानगुणतयोपपादित इति प्रतीयमानगुणेन वस्तुना मीलितमिदम् ॥

ननु पिअदंसणेणेत्यादि कथं मीलितं, न ह्यत्र तिरस्कारः केनापि शब्देन प्रत्याय्यत इत्यत आह—नत्वमुकुलितयोरिति । यदि मुकुलिते न स्यातां कथं कुवलयं लक्ष्यत इति तर्कस्य तिरस्कारपर्यवसानादिति भावः । मूर्तिरूपादिकः प्रतीयमानो गुणः ॥

पिहितं यथा—

‘पअडिअसणेहसंभावविब्भमन्तिअ जह तुमं दिट्ठो ।
संवरणवावडाए अण्णोवि जणो तह च्चेअ ॥ १२८ ॥’
[प्रकटितस्नेहसद्भावविभ्रमतया यथा त्वं दृष्टः ।
संवरणव्यापृतया अन्योऽपि जनस्तथा चैव ॥]

अत्र प्रकटितस्नेहविभ्रमतया त्वामवलोक्य नैतदन्यो जनो जानात्विति सर्वत्र स्निग्धदृष्टिपातेन पिहितमप्येतन्मीलितभेद एव ॥

अपिहितं यथा—

‘दिट्ठाइवि जण्ण दिट्ठो आलविआएवि जण्ण आलविओ ।
उवआरो जण्ण कओ तेण अ कलिअं छइल्लेहिम् ॥ १२९ ॥’
[दृष्टयापि यन्न दृष्ट आलपितयापि यन्नालपितः ।
उपचारो यन्न कृतस्तेन च कलितं छेकैः ॥]